आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् । इति तस्य वचः श्रुत्वा देवा देवर्षयस्तथा
गत्वा चिन्तातुराः प्रोचुः पौलोमीं प्रणतास्ततः । इन्द्रपत्नि दुराचारो नहुषस्त्वामिहेच्छति
कुपितोऽस्मानुवाचेदं प्रेषयध्वं शचीमिह । किं कुर्मस्तदधीनाः स्मो येनेन्द्रोऽयं कृतः किल
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह । रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता
बृहस्पतिरुवाच न भेतव्यं त्वया देवि नहुषात्पापमोहितात् । न त्वां दास्याम्यहं वत्से त्यक्त्वा धर्मं सनातनम्
शरणागतमार्तं च यो ददाति नराधमः । स एव नरकं याति यावदाभूतसंप्लवम् । स्वस्था भव पृथुश्रोणि न त्यक्ष्ये त्वां कदाचन
इन्द्राण्या शक्रदर्शनम् व्यास उवाच नहुषस्त्वथ तां श्रुत्वा गुरोस्तु शरणं गताम् । चुक्रोध स्मरबाणार्तस्तमाङ्गिरसमाशु वै
देवानाहाङ्गिरासूनुर्हन्तव्योऽयं मया किल । इतीन्द्राणीं गृहे मूढो रक्षतीति मया श्रुतम्
इति तं कुपितं दृष्ट्वा देवाः सर्षिपुरोगमाः । अब्रुवन्नहुषं घोरं सामपूर्वं वचस्तदा
क्रोधं संहर राजेन्द्र त्यज पापमतिं प्रभो । निन्दन्ति धर्मशास्त्रेषु परदाराभिमर्शनम्
शक्रपत्नी सदा साध्वी जीवमाने पतौ पुनः । कथमन्ये पतिं कुर्यात्सुभगातिपतिव्रता
त्रिलोकीशस्त्वमधुना शास्ता धर्मस्य वै विभो । त्वादृशोऽधर्ममातिष्ठेत्तदा नश्येत्प्रजा ध्रुवम्
सर्वथा प्रभुणा कार्यं शिष्टाचारस्य रक्षणम् । वारमुख्याश्च शतशो वर्तन्तेऽत्र शचीसमाः
रतिस्तु कारणं प्रोक्तं शृङ्गारस्य महात्मभिः । रसहानिर्बलात्कारे कृते सति तु जायते
उभयोः सदृशं प्रेम यदि पार्थिवसत्तम । तदा वै सुखसम्पत्तिरुभयोरुपजायते
तस्माद्भावमिमं मुञ्च परदाराभिमर्शने । सद्भावं कुरु देवेन्द्र पदं प्राप्तोऽस्यनुत्तमम्
ऋद्धिक्षयस्तु पापेन पुण्येनातिविवर्धनम् । तस्मात्पापं परित्यज्य सन्मतिं कुरु पार्थिव
नहुष उवाच गौतमस्य यदा भुक्ता दाराः शक्रेण देवताः । वाचस्पतेस्तु सोमेन क्व यूयं संस्थितास्तदा
परोपदेशे कुशला प्रभवन्ति नराः किल । कर्ता चैवोपदेष्टा च दुर्लभः पुरुषो भवेत्
मामागच्छतु सा देवी हितं स्यादद्भुतं हि वः । एतस्याः परमं देवाः सुखमेव भविष्यति
अन्यथा न हि तुष्येऽहं सत्यमेतद्ब्रवीमि वः । विनयाद्वा बलाद्वापि तामाशु प्रापयन्त्विह
इति तस्य वचः श्रुत्वा देवाश्च मुनयस्तथा । तमूचुश्चातिसन्त्रस्ता नहुषं मदनातुरम्
इन्द्राणीमानयिष्यामः सामपूर्वं तवान्तिकम् । इत्युक्त्वा ते तदा जग्मुर्बृहस्पतिनिकेतनम्
व्यास उवाच ते गत्वाङ्गिरसः पुत्रं प्रोचुः प्राञ्जलयः सुराः । जानीमः शरणं प्राप्तामिन्द्राणीं तव वेश्मनि
सा देया नहुषायाद्य वासवोऽसौ कृतो यतः । वृणोत्वियं वरारोहा पतित्वे वरवर्णिनी
बृहस्पतिः सुरानाह तच्छ्रुत्वा दारुणं वचः । नाहं त्यक्ष्ये तु पौलोमीं सतीं च शरणागताम्
देवा ऊचुः उपायोऽन्यः प्रकर्तव्यो येन सोऽद्य प्रसीदति । अन्यथा कोपसंयुक्तो दुराराध्यो भविष्यति
गुरुरुवाच तत्र गत्वा शची भूपं प्रलोभ्य वचसा भृशम् । करोतु समयं बाला पतिं ज्ञात्वा मृतं भजे
इन्द्रे जीवति मे कान्ते कथमन्यं करोम्यहम् । अन्वेषणार्थं गन्तव्यं मया तस्य महात्मनः
इति सा समयं कृत्वा वञ्चयित्वा च भूपतिम् । भर्तुरानयने यत्नं करोतु मम वाक्यतः