ददामि परमप्रीतो युद्धेन युवयोः किल । दानवा बहवो दृष्टा युध्यमाना मया पुरा
युवयोः सदृशः कोऽपि न दृष्टो न च वै श्रुतः । तस्मात्तुष्टोऽस्मि कामं वै निस्तुलेन बलेन च
भ्रात्रोश्च वाञ्छितं कामं प्रयच्छामि महाबलौ । सूत उवाच तच्छ्रुत्वा वचनं विष्णोः साभिमानौ स्मरातुरौ
वीक्षमाणौ महामायां जगदानन्दकारिणीम् । तमूचतुश्च कामार्तौ विष्णुं कमललोचनौ
हरे न याचकावावां त्वं किं दातुमिहेच्छसि । ददाव तुल्यं देवेश दातारौ नौ न याचकौ
प्रार्थय त्वं हृषीकेश मनोऽभिलषितं वरम् । तुष्टौ स्वस्तव युद्धेन वासुदेवाद्भुतेन च
तयोस्तद्वचनं श्रुत्वा प्रत्युवाच जनार्दनः । भवेतामद्य मे तुष्टौ मम वध्यावुभावपि
सूत उवाच तच्छ्रुत्वा वचनं विष्णोर्दानवौ चातिविस्मितौ । वञ्चिताविति मन्वानौ तस्थतुः शोकसंयुतौ
विचार्य मनसा तौ तु दानवौ विष्णुमूचतुः । प्रेक्ष्य सर्वं जलमयं भूमिं स्थलविवर्जिताम्
हरे योऽयं वरो दत्तस्त्वया पूर्वं जनार्दन । सत्यवागसि देवेश देहि तं वाञ्छितं वरम्
निर्जले विपुले देशे हनस्व मधुसूदन । वध्यावावां तु भवतः सत्यवाग्भव माधव
स्मृत्वा चक्रं तदा विष्णुस्तावुवाच हसन्हरिः । हन्म्यद्य वां महाभागौ निर्जले विपुले स्थले
इत्युक्त्या देवदेवेश ऊरू कृत्वातिविस्तरौ । दर्शयामास तौ तत्र निर्जलं च जलोपरि
नास्त्यत्र दानवौ वारि शिरसी मुञ्चतामिह । सत्यवागहमद्यैव भविष्यामि च वां तथा
तदाकर्ण्य वचस्तथ्यं विचिन्त्य मनसा च तौ । वर्धयामासतुर्देहं योजनानां सहस्रकम्
भगवान्द्विगुणं चक्रे जघनं विस्मितौ तदा । शीर्षे सन्दधतां तत्र जघने परमाद्भुते
रथांगेन तदा छिन्ने विष्णुना प्रभविष्णुना । जघनोपरि वेगेन प्रकृष्टे शिरसी तयोः
गतप्राणौ तदा जातौ दानवौ मधुकैटभौ । सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः
मेदिनीति ततो जातं नाम पृथ्व्याः समन्ततः । अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः
इति वः कथितं सर्वं यत्पृष्टोऽस्मि सुनिश्चितम् । महाविद्या महामाया सेवनीया सदा बुधैः
आराध्या परमा शक्तिः सर्वैरपि सुरासुरैः । नातः परतरं किञ्चिदधिकं भुवनत्रये
सत्यं सत्यं पुनः सत्यं वेदशास्त्रार्थनिर्णयः । पूजनीया परा शक्तिर्निर्गुणा सगुणाथवा
शिववरदानवर्णनम् ऋषय ऊचुः सूत पूर्वं त्वया प्रोक्तं व्यासेनामिततेजसा । कृत्वा पुराणमखिलं शुकायाध्यापितं शुभम्
व्यासेन तु तपस्तप्त्वा कथमुत्पादितः शुकः । विस्तरं ब्रूहि सकलं यच्छ्रुतं कृष्णतस्त्वया
सूत उवाच प्रवक्ष्यामि शुकोत्पत्तिं व्यासात्सत्यवतीसुतात् । यथोत्पन्नः शुकः साक्षाद्योगिनां प्रवरो मुनिः
मेरुशृङ्गे महारम्ये व्यासः सत्यवतीसुतः । तपश्चचार सोऽत्युग्रं पुत्रार्थं कृतनिश्चयः
जपन्नेकाक्षरं मन्त्रं वाग्बीजं नारदाच्छ्रुतम् । ध्यायन्परां महामायां पुत्रकामस्तपोनिधिः
अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाप्ययम् । वीर्येण सम्मितः पुत्रो मम भूयादिति स्म ह
अतिष्ठत्स गताहारः शतसंवत्सरं प्रभुः । आराधयन्महादेवं तथैव च सदाशिवाम्
शक्तिः सर्वत्र पूज्येति विचार्य च पुनः पुनः । अशक्तो निन्द्यते लोके शक्तस्तु परिपूज्यते