शक्रपत्नी सदा साध्वी जीवमाने पतौ पुनः । कथमन्ये पतिं कुर्यात्सुभगातिपतिव्रता
त्रिलोकीशस्त्वमधुना शास्ता धर्मस्य वै विभो । त्वादृशोऽधर्ममातिष्ठेत्तदा नश्येत्प्रजा ध्रुवम्
सर्वथा प्रभुणा कार्यं शिष्टाचारस्य रक्षणम् । वारमुख्याश्च शतशो वर्तन्तेऽत्र शचीसमाः
रतिस्तु कारणं प्रोक्तं शृङ्गारस्य महात्मभिः । रसहानिर्बलात्कारे कृते सति तु जायते
उभयोः सदृशं प्रेम यदि पार्थिवसत्तम । तदा वै सुखसम्पत्तिरुभयोरुपजायते
तस्माद्भावमिमं मुञ्च परदाराभिमर्शने । सद्भावं कुरु देवेन्द्र पदं प्राप्तोऽस्यनुत्तमम्
ऋद्धिक्षयस्तु पापेन पुण्येनातिविवर्धनम् । तस्मात्पापं परित्यज्य सन्मतिं कुरु पार्थिव
नहुष उवाच गौतमस्य यदा भुक्ता दाराः शक्रेण देवताः । वाचस्पतेस्तु सोमेन क्व यूयं संस्थितास्तदा
परोपदेशे कुशला प्रभवन्ति नराः किल । कर्ता चैवोपदेष्टा च दुर्लभः पुरुषो भवेत्
मामागच्छतु सा देवी हितं स्यादद्भुतं हि वः । एतस्याः परमं देवाः सुखमेव भविष्यति
अन्यथा न हि तुष्येऽहं सत्यमेतद्ब्रवीमि वः । विनयाद्वा बलाद्वापि तामाशु प्रापयन्त्विह
इति तस्य वचः श्रुत्वा देवाश्च मुनयस्तथा । तमूचुश्चातिसन्त्रस्ता नहुषं मदनातुरम्
इन्द्राणीमानयिष्यामः सामपूर्वं तवान्तिकम् । इत्युक्त्वा ते तदा जग्मुर्बृहस्पतिनिकेतनम्
व्यास उवाच ते गत्वाङ्गिरसः पुत्रं प्रोचुः प्राञ्जलयः सुराः । जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि
सा देया नहुषायाद्य वासवोऽसौ कृतो यतः । वृणोत्वियं वरारोहा पतित्वे वरवर्णिनी
बृहस्पतिः सुरानाह तच्छ्रुत्वा दारुणं वचः । नाहं त्यक्ष्ये तु पौलोमीं सतीं च शरणागताम्
देवा ऊचुः उपायोऽन्यः प्रकर्तव्यो येन सोऽद्य प्रसीदति । अन्यथा कोपसंयुक्तो दुराराध्यो भविष्यति
गुरुरुवाच तत्र गत्वा शची भूपं प्रलोभ्य वचसा भृशम् । करोतु समयं बाला पतिं ज्ञात्वा मृतं भजे
इन्द्रे जीवति मे कान्ते कथमन्यं करोम्यहम् । अन्वेषणार्थं गन्तव्यं मया तस्य महात्मनः
इति सा समयं कृत्वा वञ्चयित्वा च भूपतिम् । भर्तुरानयने यत्नं करोतु मम वाक्यतः
इति सञ्चिन्त्य मे सर्वे बृहस्पतिपुरोगमाः । नहुषं सहिता जग्मुरिन्द्रपत्न्या दिवौकसः
तानागतान्ममीक्ष्याह तदा कृत्रिमवासवः । जहर्ष च मुदायुक्तस्तां वीक्ष्य मुदितोऽब्रवीत्
अद्यास्मि वासवः कान्ते भज मां चारुलोचने । पतित्वे सर्वलोकस्य पूज्योऽहं विहितः सुरैः
इत्युक्ता सा नृपं प्राह वेपमाना त्रपायुता । वरमिच्छाम्यहं राजंस्त्वत्तः प्राप्तं सुरेश्वर
किञ्चित्कालं प्रतीक्षस्व यावत्कुर्वे विनिर्णयम् । इन्द्रोऽस्तीति न वास्तीति सन्देहो मे हृदि स्थितः
ततस्त्वां समुपस्थास्ये कृत्वा निश्चयमात्मनि । तावत्क्षमस्व राजेन्द्र सत्यमेतद्ब्रवीमि ते
न हि विज्ञायते शक्रो नष्टः किं वा क्व वा गतः । एवमुक्तः स चेन्द्राण्या नहुषः प्रीतिमानभूत्
व्यसर्जयत्स तां देवीं तथेत्युक्त्वा मुदान्वितः । सा विसृष्टा नृपेणाशु गत्वा प्राह सुरान्सती
इन्द्रस्यागमने यत्नं कुरुताद्य कृतोद्यमाः । श्रुत्वा तद्वचनं देवा इन्द्राण्या रसवच्छुचि
मन्त्रयामासुरेकाग्राः शक्रार्थं नृपसत्तम । ते गत्वा वैष्णवं धाम तुष्टुवुः परमेश्वरम्