आदिदेवं जगन्नाथं शरणागतवत्सलम् । ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः
देवदेव सुरपतिर्ब्रह्महत्याप्रपीडितः । अदृश्यः सर्वभूतानां क्वापि तिष्ठति वासवः
त्वद्धिया निहते विप्रे ब्रह्महत्या कुतः प्रभो । त्वं गतिस्तस्य भगवन्नस्माकं च तथैव हि
त्राहि नः परमापन्नान्मोक्षं तस्य विनिर्दिश । देवानां वचनं श्रुत्वा कातरं विष्णुरब्रवीत्
यजतामश्वमेधेन शक्रपापनिवृत्तये । पुण्येन हयमेधेन पावितः पाकशासनः
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः । हयमेधेन सन्तुष्टा देवी श्रीजगदम्बिका
ब्रह्महत्यादिपापानि नाशयिष्यत्यसंशयम् । यस्याः स्मरणमात्रेण पापजालं विनश्यति
किं पुनर्वाजिमेधेन तत्प्रीत्यर्थं कृतेन च । इन्द्राणी कुरुतान्नित्यं भगवत्याः प्रपूजनम्
आराधनं शिवायास्तु सुखकारि भविष्यति । नहुषोऽपि जगन्मातुर्मायया मोहितः किल
विनाशं स्वकृतेनाशु गमिष्यत्येनसा सुराः । पावितश्चाश्वमेधेन तुराषाडपि वैभवम्
प्राप्स्यत्यचिरकालेन स्वमासनमनुत्तमम् । ते तु श्रुत्वा शुभां वाणीं विष्णोरमिततेजसः
जग्मुस्तं देशमनिशं यत्रास्ते पाकशासनः । तमाश्वास्य सुराः शक्रं बृहस्पतिपुरोगमाः
कारयामासुरखिलं हयमेधं महाक्रतुम् । विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च
पर्वतेषु पृथिव्यां च स्त्रीषु चैवाक्षिपद्विभुः । तां विसृज्य च भूतेषु विपापः पाकशासनः
विज्वरः समभूद्भूयः कालाकाङ्क्षी स्थितो जले । अदृश्यः सर्वभूतानां पद्मनाले व्यतिष्ठत
देवास्तु निर्गताः स्थाने कृत्वा कार्यं तदद्भुतम् । पौलोमी तु गुरुं प्राह दुःखिता विरहाकुला
कृतयज्ञोऽपि मे भर्ता किमदृश्यः पुरन्दरः । कथं द्रक्ष्ये प्रियं स्वामिंस्तमुपायं वदस्व मे
बृहस्पतिरुवाच त्वमाराधय पौलोमि देवीं भगवतीं शिवाम् । दर्शयिष्यति ते नाथं देवी विगतकल्मषम्
आराधिता जगद्धात्री नहुषं वारयिष्यति । मोहयित्वा नृपं स्थानात्पातयिष्यति चाम्बिका
इत्युक्ता सा तदा तेन पुलोमतनया नृप । जग्राह मन्त्रं विधिवद्गुरोर्देव्याः ससाधनम्
विद्यां प्राप्य गुरोर्देवी देवीं श्रीभुवनेश्वरीम् । सम्यगाराधयामास बलिपुष्पार्चनैः शुभै
त्यक्तान्यभोगसम्भारा तापसीवेषधारिणी । चकार पूजनं देव्याः प्रियदर्शनलालसा
कालेन कियता तुष्टा प्रत्यक्षं दर्शनं ददौ । सौम्यरूपधरा देवी वरदा हंसवाहिनी
सूर्यकोटिप्रतीकाशा चन्द्रकोटिसुशीतला । विद्युत्कोटिसमानाभा चतुर्वेदसमन्विता
पाशांकुशाभयवरान्दधती निजबाहुभिः । आपादलम्बिनीं स्वच्छां मुक्तामालां च बिभ्रती
प्रसन्तस्मेरवदना लोचनत्रयभूषिता । आब्रह्मकीटजननी करुणामृतसागरा
अनन्तकोटिब्रह्माण्डनायिका परमेश्वरी । सौम्यानन्तरसैर्युक्तस्तनद्वयविराजिता
सर्वेश्वरी च सर्वज्ञा कूटस्थाक्षररूपिणी । तामुवाच प्रसन्ना सा शक्रपत्नीं कृतोद्यमाम्
मेघगम्भीरशब्देन मुदमाददती भृशम् । देव्युवाच वरं वरय सुश्रोणि वाञ्छितं शक्रवल्लभे
ददाम्यद्य प्रसन्नास्मि पूजिता सुभृशं त्वया । वरदाहं समायाता दर्शनं सहजं न मे