कर्मक्षये जन्मनाशः प्राणिनां नात्र संशयः । ब्रह्मा विष्णुस्तथा रुद्र इन्द्राद्याश्च सुरास्तथा
दानवा यक्षगन्धर्वाः सर्वे कर्मवशा किल । अन्यथा देहसम्बन्धः कथं भवति भूपते
कारणं यस्तु भोगस्य देहिनः सुखदुःखयोः । तस्मादनेकजन्मोत्थसञ्चितानां च कर्मणाम्
मध्ये वेगः समायाति कस्यचित्कालपाकतः । तत्प्रारब्धवशात्पुण्यं करोति च यथा तथा
पापं करोति मनुजस्तथा देवादयोऽपि च । तथा नारायणो राजन्नरश्च धर्मजावुभौ
जातौ कृष्णार्जुनौ काममंशौ नारायणस्य तौ । पुराणपीठिकेयं वै मुनिभिः परिकीर्तिता
देवांशः स तु विज्ञेयो यो भवेद्विभवाधिकः । नानृषिः कुरुते काव्यं नारुद्रो रुद्रमर्चते
नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः । इन्द्रादग्नेर्यमाद्विष्णोर्धनदादिति भूपते
प्रभुत्वं च प्रभावं च कोपं चैव पराक्रमम् । आदाय क्रियते नूनं शरीरमिति निश्चयः
यः कश्चिद्बलवाँल्लोके भाग्यवानथ भोगवान् । विद्यावान्दानवान्वापि स देवांशः प्रपढ्यते
तथैवैते मयाख्याता पाण्डवाः पृथिवीपते । देवांशो वासुदेवोऽपि नारायणसमद्युतिः
शरीरं प्राणिनां नूनं भाजनं सुखदुःखयोः । शरीरी प्राप्नुयात्कामं सुखं दुःखमनन्तरम्
देही नास्ति वशः कोऽपि दैवाधीनः सदैव हि । जननं मरणं दुःखं सुखं प्राप्नोति चावशः
पाण्डवास्ते वने जाताः प्राप्तास्तु स्वगृहं पुनः । स्वबाहुबलतः पश्चाद्राजसूयं क्रतूत्तमम्
वनवासं पुनः प्राप्ता बहुदुःखकरं परम् । अर्जुनेन तपस्तप्तं दुष्करं ह्यजितेन्द्रियैः
सन्तुष्टैस्तु सुरैर्दत्तं वरदानं पुनः शुभम् । नरदेहकृतं पुण्यं क्व गतं वनवासजम्
नरदेहे तपस्तप्तं चोग्रं बदरिकाश्रमे । नार्जुनस्य शरीरे तत्फलदं सम्बभूव ह
प्राणिनां देहसम्बन्धे गहना कर्मणो गतिः । दुर्ज्ञेया सर्वथा देवैर्मानवानां तु का कथा
वासुदेवोऽपि सञ्जातः कारागारेऽतिसङ्कटे । नीतोऽसौ वसुदेवेन नन्दगोपस्य गोकुलम्
एकादशैव वर्षाणि संस्थितस्तत्र भारत । पुनः स मथुरां गत्वा जघानोग्रसुतं बलात्
मोचयामास पितरौ बन्धनाद्भृशदुःखितौ । उग्रसेनं च राजानञ्चकार मधुरापुरे
जगाम द्वारवत्यां स म्लेच्छराजभयात्पुनः । सर्वं भाविवशात्कृष्णः कृतवान्पौरुषं महत्
कृत्वा कार्याण्यनेकानि द्वारवत्यां जनार्दनः । देहं त्यक्त्वा प्रभासे तु सकुटुम्बो दिवं गतः
पुत्राः पौत्राश्च सुहृदो भ्रातरो जामयस्तथा । प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः
एवं ते कथिता राजन् कर्मणो गहना गतिः । वासुदेवोऽपि व्याधस्य बाणेन निधनं गतः
युगधर्मव्यवस्थावर्णनम् जनमेजय उवाच भारावतारणार्थाय कथितं जन्म कृष्णयोः । संशयोऽयं द्विजश्रेष्ठ हृदये मम तिष्ठति
पृथिवी गोस्वरूपेण ब्रह्माणं शरणं गता । द्वापरान्तेऽतिदीनार्ता गुरुभारप्रपीडिता
वेधसा प्रार्थितो विष्णुः कमलापतिरीश्वरः । भूभारोत्तारणार्थाय साधूनां रक्षणाय च
भगवन् भारते खण्डे देवैः सह जनार्दन । अवतारं गृहाणाशु वसुदेवगृहे विभो
एवं सम्प्रार्थितो धात्रा भगवान्देवकीसुतः । बभूव सह रामेण भूभारोत्तारणाय वै