स्वागतं सत्यवचनैस्त्वदधीनोऽस्मि कामिनि । दासोऽहं तव सत्येन पालितं वचनं त्वया
यदागता समीपे मे तुष्टोऽस्मि मितभाषिणि । न च व्रीडा त्वया कार्या भक्तं मां भज सुस्मिते
कार्यं वद विशालाक्षि करिष्यामि तव प्रियम् । शच्युवाच सर्वं कृतं त्वया कार्यं मम कृत्रिमवासव
मनोरथोऽस्ति मे देव शृणु चित्तेऽधुना विभो । वाञ्छितं कुरु कल्याण त्वद्वशाहमतः परम्
ब्रवीमि मानसोत्साहं त्वं तं कर्तुमिहार्हसि । नहुष उवाच कार्यं त्वं ब्रूहि चन्द्रास्ये करोमि तव वाञ्छितम्
अलभ्यमपि दास्यामि तुभ्यं सुभ्रु वदस्व माम् । शच्युवाच कथं ब्रवीमि राजेन्द्र प्रत्ययो नास्ति मे तव
शपथं कुरु राजेन्द्र यत्करोमि प्रियं तव । राजानः सत्यवचसो दुर्लभा एव भूतले
पश्चाद्ब्रवीम्यहं राजन् ज्ञात्वा सत्येन यन्त्रितम् । कृते चेद्वाञ्छिते भूप सदा ते वशवर्तिनी
भविष्यामि तुराषाड् वै सत्यमेतद्वचो मम । नहुष उवाच अवश्यमेव कर्तव्यं वचनं तव सुन्दरि
शपामि सुकृतेनाहं यज्ञदानकृतेन वै । शच्युवाच इन्द्रस्य हरयो वाहा गजश्चैव रथस्तथा
गरुडो वासुदेवस्य यमस्य महिषस्तथा । वृषभः शङ्करस्यापि ब्रह्मणो वरटापतिः
मयूरः कार्तिकेयस्य गजास्यस्य तु मूषकः । इच्छाम्यहमपूर्वं वै वाहनं ते सुराधिप
यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् । वहन्तु त्वां महाराज मुनयः संशितव्रताः
सर्वे शिबिकया राजन्नेतद्धि मम वाञ्छितम् । सर्वदेवाधिकं त्वां वै जानामि वसुधाधिप
तेन ते तेजसो वृद्धिं वाञ्छाम्यहमतन्द्रिता । व्यास उवाच तस्यास्तद्वचनं श्रुत्वा प्रहस्य ज्ञानदुर्बलः
मोहितस्तु महादेव्या कृतमोहेन तत्क्षणम् । उवाच वचनं भूपः संस्तुवन्वासवप्रियाम्
नहुष उवाच सत्यमुक्तं त्वया तन्वि वाहनं रुचिरं मम । करिष्यामि सुकेशान्ते वचनं तव सर्वथा
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् । अहमारुह्य यानेन त्वामेष्यामि शुचिस्मिते
सप्तर्षयो मां वक्ष्यन्ति सर्वे देवर्षयस्तथा । समर्थं त्रिषु लोकेषु ज्ञात्वा मां तपसाधिकम्
व्यास उवाच इत्युक्त्वा तां सुसन्तुष्टो विससर्ज हरिप्रियाम् । मुनीनाहूय सर्वास्तानित्युवाच स्मरान्वितः
नहुष उवाच अहमिन्द्रोऽद्य भो विप्राः सर्वशक्तिसमन्वितः । कार्यमत्र प्रकुर्वन्तु भवन्तो विगतस्मयाः
इन्द्रासनं मया प्राप्तं नेन्द्राणी मामुपैति च । आकारिता च मां सूते प्रेमपूर्वमिदं वचः
मुनियानेन देवेन्द्र मामुपैहि सुराधिप । देवदेव महाराज मत्प्रियं कुरु मानद
एतत्कार्यं मुनिश्रेष्ठा ममात्यन्तं दुरासदम् । भवद्भिस्तु प्रकर्तव्यं सर्वथैव दयालुभिः
मनो दहति मे कामः शक्रपत्न्यां प्रवर्तितम् । भवन्तः शरणं मेऽद्य कुरुध्वं कार्यमद्भुतम्
अगस्तिप्रमुखास्तस्य श्रुत्वा वाक्यमसत्करम् । अङ्गीचक्रुश्च भावित्वात्कृपया परमर्षयः
अङ्गीकृतेऽथ तद्वाक्ये मुनिभिस्तत्त्वदर्शिभिः । मुदं प्राप नृपः कामं पौलोमीकृतमानसः
आरुह्य शिबिकां रम्यां संस्थितस्त्वरयान्वितः । वाहान्कृत्वा मुनीन्दिव्यान्सर्प सर्पेति चाब्रवीत्
कामार्तः सोऽस्पृशन्मूढः पादेन मुनिमस्तकम् । अगस्तिं तापसश्रेष्ठं लोपामुद्रापतिं तदा
वातापिभक्षकर्तारं समुद्रस्यापि शोषकम् । कशया ताडयामास पञ्चबाणशराहतः