सर्वत्रैव कथा तस्य विस्तारमगमत्किल । किं कृतं दुष्कृतं कर्म शक्रेणाद्य जिघांसता
वृत्रं छलेन विश्वस्तं मुनिभिश्च प्रतारितम् । वेदप्रमाणमुत्सृज्य स्वीकृतं सौगतं मतम्
यदयं निहतः शनुर्वञ्चयित्वातिसाहसात् । को नाम वचनं दत्त्वा विपरीतमथाचरेत्
विना शक्रं हरिं वापि यथायं विनिपातितः । एवंविधाः कथाश्चान्याः समाजेष्वभवन्भृशम्
शुश्रावेन्द्रोऽपि विविधाः स्वकीर्तेर्हानिकारकाः । यस्य कीर्तिर्हता लोके धिक्तस्यैव कुजीवितम्
यं दृष्ट्वा पथि गच्छन्तं शत्रुः स्मेरमुखो भवेत् । इन्द्रद्युम्नोऽपि राजर्षिः पतितः कीर्तिसंक्षयात्
स्वर्गादकृतपापोऽसौ पापकृत्किं न पात्यते । स्वल्पेऽपराधेऽपि नृपो ययातिः पतितः किल
नृपः कर्कटतां प्राप्तो युगानष्टादशैव तु । भृगुपत्नीशिरश्छेदाद्भगवान्हरिरच्युतः
ब्रह्मशापात्पशोर्योनौ सञ्जातो मकरादिषु । विष्णुश्च वामनो भूत्वा याचनार्थं बलेर्गृहे
गतः किमपरं दुःखं प्राप्नोति दुष्कृती नरः । रामोऽपि वनवासेषु सीताविरहजं बहु
दुःखं च प्राप्तवान्घोरं भृगुशापेन भारत । तथेन्द्रोऽपि ब्रह्महत्याकृतं प्राप्य महद्भयम्
न स्वास्थ्यं प्राप गेहेऽसौ सर्वसिद्धिसमन्विते । पौलोमी तं सभाहीनं दृष्ट्वा प्रोवाच वासवम्
निःश्वसन्तं भयत्रस्तं नष्टसंज्ञं विचेतसम् । किं प्रभोऽद्य भयार्तोऽसि मृतस्ते दारुणो रिपुः
का चिन्ता वर्तते कान्त तव शत्रुनिषूदन । कस्माच्छोचसि लोकेश निःश्वसन्प्राकृतो यथा
नान्योऽस्ति बलवाञ्छत्रुर्येन चिन्तापरो भवान् । इन्द्र उवाच नारातिर्बलवान्मेऽस्ति न शान्तिर्न सुखं तथा
ब्रह्महत्याभयाद्राज्ञि बिभेमि सततं गृहे । न नन्दनं सुखकरं नामृतं न गृहं वनम्
गन्धर्वाणां तथा गेयं नृत्यमप्सरसां पुनः । न त्वं सुखकरा नारी नाना च सुरयोषितः
न तथा कामधेनुश्च देववृक्षः सुखप्रदः । किं करोमि क्व गच्छामि क्व शर्म मम जायते
इति चिन्तापरः कान्ते न लभे सुखमात्मनि । व्यास उवाच इत्युक्त्वा वचनं शक्रः प्रियां परमकातराम्
निर्जगाम गृहान्मन्दो मानसं सर उत्तमम् । पद्मनाले प्रविष्टोऽसौ भयार्तः शोककर्षितः
न प्राज्ञायत देवेन्द्रस्त्वभिभूतश्च कल्मषैः । प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः
असहायस्तुराषाडैच्चिन्तार्तो विकलेन्द्रियः । ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते
सुराश्चिन्तातुराश्चासन्नुत्पाताश्चाभवन्नथ । ऋषयः सिद्धगन्धर्वा भयार्ताश्चाभवन्भृशम्
अराजकं जगत्सर्वमभिभूतमुपद्रवैः । अवर्षणं तदा जातं पृथिवी क्षीणवैभवा
विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि वै । एवं त्वराजके जाते देवता मुनयस्तथा
विचार्य नहुषं चक्रुः शक्रं सर्वे दिवौकसः । सम्प्राप्य नहुषो राजा धर्मिष्ठोऽपि रजोबलात्
बभूव विषयासक्तः पञ्चबाणशराहतः । अप्सरोभिर्वृतः क्रीडन्देवोद्यानेषु भारत
शक्रपत्नीगुणाञ्छ्रुत्वा चकमे तां स पार्थिवः । ऋषीनाह किमिन्द्राणी नोपगच्छति मां किल
भवद्भिश्चामरैः सर्वैः कृतोऽहं वासवस्त्विह । प्रेषयध्वं सुराः कामं सेवार्थं मम वै शचीम्
प्रियं चेन्मम कर्तव्यं सर्वथा मुनयोऽमराः । अहमिन्द्रोऽद्य देवानां लोकानां च तथेश्वरः