कृतार्हणं सुखासीनं भूपतिस्तं सुरोत्तमम् । उवाच विनयोपेतो हेतुगर्भं वचस्तदा
असंस्कृतं सुतं स्वामिन्यूपे बध्नामि तं कथम् । संस्कत्य क्षत्रियं कृत्वा यजेऽहं यज्ञमुत्तमम्
दयसे यदि देव त्वं ज्ञात्वा दीनं स्वसेवकम् । असंस्कृतस्य बालस्य नाधिकारोऽस्ति कुत्रचित्
वरुण उवाच प्रतारयसि राजेन्द्र कृत्वा समयमग्रतः । दुस्त्यजस्तव जानामि सुतस्नेहो ह्यपुत्रिणः
गृहं व्रजामि भूपाल वचनात्तव कोमलात् । कियत्कालं प्रतीक्ष्याहमागमिष्यामि ते गृहम्
भवितव्यं त्वया तात तदा सत्यवचोऽन्वितम् । अन्यथा त्वयि मुञ्चामि कोपं शापसमन्वितम्
राजोवाच समावर्तनकर्मान्ते सर्वथा यादसांपते । कृत्वा पुत्रपशुं यज्ञे यजिष्ये विधिपूर्वकम्
व्यास उवाच तच्छ्रुत्वा वचनं राज्ञो वरुणः प्रीतमानसः । तथेत्युक्त्वा ययौ तूर्णं नृपस्तु सुस्थितोऽभवत्
रोहिताख्य इति ख्यातः सुतस्तस्य विवृद्धिमान् । सञ्जातश्चतुरः सर्वविद्यानां च विशारदः
यज्ञस्य कारणं तेन ज्ञातं सर्वं सविस्तरम् । भयभीतस्ततः सोऽपि मत्वा मरणमात्मनः
कृत्वा पलायनं वीरो गतोऽसौ गिरिगह्वरे । अगम्ये नृपतिस्थाने स्थितस्तत्र भयातुरः
प्राप्ते कालेऽथ वरुणो यज्ञार्थी नृपतेर्गृहम् । गत्वा तमाह भूपालं कुरु यज्ञं विशांपते
प्रम्लानवदनो राजा तमाह व्यथितेन्द्रियः । किं करोमि गतः क्वापि सुतो मे सुरसत्तम
श्रुत्वा तद्वचनं राज्ञः कुपितो यादसांपतिः । शशाप तं नृपं कोपादसत्यवादिनं भृशम्
जलोदराभिधो व्याधिर्देहे भवतु ते नृप । यतः प्रतारितश्चाहं कृत्वा कपटपण्डित
इति शप्त्वा ययौ धाम स्वकं पाशधरस्तदा । राजा चिन्तातुरस्तस्थौ भवने व्याधिपीडितः
यदातिव्याधितो राजा रोगेण शापजेन ह । तदा शुश्राव पुत्रोऽपि पितरं व्याधिपीडितम्
पान्थिकः प्राह पुत्रं हि पिता ते भृशदुःखितः । जलोदरविकारेण शापजेन नृपात्मज
विनष्टं जीवितं तेऽद्य वृथा जातस्य दुर्मते । यत्त्यक्त्वा पितरं दुःस्थं प्राप्तोऽसि गिरिगह्वरम्
किमनेन शरीरेण प्राप्तं ते जन्मनः फलम् । देहदं दुःखितं कृत्वा स्थितोऽस्यत्र सुताधम
प्राणास्त्याज्याः पितुः कार्ये सत्पुत्रेणेति निश्चयः । त्वदर्थे दुःखितो राजा क्रन्दति व्याधिपीडितः
व्यास उवाच तदाकर्ण्य वचस्तथ्यं पान्थिकाद्धर्मसंयुतम् । यदा चक्रे मनो गन्तुं द्रष्टुं तातं व्यथातुरम्
तदा विप्रवपुर्भूत्वा वासवस्तमुपागमत् । रहः प्राह हितं वाक्यं दयावानिव भारत
मूर्खोऽसि राजपुत्र त्वं गमनाय मतिं वृथा । करोषि पितरं त्वद्य न जानासि व्यथायुतम्
आडीबकयुद्ध वर्णनसहितं देवीमाहात्म्यवर्णनम् इन्द्र उवाच साहसं कृतवान् राजा पूर्वं यत्कथितो मखः । वरुणाय प्रतिज्ञातः पुत्रं कृत्वा पशुं प्रियम्
गते त्वयि पिता पुत्रं बद्ध्वा यूपेऽघृणः पुनः । पशुं कृत्वा महाबुद्धे वधिष्यति व्यथातुरः
इत्थं निषिद्धस्तत्पुत्रः शक्रेणामिततेजसा । स्थितस्तत्रैव मायेशीमायया मोहितो भृशम्
यदा पुनः पुनः श्रुत्वा पितरं रोगपीडितम् । गमनाय मतिं चक्रे तदेन्द्रः प्रत्यषेधयत्
हरिश्चन्द्रोऽतिदुःखार्तः पप्रच्छ गुरुमन्तिके । स्थितं वसिष्ठमेकान्ते सर्वज्ञं हिततत्परम्
राजोवाच भगवन् कि करोम्यद्य कातरोऽस्मि व्यथाकुलः । त्राहि मां दुःखमनसं महाव्याधिभयातुरम्