कियानुत्तारितो भारो हत्वा दुष्टाननेकशः । ज्ञात्वा सर्वान्दुराचारान्पापबुद्धिनृपानिह
हतो भीष्मो हतो द्रोणो विराटो द्रुपदस्तथा । बाह्लीकः सोमदत्तश्च कर्णो वैकर्तनस्तथा
यैर्लुण्ठितं धनं सर्वं हृताश्च हरियोषितः । कथं न नाशिता दुष्टा ये स्थिताः पृथिवीतले
आभीराश्च शका म्लेच्छा निषादाः कोटिशस्तथा । भारावतरणं किं तत्कृतं कृष्णेन धीमता
सन्देहोऽयं महाभाग न निवर्तति चित्ततः । कलावस्मिन्मजाः सर्वाः पश्यतः पापनिश्चयाः
व्यास उवाच राजन् यस्मिन्युगे यादृक्प्रजा भवति कालतः । नान्यथा तद्भवेन्नूनं युगधर्मोऽत्र कारणम्
ये धर्मरसिका जीवास्ते वै सत्ययुगेऽभवन् । धर्मार्थरसिका ये तु ते वै त्रेतायुगेऽभवन्
धर्मार्थकामरसिका द्वापरे चाभवन्युगे । अर्थकामपराः सर्वे कलावस्मिन्भवन्ति हि
युगधर्मस्तु राजेन्द्र न याति व्यत्ययं पुनः । कालः कर्तास्ति धर्मस्य ह्यधर्मस्य च वै पुनः
राजोवाच ये तु सत्ययुगे जीवा भवन्ति धर्मतत्पराः । कुत्र तेऽद्य महाभाग तिष्ठन्ति पुण्यभागिनः
त्रेतायुगे द्वापरे वा ये दानव्रतकारकाः । वर्तन्ते मुनयः श्रेष्ठाः कुत्र ब्रूहि पितामह
कलावद्य दुराचारा येऽत्र सन्ति गतत्रपाः । आद्ये युगे क्व यास्यन्ति पापिष्ठा देवनिन्दकाः
एतत्सर्वं समाचक्ष्व विस्तरेण महामते । सर्वथा श्रोतुकामोऽस्मि यदेतद्धर्मनिर्णयम्
व्यास उवाच ये वै कृतयुगे राजन् सम्भवन्तीह मानवाः । कृत्वा ते पुण्यकर्माणि देवलोकान्व्रजन्ति वै
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम । स्वधर्मनिरता यान्ति लोकान्कर्मजितान्किल
सत्यं दया तथा दानं स्वदारगमनं तथा । अद्रोहः सर्वभूतेषु समता सर्वजन्तुषु
एतत्साधारणं धर्मं कृत्वा सत्ययुगे पुनः । स्वर्गं यान्तीतरे वर्णा धर्मतो रजकादयः
तथा त्रेतायुगे राजन् द्वापरेऽथ युगे तथा । कलावस्मिन्युगे पापा नरकं यान्ति मानवाः
तावत्तिष्ठन्ति ते तत्र यावत्स्याद्युगपर्ययः । पुनश्च मानुषे लोके भवन्ति भुवि मानवाः
यदा सत्ययुगस्यादिः कलेरन्तश्च पार्थिव । तदा स्वर्गात्पुण्यकृतो जायन्ते किल मानवाः
यदा कलियुगस्यादिर्द्वापरस्य क्षयस्तथा । नरकात्पापिनः सर्वे भवन्ति भुवि मानवाः
एवं कालसमाचारो नान्यथाभूत्कदाचन । तस्मात्कलिरसत्कर्ता तस्मिंस्तु तादृशी प्रजा
कदाचिद्दैवयोगात्तु प्राणिनां व्यत्ययो भवेत् । कलौ ये साधवः केचिद्द्वापरे सम्भवन्ति ते
तथा त्रेतायुगे केचित्केचित्सत्ययुगे तथा । दुष्टाः सत्ययुगे ये तु ते भवन्ति कलावपि
कृतकर्मप्रभावेण प्राप्नुवन्त्यसुखानि च । पुनश्च तादृशं कर्म कुर्वन्ति युगभावतः
जनमेजय उवाच युगधर्मान्महाभाग ब्रूहि सर्वानशेषतः । यस्मिन्वै यादृशो धर्मो ज्ञातुमिच्छामि तं तथा
व्यास उवाच निबोध नृपशार्दूल दृष्टान्तं ते ब्रवीम्यहम् । साधूनामपि चेतांसि युगभावाद्भ्रमन्ति हि
पितुर्यथा ते राजेन्द्र वुद्धिर्विप्रावहेलने । कृता वै कलिना राजन् धर्मज्ञस्य महात्मनः
अन्यथा क्षत्रियो राजा ययातिकुलसम्भवः । तापसस्य गले सर्पं मृतं कस्मादयोजयत्
सर्वं युगबलं राजन्वेदितव्यं विजानता । प्रयत्नेन हि कर्तव्यं धर्मकर्म विशेषतः