नहुषो नाम राजर्षिः स्थापितो भवदासने । त्रिदशैर्मुनिभिश्चैव स मां बाधति नित्यशः
पतिं मां कुरु चार्वङ्गि: तुरासाहं सुराधिपम् । एवं वदति मां पाप्मा किं करोमि बलार्दन
इन्द्र उवाच कालाकाङ्क्षी वरारोहे संस्थितोऽस्मि यदृच्छया । तथा त्वमपि कल्याणि सुस्थिरं स्वमनः कुरु
व्यास उवाच इत्युक्ता तेन सा देवी पतिनातिप्रशंसिना । निःश्वसन्त्याह तं शक्रं वेपमानातिदुःखिता
कथं तिष्ठे महाभाग पापात्मा मां वशानुगाम् । करिष्यति मदोन्मत्तो वरदानेन गर्वितः
देवाश्च मुनयः सर्वे मामूचुस्तद्भयाकुलाः । तं भजस्व वरारोहे देवराजं स्मरातुरम्
बृहस्पतिस्तु शत्रुघ्न वाडवो बलवर्जितः । कथं मां रक्षितुं शक्तो भवेद्देवानुगः सदा
तस्माच्चिन्तास्ति महती नार्यहं वशवर्तिनी । अनाथा किं करिष्यामि विपरीते विधौ विभो
नार्यस्म्यहं न कुलटा त्वच्चित्तातिपतिव्रता । नास्ति मे शरणं तत्र यो मां रक्षति दुःखिताम्
इन्द्र उवाच उपायं प्रब्रवीम्यद्य तं कुरुष्व वरानने । शीलं ते दुःखिते काले परित्रातं भविष्यति
परेण रक्षिता नारी न भवेच्च पतिव्रता । उपायैः कोटिभिः कामभिन्नचित्तातिचञ्चला
शीलमेव हि नारीणां सदा रक्षति पापतः । तस्मात्त्वं शीलमास्थाय स्थिरा भव शुचिस्मिते
यदा त्वां नहुषो राजा बलादाकर्षयेत्खलः । तदा त्वं समयं कृत्वा गजं वञ्चय भूपतिम्
एकान्ते तत्समीपे त्वं गत्वा वद मदालसे । ऋषियानेन दिव्येन मामुपैहि जगत्पते
एवं तव वशे प्रीता भविष्यामीति मे ततम् । इति तं वद सुश्रोणि तदा तु परिमोहितः
कामान्धः स मुनीन् याने योजयिष्यति पार्थिवः । अवश्यं तापसो भूपं शापदग्धं करिष्यति
साहाय्यं जगदम्बा ते करिष्यति न संशयः । जगदम्बापदस्मर्तुः सङ्कटं न कदाचन
यदि जायेत तच्चापि ज्ञेयं तत्स्वस्तये किल । तस्मात्सर्वप्रयत्नेन मणिद्वीपाधिवासिनीम्
भज त्वं भुवनेशानीं गुरुवाक्यानुसारतः । व्यास उवाच इत्याख्याता शची तेन जगाम नहुषं प्रति
तथेत्युक्त्वातिविश्वस्ता भाविकार्ये कृतोद्यमा । नहुषस्तां समालोक्य मुदितो वाक्यमब्रवीत्
स्वागतं सत्यवचनैस्त्वदधीनोऽस्मि कामिनि । दासोऽहं तव सत्येन पालितं वचनं त्वया
यदागता समीपे मे तुष्टोऽस्मि मितभाषिणि । न च व्रीडा त्वया कार्या भक्तं मां भज सुस्मिते
कार्यं वद विशालाक्षि करिष्यामि तव प्रियम् । शच्युवाच सर्वं कृतं त्वया कार्यं मम कृत्रिमवासव
मनोरथोऽस्ति मे देव शृणु चित्तेऽधुना विभो । वाञ्छितं कुरु कल्याण त्वद्वशाहमतः परम्
ब्रवीमि मानसोत्साहं त्वं तं कर्तुमिहार्हसि । नहुष उवाच कार्यं त्वं ब्रूहि चन्द्रास्ये करोमि तव वाञ्छितम्
अलभ्यमपि दास्यामि तुभ्यं सुभ्रु वदस्व माम् । शच्युवाच कथं ब्रवीमि राजेन्द्र प्रत्ययो नास्ति मे तव
शपथं कुरु राजेन्द्र यत्करोमि प्रियं तव । राजानः सत्यवचसो दुर्लभा एव भूतले
पश्चाद्ब्रवीम्यहं राजन् ज्ञात्वा सत्येन यन्त्रितम् । कृते चेद्वाञ्छिते भूप सदा ते वशवर्तिनी
भविष्यामि तुराषाड् वै सत्यमेतद्वचो मम । नहुष उवाच अवश्यमेव कर्तव्यं वचनं तव सुन्दरि
शपामि सुकृतेनाहं यज्ञदानकृतेन वै । शच्युवाच इन्द्रस्य हरयो वाहा गजश्चैव रथस्तथा