वसिष्ठ उवाच शृणु राजन्नुपायोऽस्ति रोगनाशं प्रति स्तुतः । त्रयोदशविधाः पुत्राः कथिता धर्मसंग्रहे
तस्मात्क्रीतं सुतं कृत्वा यजस्व मखमुत्तमम् । द्रव्यं दत्त्वा यथोद्दिष्टमानयस्व द्विजोत्तमम्
एवं कृते मखे भूप रोगनाशो भविष्यति । वरुणोऽपि प्रसन्नात्मा भविष्यति यथासुखम्
व्यास उवाच इति तस्य वचः श्रुत्वा राजा प्रोवाच मन्त्रिणम् । अन्वेषय महाबुद्धे विषयेष्वतियत्नतः
कदाचित्कोऽपि लोभार्थी ददाति स्वसुतं पिता । समानय धनं दत्त्वा यावत्प्रार्थयतेऽप्यसौ
सर्वथैव समानेयो यज्ञार्थे द्विजबालकः । न कार्या कृपणा बुद्धिस्त्वया मत्कार्यहेतवे
प्रार्थनीयस्त्वया पुत्रः कस्यचिद्द्विजवादिनः । द्रव्येण देहि यज्ञार्थं कर्तव्योऽसौ पशुः किल
इति सञ्चोदितस्तेन सचिवः कार्यहेतवे । अन्वेषयामास पुरे ग्रामे ग्रामे गृहे गृहे
एवमन्वेषतस्तस्य विषये कश्चिदातुरः । निर्धनस्त्रिसुतश्चासीदजीगर्तेति नामतः
तस्य पुत्रं शुनःशेपं मध्यमं मन्त्रिसत्तमः । आनयामास दत्त्वार्थं प्रार्थितं यद्धनं तदा
समानीय शुनःशेपं सचिवः कार्यतत्परः । राज्ञे निवेदयामास पशुयोग्यं द्विजात्मजम्
राजातिमुदितस्तेन विप्रानानीय सर्वतः । कारयामास सम्भारान्यज्ञार्थं वेदवित्तमान्
प्रारब्धे तु मखे तत्र विश्वामित्रो महामुनिः । बद्धं दृष्ट्वा शुनःशेपं निषिषेध नृपं तदा
राजन्मा साहसं कार्षीर्मुञ्चैनं द्विजबालकम् । प्रार्थयाम्यहमायुष्मन् सुखं तेऽद्य भविष्यति
क्रन्दत्ययं शुनःशेपः करुणा मां दुनोत्यपि । दयावान्भव राजेन्द्र कुरु मे वचनं नृप
परदेहस्य रक्षायै स्वदेहं ये दयापराः । ददति क्षत्रियाः पूर्वं स्वर्गकामाः शुचिव्रताः
त्वं स्वदेहस्य रक्षार्थं हंसि द्विजसुतं बलात् । पापं मा कुरु राजेन्द्र दयावान् भव बालके
सर्वेषां सदृशी प्रीतिर्देहे वेत्सि स्वयं नृप । मुञ्चैनं बालकं तस्मात्प्रमाणं यदि मे वचः
व्यास क्त्वच अनादृत्य च तद्वाक्यं राजा दुःखातुरो भृशम् । न मुमोच मुनिस्तस्मै चूकोपातीव तापसः
उपदेशं ददौ तस्मै शुनःशेपाय कौशिकः । मन्त्रं पाशधरस्याथ दयावान्वेदवित्तमः
शुनःशेपोऽपि तं मन्त्रमसकृद्वधकर्शितः । स्तुतस्वरेण चुक्रोश संस्मरन्वरुणं भृशम्
स्तुवन्तं मुनिपुत्रं तं ज्ञात्वा वै यादसां पतिः । तत्रागत्य शुनःशेपं मुमोच करुणार्णवः
रोगहीनं नृपं कृत्वा वरुणः स्वगृहं ययौ । विश्वामित्रस्तु तं पुत्रं कृतवान्मोचितं मृतेः
न कृतं वचनं राज्ञा कौशिकस्य महात्मनः । रोषं दधार मनसा राजोपरि स गाधिजः
एकस्मिन्समये राजा हयारूढो वनं गतः । सूकरं हन्तुकामस्तु मध्याह्ने कौशिकीतटे
वृद्धब्राह्मणवेषेण विश्वामित्रेण वञ्चितः । सर्वस्वं प्रार्थितं तस्य गृहीतं राज्यमद्भुतम्
पीडितोऽसौ हरिश्चन्द्रो यजमानो यतो भृशम् । वसिष्ठः कौशिकं प्राह वने प्राप्तं यदृच्छया
क्षत्रियाधम दुर्बुद्धे वृथा ब्राह्मणवेषभृत् । बकधर्म वृथा किं त्वं गर्वं वहसि दाम्भिक
कस्मात्त्वया नृपश्रेष्ठो यजमानो ममाप्यसौ । अपराधं विना जाल्म गमितो दुःखमद्भुतम्
बकध्यानपरो यस्मात्तस्मात्त्वं वै बको भव । इति शप्तो वसिष्ठेन कौशिकः प्राह तं पुनः