इन्द्राणीहृतचित्तोऽसौ सर्पेति प्रब्रुवन्मुनिम् । तं शशाप मुनिः क्रुद्धः कशाघातमनुस्मरन्
सर्पो भव दुराचार वने घोरवपुर्महान् । बहुवर्षसहस्राणि यत्र क्लेशो महान्भवेत्
विचरिष्यसि वीर्येण पुनः स्वर्गमवाप्स्यसि । दृष्ट्वा युधिष्ठिरं नाम तव मोक्षो भविष्यति
प्रश्नानामुत्तरं श्रुत्वा धर्मपुत्रमुखात्ततः । व्यास उवाच एवं शप्तः स राजर्षिः स्तुत्वा तं मुनिसत्तमम्
स्वर्गात्पपात सहसा सर्परूपधरोऽभवत् । बृहस्पतिस्ततो गत्वा तरसा मानसं प्रति
इन्द्राय सर्ववृत्तान्तं कथयामास विस्तरात् । तच्छ्रुत्वा मघवा राज्ञः स्वर्गात्प्रच्यवनादिकम्
मुदितोऽभून्महाराज स्थितस्तत्रैव वासवः । देवाश्च मुनयो दृष्ट्वा नहुषं पतितं भुवि
जग्मुः सर्वेऽपि तत्रैव यत्रेन्द्रः सरसि स्थितः । तमाश्वास्य सुराः सर्वे मुनिभिः सहितास्तदा
स्वर्गे समानयामासुर्मानपूर्वं शचीपतिम् । समागतं ततः शक्रं सर्वे ते मुनयः सुराः
स्थापयित्वाऽऽसने पश्चादभिषेकं दधुः शिवम् । इन्द्रोऽपि स्वासनं प्राप्य शच्या सह सुरालये
चिक्रीड नन्दने रम्ये कानने प्रेमयुक्तया । व्यास उवाच एवमिन्द्रेण सम्प्राप्तं दुःखं परमदारुणम्
हत्वासुरं कामरूपं विश्वरूपं महामुनिम् । पुनर्देव्याः प्रसादेन स्वस्थानं प्राप्तवान्नृप
एतत्ते सर्वमाख्यातं वृत्रासुरवधाश्रयम् । यत्पृष्टोऽहं त्वया राजन् कथानकमनुत्तमम्
यादृशं कुरुते कर्म तादृशं फलमाप्नुयात् । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्
कर्मणां गहनगतिवर्णनम् जनमेजय उवाच कथितं चरितं ब्रह्मञ्छक्रस्याद्भुतकर्मणः । स्थानभ्रंशस्तथा दुःखप्राप्तिरुक्ता विशेषतः
यत्र देवाधिदेव्याश्च महिमातीव वर्णितः । सन्देहोऽत्र ममाप्यस्ति यच्छक्रोऽपि महातपाः
देवाधिपत्यमासाद्य दुःसहं दुःखमन्वभूत् । मखानां तु शतं कृत्वा प्राप्तं स्थानमनुत्तमम्
देवेशत्वं च सम्प्राप्य भ्रष्टः स्थानादसौ कथम् । एतत्सर्वं समाचक्ष्व कारणं करुणानिधे
सर्वज्ञोऽसि मुनिश्रेष्ठ पुराणानां प्रवर्तकः । नावाच्यं महतां किञ्चिच्छिष्ये च श्रद्धयान्विते
तस्मात्कुरु महाभाग मत्सन्देहापनोदनम् । सूत उवाच इति पृष्टः स राज्ञा वै तदा सत्यवतीसुतः
तमाहातिप्रसन्नात्मा यथानुक्रममुत्तरम् । व्यास उवाच निबोध नृपतिश्रेष्ठ कारणं परमाद्भुतम्
कर्मणस्तु त्रिधा प्रोक्ता गतिस्तत्त्वविदां वरैः । सञ्चितं वर्तमानं च प्रारब्धमिति भेदतः
अनेकजन्मसञ्जातं प्राक्तनं सञ्चितं स्मृतम् । सात्त्विकं राजसं कर्म तामसं त्रिविधं पुनः
शुभं वाप्यशुभं भूप सञ्चितं बहुकालिकम् । अवश्यमेव भोक्तव्यं सुकृतं दुष्कृतं तथा
जन्मजन्मनि जीवानां सञ्चितानां च कर्मणाम् । निःशेषस्तु क्षयो नाभूत्कल्पकोटिशतैरपि
क्रियमाणं च यत्कर्म वर्तमानं तदुच्यते । देहं प्राप्य शुभं वापि ह्यशुभं वा समाचरेत्
सञ्चितानां पुनर्मध्यात्समाहृत्य कियान्किल । देहारम्भे च समये कालः प्रेरयतीव तत्
प्रारब्धं कर्म विज्ञेयं भोगात्तस्य क्षयः स्मृतः । प्राणिभिः खलु भोक्तव्यं प्रारब्धं नात्र संशयः
पुरा कृतानि राजेन्द्र ह्यशुभानि शुभानि च । अवश्यमेव कर्माणि भोक्तव्यानीति निश्चयः
देवैर्मनुष्यैरसुरैर्यक्षगन्धर्वकिन्नरैः । कर्मैव हि महाराज देहारम्भस्य कारणम्