हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् राजोवाच तीर्थानि भुवि पुण्यानि ब्रूहि मे मुनिसत्तम । गम्यानि मानवैर्देवैः क्षेत्राणि सरितस्तथा
फलं च यादृशं यत्र तीर्थेषु स्नानदानतः । विधिं तु तीर्थयात्रायां नियमांश्च विशेषतः
व्यास उवाच शृणु राजन् प्रवक्ष्यामि तीर्थानि विविधानि च । येषु तीर्थेषु देवीनां प्रशस्तान्यायनानि च
नदीनां जाह्नवी श्रेष्ठा यमुना च सरस्वती । नर्मदा गण्डकी सिन्धुर्गोमती तमसा तथा
कावेरी चन्द्रभागा च पुण्या वेत्रवती शुभा । चर्मण्वती च सरयूस्तापी साभ्रमती तथा
एताश्च कथिता राजन्नन्याश्च शतशः पुनः । तासां समुद्रगाः पुण्याः स्वल्पपुण्या ह्यनब्धिगाः
समुद्रगानां ताः पुण्याः सर्वदौघवहास्तु याः । मासद्वयं श्रावणादौ ताश्च सर्वा रजस्वलाः
भवन्ति वृष्टियोगेन ग्राम्यवारिवहास्तथा । पुष्करं च कुरुक्षेत्रं धर्मारण्यं सुपावनम्
प्रभासं च प्रयागं च नैमिषारण्यमेव च । विश्रुतं चार्बुदारण्यं शैलाश्च पावनास्तथा
श्रीशैलश्च सुमेरुश्च पर्वतो गन्धमादनः । सरांसि चैव पुण्यानि मानसं सर्वविश्रुतम्
तथा बिन्दुसरः श्रेष्ठमच्छोदं नाम पावनम् । आश्रमास्तु तथा पुण्या मुनीनां भावितात्मनाम्
विश्रुतस्तु सदा पुण्यः ख्यातो बदरिकाश्रमः । नरनारायणौ यत्र तेपाते तौ मुनी तपः
वामनाश्रम आख्यातः शतयूपाश्रमस्तथा । येन यत्र तपस्तप्तं तस्य नाम्नातिविश्रुतः
एवं पुण्यानि स्थानानि ह्यसंख्यातानि भूतले । मुनिभिः परिगीतानि पावनानि महीपते
एषु स्थानेषु सर्वत्र देवीस्थानानि भूपते । दर्शनात्पापहारीणि वसन्ति नियमेन च
कथयिष्यामि तान्यग्रे प्रसङ्गेन च कानिचित् । तीर्थानि नृप दानानि व्रतानि च मखास्तथा
तपांसि पुण्यकर्माणि सापेक्षाणि महीपते । द्रव्यशुद्धिं क्रियाशुद्धिं मनःशुद्धिमपेक्ष्य च
पावनानि हि तीर्थानि तपांसि च व्रतानि च । कदाचिद्द्रव्यशुद्धिः स्यात्क्रियाशुद्धिः कदाचन
दुर्लभा मनसः शुद्धिः सर्वेषां सर्वदा नृप । मनस्तु चञ्चलं राजन्ननेकविषयाश्रितम्
कथं शुद्धं भवेद्राजन्नानाभावसमाश्रितम् । कामक्रोधौ तथा लोभो ह्यहङ्कारो मदस्तथा
सर्वविघ्नकरा ह्येते तपस्तीर्थव्रतेषु च । अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः
स्वधर्मपालनं राजन् सर्वतीर्थफलप्रदम् । नित्यकर्मपरित्यागान्मार्गे संसर्गदोषतः
व्यर्थं तीर्थाधिगमनं पापमेवावशिष्यते । क्षालयन्ति हि तीर्थानि सर्वथा देहजं मलम्
मानसं क्षालितुं तानि न समर्थानि वै नृप । शक्तानि यदि चेत्तानि गङ्गातीरनिवासिनः
मुनयो द्रोहसंयुक्ताः कथं स्युर्भावितेश्वराः । वसिष्ठसदृशाः प्रह्वा विश्वामित्रादयः किल
रागद्वेषरताः सर्वे कामक्रोधाकुलाः सदा । चित्तशुद्धिमयं तीर्थं गङ्गादिभ्योऽतिपावनम्
यदि स्याद्दैवयोगेन क्षालयत्यान्तरं मलम् । विशेषेण तु सत्सङ्गो ज्ञाननिष्ठस्य भूपते
न वेदा न च शास्त्राणि न व्रतानि तपांसि न । न मखा न च दानानि चित्तशुद्धेस्तु कारणम्
वसिष्ठो ब्रह्मणः पुत्रो वेदविद्याविशारदः । रागद्वेषान्वितः कामं गङ्गातीरसमाश्रितः
आडीबकं महायुद्धं विश्वामित्रवसिष्ठयोः । जातं निरर्थकं द्वेषाद्देवानां विस्मयप्रदम्