सर्वविघ्नकरा ह्येते तपस्तीर्थव्रतेषु च । अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः
स्वधर्मपालनं राजन् सर्वतीर्थफलप्रदम् । नित्यकर्मपरित्यागान्मार्गे संसर्गदोषतः
व्यर्थं तीर्थाधिगमनं पापमेवावशिष्यते । क्षालयन्ति हि तीर्थानि सर्वथा देहजं मलम्
मानसं क्षालितुं तानि न समर्थानि वै नृप । शक्तानि यदि चेत्तानि गङ्गातीरनिवासिनः
मुनयो द्रोहसंयुक्ताः कथं स्युर्भावितेश्वराः । वसिष्ठसदृशाः प्रह्वा विश्वामित्रादयः किल
रागद्वेषरताः सर्वे कामक्रोधाकुलाः सदा । चित्तशुद्धिमयं तीर्थं गङ्गादिभ्योऽतिपावनम्
यदि स्याद्दैवयोगेन क्षालयत्यान्तरं मलम् । विशेषेण तु सत्सङ्गो ज्ञाननिष्ठस्य भूपते
न वेदा न च शास्त्राणि न व्रतानि तपांसि न । न मखा न च दानानि चित्तशुद्धेस्तु कारणम्
वसिष्ठो ब्रह्मणः पुत्रो वेदविद्याविशारदः । रागद्वेषान्वितः कामं गङ्गातीरसमाश्रितः
आडीबकं महायुद्धं विश्वामित्रवसिष्ठयोः । जातं निरर्थकं द्वेषाद्देवानां विस्मयप्रदम्
विश्वामित्रो बकस्तत्र जातः परमतापसः । शप्तः स तु वसिष्ठेन हरिश्चन्द्रस्य कारणात्
कौशिकेन वसिष्ठोऽपि शस्त्वाडीदेहभाक्कृतः । शापादाडीबकौ जातौ तौ मुनी विशदप्रभौ
निवासं प्रापतुस्तीरे सरसो मानसस्य च । चक्रतुर्दारुणं युद्धं नखचञ्चुप्रताडनैः
वर्षाणामयुतं यावत्तावृषी रोषसंयुतौ । युयुधाते मदोन्मत्तौ सिंहाविव परस्परम्
राजोवाच कथं तौ मुनिशार्दूलौ तापसौ धर्मतत्परौ । परस्परं वैरपरौ सञ्जातौ केन हेतुना
शापं परस्परं केन कारणेन महामती । दत्तवन्तौ मिथः क्लेशकारकौ दुःखदौ नृणाम्
व्यास उवाच हरिश्चन्द्रो नृपश्रेष्ठस्त्रिशंकुतनयः पुरा । बभूव रविवंशीयो रामचन्द्रस्य पूर्वजः
अनपत्यः स राजर्षिर्वरुणाय महाक्रतुम् । प्रतिजज्ञे पुत्रकामो नरमेधं दुरासदम्
वरुणस्तस्य सन्तुष्टो यज्ञस्य नियमे कृते । दधार गर्भं राज्ञस्तु भार्या परमसुन्दरी
राजा बभूव सन्तुष्टो दृष्ट्वा भार्यां सदोहदाम् । चकार विधिवत्कर्म गर्भसंस्कारकारकम्
सुषुवे तनयं नारी सर्वलक्षणसंयुतम् । मुदं प्राप नृपस्तत्र पुत्रे जाते विशाम्पते
कृतवाञ्जातकर्मादिसंस्कारविधिमुत्तमम् । ददौ हिरण्यं गा दोग्धीर्ब्राह्मणेभ्यो विशेषतः
जन्मोत्सवेऽतिसंवृत्ते गेहे वै यादसाम्पतिः । आजगाम महाराज विप्रवेषधरस्तथा
पूजितः पार्थिवेनाथ दत्त्वा विधिवदासनम् । कार्ये पृष्टेऽब्रवीद्वाक्यं वरुणोऽस्मीति भूपतिम्
कुरु यज्ञं सुतं कृत्वा पशुं परमपावनम् । सत्यवाग्भव राजेन्द्र संकल्पस्तु त्वया कृतः
तच्छ्रुत्वा वचनं राजा विह्वलोऽतिव्यथाकुलः । संस्तभ्याधिं नृपः प्राह वरुणं सत्कृताञ्जलिः
स्वामिन्करोमि तं यज्ञं सर्वथा विधिपूर्वकम् । मया ते यत्प्रतिज्ञातं भवामि सत्यवागहम्
पूर्णे मासे विशुध्येत धर्मपत्नी सुरोत्तम । विशुद्धायां तु भार्यायां कर्तव्यः स पशोर्मखः
व्यास उवाच इत्युक्ते वचने राज्ञा वरुणः स्वगृहं गतः । राजा बभूव सन्तुष्टः किञ्चिच्चिन्तातुरस्तथा
पूर्णे मासि पुनः पाशी परीक्षार्थं नृपालये । आजगाम द्विजो भूत्वा सुवेषः सुष्ठुभाषकः