निर्जले विपुले देशे हनस्व मधुसूदन । वध्यावावां तु भवतः सत्यवाग्भव माधव
स्मृत्वा चक्रं तदा विष्णुस्तावुवाच हसन्हरिः । हन्म्यद्य वां महाभागौ निर्जले विपुले स्थले
इत्युक्त्या देवदेवेश ऊरू कृत्वातिविस्तरौ । दर्शयामास तौ तत्र निर्जलं च जलोपरि
नास्त्यत्र दानवौ वारि शिरसी मुञ्चतामिह । सत्यवागहमद्यैव भविष्यामि च वां तथा
तदाकर्ण्य वचस्तथ्यं विचिन्त्य मनसा च तौ । वर्धयामासतुर्देहं योजनानां सहस्रकम्
भगवान्द्विगुणं चक्रे जघनं विस्मितौ तदा । शीर्षे सन्दधतां तत्र जघने परमाद्भुते
रथांगेन तदा छिन्ने विष्णुना प्रभविष्णुना । जघनोपरि वेगेन प्रकृष्टे शिरसी तयोः
गतप्राणौ तदा जातौ दानवौ मधुकैटभौ । सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः
मेदिनीति ततो जातं नाम पृथ्व्याः समन्ततः । अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः
इति वः कथितं सर्वं यत्पृष्टोऽस्मि सुनिश्चितम् । महाविद्या महामाया सेवनीया सदा बुधैः
आराध्या परमा शक्तिः सर्वैरपि सुरासुरैः । नातः परतरं किञ्चिदधिकं भुवनत्रये
सत्यं सत्यं पुनः सत्यं वेदशास्त्रार्थनिर्णयः । पूजनीया परा शक्तिर्निर्गुणा सगुणाथवा
शिववरदानवर्णनम् ऋषय ऊचुः सूत पूर्वं त्वया प्रोक्तं व्यासेनामिततेजसा । कृत्वा पुराणमखिलं शुकायाध्यापितं शुभम्
व्यासेन तु तपस्तप्त्वा कथमुत्पादितः शुकः । विस्तरं ब्रूहि सकलं यच्छ्रुतं कृष्णतस्त्वया
सूत उवाच प्रवक्ष्यामि शुकोत्पत्तिं व्यासात्सत्यवतीसुतात् । यथोत्पन्नः शुकः साक्षाद्योगिनां प्रवरो मुनिः
मेरुशृङ्गे महारम्ये व्यासः सत्यवतीसुतः । तपश्चचार सोऽत्युग्रं पुत्रार्थं कृतनिश्चयः
जपन्नेकाक्षरं मन्त्रं वाग्बीजं नारदाच्छ्रुतम् । ध्यायन्परां महामायां पुत्रकामस्तपोनिधिः
अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाप्ययम् । वीर्येण सम्मितः पुत्रो मम भूयादिति स्म ह
अतिष्ठत्स गताहारः शतसंवत्सरं प्रभुः । आराधयन्महादेवं तथैव च सदाशिवाम्
शक्तिः सर्वत्र पूज्येति विचार्य च पुनः पुनः । अशक्तो निन्द्यते लोके शक्तस्तु परिपूज्यते
यत्र पर्वतशृङ्गे वै कर्णिकारवनाद्भुते । क्रीडन्ति देवताः सर्वे मुनयश्च तपोऽधिकाः
आदित्या वसवो रुद्रा मरुतश्चाश्विनौ तथा । वसन्ति मुनयो यत्र ये चान्ये ब्रह्मवित्तमाः
तत्र हेमगिरेः शृङ्गे संगीतध्वनिनादिते । तपश्चचार धर्मात्मा व्यासः सत्यवतीसुतः
ततोऽस्य तेजसा व्याप्तं विश्वं सर्वं चराचरम् । अग्निवर्णा जटा जाता पाराशर्यस्य धीमतः
ततोऽस्य तेज आलक्ष्य भयमाप शचीपतिः । तुरासाहं तदा दृष्ट्वा भयत्रस्तं श्रमातुरम्
उवाच भगवान् रुद्रो मघवन्तं तथास्थितम् । शङ्कर उवाच कथमिन्द्राद्य भीतोऽसि किं दुःखं ते सुरेश्वर
अमर्षो नैव कर्तव्यस्तापसेषु कदाचन । तपश्चरन्ति मुनयो ज्ञात्वा मां शक्तिसंयुतम्
न त्वेतेऽहितमिच्छन्ति तापसाः सर्वथैव हि । इत्युक्तवचनः शक्रस्तमुवाच वृषध्वजम्
कस्मात्तपस्यति व्यासः कोऽर्थस्तस्य मनोगतः । शिव उवाच पाराशर्यस्तु पुत्रार्थी तपश्चरति दुश्चरम्
पूर्णवर्षशतं जातं ददाम्यद्य सुतं शुभम् । सूत उवाच इत्युक्त्या वासवं रुद्रो दयया मुदिताननः