त्रेतायुगे द्वापरे वा ये दानव्रतकारकाः । वर्तन्ते मुनयः श्रेष्ठाः कुत्र ब्रूहि पितामह
कलावद्य दुराचारा येऽत्र सन्ति गतत्रपाः । आद्ये युगे क्व यास्यन्ति पापिष्ठा देवनिन्दकाः
एतत्सर्वं समाचक्ष्व विस्तरेण महामते । सर्वथा श्रोतुकामोऽस्मि यदेतद्धर्मनिर्णयम्
व्यास उवाच ये वै कृतयुगे राजन् सम्भवन्तीह मानवाः । कृत्वा ते पुण्यकर्माणि देवलोकान्व्रजन्ति वै
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम । स्वधर्मनिरता यान्ति लोकान्कर्मजितान्किल
सत्यं दया तथा दानं स्वदारगमनं तथा । अद्रोहः सर्वभूतेषु समता सर्वजन्तुषु
एतत्साधारणं धर्मं कृत्वा सत्ययुगे पुनः । स्वर्गं यान्तीतरे वर्णा धर्मतो रजकादयः
तथा त्रेतायुगे राजन् द्वापरेऽथ युगे तथा । कलावस्मिन्युगे पापा नरकं यान्ति मानवाः
तावत्तिष्ठन्ति ते तत्र यावत्स्याद्युगपर्ययः । पुनश्च मानुषे लोके भवन्ति भुवि मानवाः
यदा सत्ययुगस्यादिः कलेरन्तश्च पार्थिव । तदा स्वर्गात्पुण्यकृतो जायन्ते किल मानवाः
यदा कलियुगस्यादिर्द्वापरस्य क्षयस्तथा । नरकात्पापिनः सर्वे भवन्ति भुवि मानवाः
एवं कालसमाचारो नान्यथाभूत्कदाचन । तस्मात्कलिरसत्कर्ता तस्मिंस्तु तादृशी प्रजा
कदाचिद्दैवयोगात्तु प्राणिनां व्यत्ययो भवेत् । कलौ ये साधवः केचिद्द्वापरे सम्भवन्ति ते
तथा त्रेतायुगे केचित्केचित्सत्ययुगे तथा । दुष्टाः सत्ययुगे ये तु ते भवन्ति कलावपि
कृतकर्मप्रभावेण प्राप्नुवन्त्यसुखानि च । पुनश्च तादृशं कर्म कुर्वन्ति युगभावतः
जनमेजय उवाच युगधर्मान्महाभाग ब्रूहि सर्वानशेषतः । यस्मिन्वै यादृशो धर्मो ज्ञातुमिच्छामि तं तथा
व्यास उवाच निबोध नृपशार्दूल दृष्टान्तं ते ब्रवीम्यहम् । साधूनामपि चेतांसि युगभावाद्भ्रमन्ति हि
पितुर्यथा ते राजेन्द्र वुद्धिर्विप्रावहेलने । कृता वै कलिना राजन् धर्मज्ञस्य महात्मनः
अन्यथा क्षत्रियो राजा ययातिकुलसम्भवः । तापसस्य गले सर्पं मृतं कस्मादयोजयत्
सर्वं युगबलं राजन्वेदितव्यं विजानता । प्रयत्नेन हि कर्तव्यं धर्मकर्म विशेषतः
नूनं सत्ययुगे राजन् ब्राह्मणा वेदपारगाः । पराशक्त्यर्चनरता देवीदर्शनलालसाः
गायत्रीप्रणवासक्ता गायत्रीध्यानकारिणः । गायत्रीजपसंसक्ता मायाबीजैकजापिनः
ग्रामे ग्रामे पराम्बायाः प्रासादकरणोत्सुकाः । स्वकर्मनिरताः सर्वे सत्यशौचदयान्विताः
त्रय्युक्तकर्मनिरतास्तत्त्वज्ञानविशारदाः । अभवन्क्षत्रियास्तत्र प्रजाभरणतत्पराः
वैश्यास्तु कृषिवाणिज्यगोसेवानिरतास्तथा । शूद्राः सेवापरास्तत्र पुण्ये सत्ययुगे नृप
पराम्बापूजनासक्ताः सर्वे वर्णाः परे युगे । तथा त्रेतायुगे किञ्चिन्न्यूना धर्मस्य संस्थितिः
द्वापरे च विशेषेण न्यूना सत्ययुगस्थितिः । पूर्वं ये राक्षसा राजन् ते कलौ ब्राह्मणाः स्मृताः
पाखण्डनिरताः प्रायो भवन्ति जनवञ्चकाः । असत्यवादिनः सर्वे वेदधर्मविवर्जिताः
दाम्भिका लोकचतुरा मानिनो वेदवर्जिताः । शूद्रसेवापराः केचिन्नानाधर्मप्रवर्तकाः
वेदनिन्दाकराः क्रूरा धर्मभ्रष्टातिवादुकाः । यथा यथा कलिर्वृद्धिं याति राजंस्तथा तथा