धर्मस्य सत्यमूलस्य क्षयः सर्वात्मना भवेत् । तथैव क्षत्रिया वैश्याः शूद्राश्च धर्मवर्जिताः
असत्यवादिनः पापास्तथा वर्णेतराः कलौ । शूद्रधर्मरता विप्राः प्रतिग्रहपरायणाः
भविष्यन्ति कलौ राजन् युगे वृद्धिं गताः किल । कामचाराः स्त्रियः कामलोभमोहसमन्विताः
पापा मिथ्याभिवादिन्यः सदा क्लेशरता नृप । स्वभर्तृवञ्जका नित्यं धर्मभाषणपण्डिताः
भवन्त्येवंविधा नार्यः पापिष्ठाश्च कलौ युगे । आहारशुद्ध्या नृपते चित्तशुद्धिस्तु जायते
शुद्धे चित्ते प्रकाशः स्याद्धर्मस्य नृपसत्तम । वृत्तसङ्करदोषेण जायते धर्मसङ्करः
धर्मस्य सङ्करे जाते नूनं स्याद्वर्णसङ्करः । एवं कलियुगे भूप सर्वधर्मविवर्जिते
स्ववर्णधर्मवार्तैषा न कुत्राप्युपलभ्यते । महान्तोऽपि च धर्मज्ञा अधर्मं कुर्वते नृप
कलिस्वभाव एवैष परिहार्यो न केनचित् । तस्मादत्र मनुष्याणां स्वभावात्पापकारिणाम्
निष्कृतिर्न हि राजेन्द्र सामान्योपायतो भवेत् । जनमेजय उवाच भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद
कलावधर्मबहुले नराणां का गतिर्भवेत् । यद्यस्ति तदुपायश्चेद्दयया तं वदस्व मे
व्यास उवाच एक एव महाराज तत्रोपायोऽस्ति नापरः । सर्वदोषनिरासार्थं ध्यायेद्देवीपदाम्बुजम्
न सन्त्यघानि तावन्ति यावती शक्तिरस्ति हि । नास्ति देव्याः पापदाहे तस्माद्भीतिः कुतो नृप
अवशेनापि यन्नाम लीलयोच्चारितं यदि । किं किं ददाति तज्ज्ञातुं समर्था न हरादयः
प्रायश्चित्तं तु पापानां श्रीदेवीनामसंस्मृतिः । तस्मात्कलिभयाद्राजन् पुण्यक्षेत्रे वसेन्नरः
निरन्तरं पराम्बाया नामसंस्मरणं चरेत् । छित्त्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत्
देवीं नमति भक्त्या यो न स पापैर्विलिप्यते । रहस्यं सर्वशास्त्राणां मया राजन्नुदीरितम्
विमृश्यैतदशेषेण भज देवीपदाम्बुजम् । अजपां नाम गायत्रीं जपन्ति निखिला जनाः
महिमानं न जानन्ति मायाया वैभवं महत् । गायत्रीं ब्राह्मणाः सर्वे जपन्ति हृदयान्तरे
महिमानं न जानन्ति मायाया वैभवं महत् । एतत्सर्वं समाख्यातं यत्पृष्टं तत्त्वया नृप । युगधर्मव्यवस्थायां किं भूयः श्रोतुमिच्छसि
हरिश्चन्द्रस्य जलोदरव्याधिपीडावर्णनम् राजोवाच तीर्थानि भुवि पुण्यानि ब्रूहि मे मुनिसत्तम । गम्यानि मानवैर्देवैः क्षेत्राणि सरितस्तथा
फलं च यादृशं यत्र तीर्थेषु स्नानदानतः । विधिं तु तीर्थयात्रायां नियमांश्च विशेषतः
व्यास उवाच शृणु राजन् प्रवक्ष्यामि तीर्थानि विविधानि च । येषु तीर्थेषु देवीनां प्रशस्तान्यायनानि च
नदीनां जाह्नवी श्रेष्ठा यमुना च सरस्वती । नर्मदा गण्डकी सिन्धुर्गोमती तमसा तथा
कावेरी चन्द्रभागा च पुण्या वेत्रवती शुभा । चर्मण्वती च सरयूस्तापी साभ्रमती तथा
एताश्च कथिता राजन्नन्याश्च शतशः पुनः । तासां समुद्रगाः पुण्याः स्वल्पपुण्या ह्यनब्धिगाः
समुद्रगानां ताः पुण्याः सर्वदौघवहास्तु याः । मासद्वयं श्रावणादौ ताश्च सर्वा रजस्वलाः
भवन्ति वृष्टियोगेन ग्राम्यवारिवहास्तथा । पुष्करं च कुरुक्षेत्रं धर्मारण्यं सुपावनम्
प्रभासं च प्रयागं च नैमिषारण्यमेव च । विश्रुतं चार्बुदारण्यं शैलाश्च पावनास्तथा
श्रीशैलश्च सुमेरुश्च पर्वतो गन्धमादनः । सरांसि चैव पुण्यानि मानसं सर्वविश्रुतम्