तथा बिन्दुसरः श्रेष्ठमच्छोदं नाम पावनम् । आश्रमास्तु तथा पुण्या मुनीनां भावितात्मनाम्
विश्रुतस्तु सदा पुण्यः ख्यातो बदरिकाश्रमः । नरनारायणौ यत्र तेपाते तौ मुनी तपः
वामनाश्रम आख्यातः शतयूपाश्रमस्तथा । येन यत्र तपस्तप्तं तस्य नाम्नातिविश्रुतः
एवं पुण्यानि स्थानानि ह्यसंख्यातानि भूतले । मुनिभिः परिगीतानि पावनानि महीपते
एषु स्थानेषु सर्वत्र देवीस्थानानि भूपते । दर्शनात्पापहारीणि वसन्ति नियमेन च
कथयिष्यामि तान्यग्रे प्रसङ्गेन च कानिचित् । तीर्थानि नृप दानानि व्रतानि च मखास्तथा
तपांसि पुण्यकर्माणि सापेक्षाणि महीपते । द्रव्यशुद्धिं क्रियाशुद्धिं मनःशुद्धिमपेक्ष्य च
पावनानि हि तीर्थानि तपांसि च व्रतानि च । कदाचिद्द्रव्यशुद्धिः स्यात्क्रियाशुद्धिः कदाचन
दुर्लभा मनसः शुद्धिः सर्वेषां सर्वदा नृप । मनस्तु चञ्चलं राजन्ननेकविषयाश्रितम्
कथं शुद्धं भवेद्राजन्नानाभावसमाश्रितम् । कामक्रोधौ तथा लोभो ह्यहङ्कारो मदस्तथा
सर्वविघ्नकरा ह्येते तपस्तीर्थव्रतेषु च । अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः
स्वधर्मपालनं राजन् सर्वतीर्थफलप्रदम् । नित्यकर्मपरित्यागान्मार्गे संसर्गदोषतः
व्यर्थं तीर्थाधिगमनं पापमेवावशिष्यते । क्षालयन्ति हि तीर्थानि सर्वथा देहजं मलम्
मानसं क्षालितुं तानि न समर्थानि वै नृप । शक्तानि यदि चेत्तानि गङ्गातीरनिवासिनः
मुनयो द्रोहसंयुक्ताः कथं स्युर्भावितेश्वराः । वसिष्ठसदृशाः प्रह्वा विश्वामित्रादयः किल
रागद्वेषरताः सर्वे कामक्रोधाकुलाः सदा । चित्तशुद्धिमयं तीर्थं गङ्गादिभ्योऽतिपावनम्
यदि स्याद्दैवयोगेन क्षालयत्यान्तरं मलम् । विशेषेण तु सत्सङ्गो ज्ञाननिष्ठस्य भूपते
न वेदा न च शास्त्राणि न व्रतानि तपांसि न । न मखा न च दानानि चित्तशुद्धेस्तु कारणम्
वसिष्ठो ब्रह्मणः पुत्रो वेदविद्याविशारदः । रागद्वेषान्वितः कामं गङ्गातीरसमाश्रितः
आडीबकं महायुद्धं विश्वामित्रवसिष्ठयोः । जातं निरर्थकं द्वेषाद्देवानां विस्मयप्रदम्
विश्वामित्रो बकस्तत्र जातः परमतापसः । शप्तः स तु वसिष्ठेन हरिश्चन्द्रस्य कारणात्
कौशिकेन वसिष्ठोऽपि शस्त्वाडीदेहभाक्कृतः । शापादाडीबकौ जातौ तौ मुनी विशदप्रभौ
निवासं प्रापतुस्तीरे सरसो मानसस्य च । चक्रतुर्दारुणं युद्धं नखचञ्चुप्रताडनैः
वर्षाणामयुतं यावत्तावृषी रोषसंयुतौ । युयुधाते मदोन्मत्तौ सिंहाविव परस्परम्
राजोवाच कथं तौ मुनिशार्दूलौ तापसौ धर्मतत्परौ । परस्परं वैरपरौ सञ्जातौ केन हेतुना
शापं परस्परं केन कारणेन महामती । दत्तवन्तौ मिथः क्लेशकारकौ दुःखदौ नृणाम्
व्यास उवाच हरिश्चन्द्रो नृपश्रेष्ठस्त्रिशंकुतनयः पुरा । बभूव रविवंशीयो रामचन्द्रस्य पूर्वजः
अनपत्यः स राजर्षिर्वरुणाय महाक्रतुम् । प्रतिजज्ञे पुत्रकामो नरमेधं दुरासदम्
वरुणस्तस्य सन्तुष्टो यज्ञस्य नियमे कृते । दधार गर्भं राज्ञस्तु भार्या परमसुन्दरी
राजा बभूव सन्तुष्टो दृष्ट्वा भार्यां सदोहदाम् । चकार विधिवत्कर्म गर्भसंस्कारकारकम्