आहूतौ च मया कामं द्वन्द्वयुद्धाय मानदे । कृतं युद्धं महाघोरं मया ताभ्यां महार्णवे
मरणे वरदानं ते ततो ज्ञातं महाद्भुतम् । ज्ञात्वाहं शरणं प्राप्तस्त्वामद्य शरणप्रदाम्
साहाय्यं कुरु मे मातः खिन्नोऽहं युद्धकर्मणा । दृप्तौ तौ वरदानेन तव देवार्तिनाशने
हन्तुं मामुद्यतौ पापौ किं करोमि क्व यामि च । इत्युक्ता सा तदा देवी स्मितपूर्वमुवाच ह
प्रणमन्तं जगन्नाथं वासुदेवं सनातनम् । देवदेव हरे विष्णो कुरु युद्धं पुनः स्वयम्
वञ्चयित्वा त्विमौ शूरौ हन्तव्यौ च विमोहितौ । मोहयिष्याम्यहं नूनं दानवौ वक्रया दृशा
जहि नारायणाशु त्वं मम मायाविमोहितौ । सूत उवाच तच्छ्रुत्वा वचनं विष्णुस्तस्याः प्रीतिरसान्वितम्
संग्रामस्थलमासाद्य तस्थौ तत्र महार्णवे । तदायातौ च तौ वीरौ युद्धकामौ महाबलौ
वीक्ष्य विष्णुं स्थितं तत्र हर्षयुक्तौ बभूवतुः । तिष्ठ तिष्ठ महाकाम कुरु युद्धं चतुर्भुज
दैवाधीनौ विदित्वाद्य नूनं जयपराजयौ । सबलो जयमाप्नोति दैवाज्जयति दुर्बलः
सर्वथैव न कर्तव्यौ हर्षशोकौ महात्मना । पुरा वै बहवो दैत्या जिता दानववैरिणा
अधुना चावयोः सार्धं युध्यमानः पराजितः । सूत उवाच इत्युक्त्वा तौ महाबाहू युद्धाय समुपस्थितौ
वीक्ष्य विष्णुर्जघानाशु मुष्टिनाद्भुतकर्मणा । तावप्यतिबलोन्मत्तौ जध्नतुर्मुष्टिना हरिम्
एवं परस्परं जातं युद्धं परमदारुणम् । युध्यमानौ महावीर्यौ दृष्ट्वा नारायणस्तदा
अपश्यत्सम्मुखं देव्याः कृत्वा दीनां दृशं हरिः । सूत उवाच तं वीक्ष्य तादृशं विष्णुं करुणारससंयुतम्
जहासातीव ताम्राक्षी वीक्षमाणा तदासुरौ । तौ जघान कटाक्षैश्च कामबाणैरिवापरैः
मन्दस्मितयुतैः कामं प्रेमभावयुतैरनु । दृष्ट्वा मुमुहतुः पापौ देव्या वक्रविलोकनम्
विशेषमिति मन्वानौ कामबाणातिपीडितौ । वीक्षमाणौ स्थितौ तत्र तां देवीं विशदप्रभाम्
हरिणापि च तद्दृष्टं देव्यास्तत्र चिकीर्षितम् । मोहितौ तौ परिज्ञाय भगवान्कार्यवित्तमः
उवाच तौ हसन् श्लक्ष्णं मेघगम्भीरया गिरा । वरं वरयतां वीरौ युवयोर्योऽभिवाच्छितः
ददामि परमप्रीतो युद्धेन युवयोः किल । दानवा बहवो दृष्टा युध्यमाना मया पुरा
युवयोः सदृशः कोऽपि न दृष्टो न च वै श्रुतः । तस्मात्तुष्टोऽस्मि कामं वै निस्तुलेन बलेन च
भ्रात्रोश्च वाञ्छितं कामं प्रयच्छामि महाबलौ । सूत उवाच तच्छ्रुत्वा वचनं विष्णोः साभिमानौ स्मरातुरौ
वीक्षमाणौ महामायां जगदानन्दकारिणीम् । तमूचतुश्च कामार्तौ विष्णुं कमललोचनौ
हरे न याचकावावां त्वं किं दातुमिहेच्छसि । ददाव तुल्यं देवेश दातारौ नौ न याचकौ
प्रार्थय त्वं हृषीकेश मनोऽभिलषितं वरम् । तुष्टौ स्वस्तव युद्धेन वासुदेवाद्भुतेन च
तयोस्तद्वचनं श्रुत्वा प्रत्युवाच जनार्दनः । भवेतामद्य मे तुष्टौ मम वध्यावुभावपि
सूत उवाच तच्छ्रुत्वा वचनं विष्णोर्दानवौ चातिविस्मितौ । वञ्चिताविति मन्वानौ तस्थतुः शोकसंयुतौ
विचार्य मनसा तौ तु दानवौ विष्णुमूचतुः । प्रेक्ष्य सर्वं जलमयं भूमिं स्थलविवर्जिताम्
हरे योऽयं वरो दत्तस्त्वया पूर्वं जनार्दन । सत्यवागसि देवेश देहि तं वाञ्छितं वरम्