इति सञ्चिन्त्य मे सर्वे बृहस्पतिपुरोगमाः । नहुषं सहिता जग्मुरिन्द्रपत्न्या दिवौकसः
तानागतान्ममीक्ष्याह तदा कृत्रिमवासवः । जहर्ष च मुदायुक्तस्तां वीक्ष्य मुदितोऽब्रवीत्
अद्यास्मि वासवः कान्ते भज मां चारुलोचने । पतित्वे सर्वलोकस्य पूज्योऽहं विहितः सुरैः
इत्युक्ता सा नृपं प्राह वेपमाना त्रपायुता । वरमिच्छाम्यहं राजंस्त्वत्तः प्राप्तं सुरेश्वर
किञ्चित्कालं प्रतीक्षस्व यावत्कुर्वे विनिर्णयम् । इन्द्रोऽस्तीति न वास्तीति सन्देहो मे हृदि स्थितः
ततस्त्वां समुपस्थास्ये कृत्वा निश्चयमात्मनि । तावत्क्षमस्व राजेन्द्र सत्यमेतद्ब्रवीमि ते
न हि विज्ञायते शक्रो नष्टः किं वा क्व वा गतः । एवमुक्तः स चेन्द्राण्या नहुषः प्रीतिमानभूत्
व्यसर्जयत्स तां देवीं तथेत्युक्त्वा मुदान्वितः । सा विसृष्टा नृपेणाशु गत्वा प्राह सुरान्सती
इन्द्रस्यागमने यत्नं कुरुताद्य कृतोद्यमाः । श्रुत्वा तद्वचनं देवा इन्द्राण्या रसवच्छुचि
मन्त्रयामासुरेकाग्राः शक्रार्थं नृपसत्तम । ते गत्वा वैष्णवं धाम तुष्टुवुः परमेश्वरम्
आदिदेवं जगन्नाथं शरणागतवत्सलम् । ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः
देवदेव सुरपतिर्ब्रह्महत्याप्रपीडितः । अदृश्यः सर्वभूतानां क्वापि तिष्ठति वासवः
त्वद्धिया निहते विप्रे ब्रह्महत्या कुतः प्रभो । त्वं गतिस्तस्य भगवन्नस्माकं च तथैव हि
त्राहि नः परमापन्नान्मोक्षं तस्य विनिर्दिश । देवानां वचनं श्रुत्वा कातरं विष्णुरब्रवीत्
यजतामश्वमेधेन शक्रपापनिवृत्तये । पुण्येन हयमेधेन पावितः पाकशासनः
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः । हयमेधेन सन्तुष्टा देवी श्रीजगदम्बिका
ब्रह्महत्यादिपापानि नाशयिष्यत्यसंशयम् । यस्याः स्मरणमात्रेण पापजालं विनश्यति
किं पुनर्वाजिमेधेन तत्प्रीत्यर्थं कृतेन च । इन्द्राणी कुरुतान्नित्यं भगवत्याः प्रपूजनम्
आराधनं शिवायास्तु सुखकारि भविष्यति । नहुषोऽपि जगन्मातुर्मायया मोहितः किल
विनाशं स्वकृतेनाशु गमिष्यत्येनसा सुराः । पावितश्चाश्वमेधेन तुराषाडपि वैभवम्
प्राप्स्यत्यचिरकालेन स्वमासनमनुत्तमम् । ते तु श्रुत्वा शुभां वाणीं विष्णोरमिततेजसः
जग्मुस्तं देशमनिशं यत्रास्ते पाकशासनः । तमाश्वास्य सुराः शक्रं बृहस्पतिपुरोगमाः
कारयामासुरखिलं हयमेधं महाक्रतुम् । विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च
पर्वतेषु पृथिव्यां च स्त्रीषु चैवाक्षिपद्विभुः । तां विसृज्य च भूतेषु विपापः पाकशासनः
विज्वरः समभूद्भूयः कालाकाङ्क्षी स्थितो जले । अदृश्यः सर्वभूतानां पद्मनाले व्यतिष्ठत
देवास्तु निर्गताः स्थाने कृत्वा कार्यं तदद्भुतम् । पौलोमी तु गुरुं प्राह दुःखिता विरहाकुला
कृतयज्ञोऽपि मे भर्ता किमदृश्यः पुरन्दरः । कथं द्रक्ष्ये प्रियं स्वामिंस्तमुपायं वदस्व मे
बृहस्पतिरुवाच त्वमाराधय पौलोमि देवीं भगवतीं शिवाम् । दर्शयिष्यति ते नाथं देवी विगतकल्मषम्
आराधिता जगद्धात्री नहुषं वारयिष्यति । मोहयित्वा नृपं स्थानात्पातयिष्यति चाम्बिका
इत्युक्ता सा तदा तेन पुलोमतनया नृप । जग्राह मन्त्रं विधिवद्गुरोर्देव्याः ससाधनम्