अनेककोटिजन्मोत्थपुण्यपुञ्जैर्हि लभ्यते । इत्युक्ता सा तदा देवी तामाह प्रणता पुरः
शक्रपत्नी भगवतीं प्रसन्नां परमेश्वरीम् । वाञ्छामि दर्शनं मातः पत्युः परमदुर्लभम्
नहुषाद्भयनाशं च स्वपदप्रापणं तथा । देव्युवाच गच्छ त्वमनया दूत्या सार्धं श्रीमानसं सरः
यत्र मे मूर्तिरचला विश्वकामाभिधा मता । तत्र पश्यसि शक्रं त्वं दुःखितं भयविह्वलम्
मोहयिष्यामि राजानं कालेन कियता पुनः । स्वस्था भव विशालाक्षि करोमि तव चेप्सितम्
भ्रंशयिष्यामि भूपालं मोहितं त्रिदशासनात् । व्यास उवाच देवीदूती तां गृहीत्वा शक्रपत्नीं त्वरान्विता
प्रापयामास सान्निध्यं स्वपत्युः परमेश्वरीम् । सा दृष्ट्वा तं पतिं बाला सुरेशं गुप्तसंस्थितम् । मुदिताभूद्वरं वीक्ष्य बहुकालाभिवाञ्छितम्
नहुषस्वर्गच्युतिवर्णनम् व्यास उवाच तां वीक्ष्य विपुलापाङ्गीं रहः शोकसमन्विताम् । आखण्डलः प्रियां भार्यां विस्मितश्चाब्रवीत्तदा
कथमत्रागता कान्ते कथं ज्ञातस्त्वया ह्यहम् । दुर्ज्ञेयः सर्वभूतानां संस्थितोऽस्मि शुभानने
शच्युवाच देव देव्याः प्रसादेन ज्ञातोऽस्यद्य भवानिह । पुनस्तस्याः प्रसादेन प्राप्तास्मि त्वां दिवस्पते
नहुषो नाम राजर्षिः स्थापितो भवदासने । त्रिदशैर्मुनिभिश्चैव स मां बाधति नित्यशः
पतिं मां कुरु चार्वङ्गि: तुरासाहं सुराधिपम् । एवं वदति मां पाप्मा किं करोमि बलार्दन
इन्द्र उवाच कालाकाङ्क्षी वरारोहे संस्थितोऽस्मि यदृच्छया । तथा त्वमपि कल्याणि सुस्थिरं स्वमनः कुरु
व्यास उवाच इत्युक्ता तेन सा देवी पतिनातिप्रशंसिना । निःश्वसन्त्याह तं शक्रं वेपमानातिदुःखिता
कथं तिष्ठे महाभाग पापात्मा मां वशानुगाम् । करिष्यति मदोन्मत्तो वरदानेन गर्वितः
देवाश्च मुनयः सर्वे मामूचुस्तद्भयाकुलाः । तं भजस्व वरारोहे देवराजं स्मरातुरम्
बृहस्पतिस्तु शत्रुघ्न वाडवो बलवर्जितः । कथं मां रक्षितुं शक्तो भवेद्देवानुगः सदा
तस्माच्चिन्तास्ति महती नार्यहं वशवर्तिनी । अनाथा किं करिष्यामि विपरीते विधौ विभो
नार्यस्म्यहं न कुलटा त्वच्चित्तातिपतिव्रता । नास्ति मे शरणं तत्र यो मां रक्षति दुःखिताम्
इन्द्र उवाच उपायं प्रब्रवीम्यद्य तं कुरुष्व वरानने । शीलं ते दुःखिते काले परित्रातं भविष्यति
परेण रक्षिता नारी न भवेच्च पतिव्रता । उपायैः कोटिभिः कामभिन्नचित्तातिचञ्चला
शीलमेव हि नारीणां सदा रक्षति पापतः । तस्मात्त्वं शीलमास्थाय स्थिरा भव शुचिस्मिते
यदा त्वां नहुषो राजा बलादाकर्षयेत्खलः । तदा त्वं समयं कृत्वा गजं वञ्चय भूपतिम्
एकान्ते तत्समीपे त्वं गत्वा वद मदालसे । ऋषियानेन दिव्येन मामुपैहि जगत्पते
एवं तव वशे प्रीता भविष्यामीति मे ततम् । इति तं वद सुश्रोणि तदा तु परिमोहितः
कामान्धः स मुनीन् याने योजयिष्यति पार्थिवः । अवश्यं तापसो भूपं शापदग्धं करिष्यति
साहाय्यं जगदम्बा ते करिष्यति न संशयः । जगदम्बापदस्मर्तुः सङ्कटं न कदाचन
यदि जायेत तच्चापि ज्ञेयं तत्स्वस्तये किल । तस्मात्सर्वप्रयत्नेन मणिद्वीपाधिवासिनीम्
भज त्वं भुवनेशानीं गुरुवाक्यानुसारतः । व्यास उवाच इत्याख्याता शची तेन जगाम नहुषं प्रति
तथेत्युक्त्वातिविश्वस्ता भाविकार्ये कृतोद्यमा । नहुषस्तां समालोक्य मुदितो वाक्यमब्रवीत्