जनमेजय उवाच हत्वा त्वाष्ट्रं सुरेशोऽथ कामवस्थामवाप्तवान् । सुखं वा दुःखमेवाग्रे तन्मे ब्रूहि पितामह
व्यास उवाच किं पृच्छसि महाभाग सन्देहः कीदृशस्तव । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्
बलिष्ठैर्दुर्बलैर्वापि स्वल्पं वा बहु वा कृतम् । सर्वथैव हि भोक्तव्यं सदेवासुरमानुषैः
शक्रायेत्थं मतिर्दत्ता हरिणा वृत्रघातिने । प्रविष्टोऽथ पविं विष्णुः सहायः प्रत्यपद्यत
न चापदि सहायोऽभूद्वासुदेवः कथञ्चन । समये स्वजनः सर्वः संसारेऽस्मिन्नराधिप
दैवे विमुखतां प्राप्ते न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या भ्राता वाथ सहोदरः
सेवको वापि मित्रं वा पुत्रश्चैव तथौरसः । प्रतिकूले गते दैवे न कोऽप्येति सहायताम्
भोक्ता पापस्य पुण्यस्य कर्ता भवति सर्वथा । वृत्रं हत्वा गताः सर्वे निस्तेजस्कः शचीपतिः
शेपुस्तं त्रिदशाः सर्वे ब्रह्महेत्यब्रुवञ्छनैः । को नाम शपथान्कृत्वा सत्यं दत्त्वा वचः पुनः
जिघांसति सुविश्वस्तं मुनिं मित्रत्वमागतम् । देवगोष्ठ्यां सुरोद्याने गन्धर्वाणां समागमे
सर्वत्रैव कथा तस्य विस्तारमगमत्किल । किं कृतं दुष्कृतं कर्म शक्रेणाद्य जिघांसता
वृत्रं छलेन विश्वस्तं मुनिभिश्च प्रतारितम् । वेदप्रमाणमुत्सृज्य स्वीकृतं सौगतं मतम्
यदयं निहतः शनुर्वञ्चयित्वातिसाहसात् । को नाम वचनं दत्त्वा विपरीतमथाचरेत्
विना शक्रं हरिं वापि यथायं विनिपातितः । एवंविधाः कथाश्चान्याः समाजेष्वभवन्भृशम्
शुश्रावेन्द्रोऽपि विविधाः स्वकीर्तेर्हानिकारकाः । यस्य कीर्तिर्हता लोके धिक्तस्यैव कुजीवितम्
यं दृष्ट्वा पथि गच्छन्तं शत्रुः स्मेरमुखो भवेत् । इन्द्रद्युम्नोऽपि राजर्षिः पतितः कीर्तिसंक्षयात्
स्वर्गादकृतपापोऽसौ पापकृत्किं न पात्यते । स्वल्पेऽपराधेऽपि नृपो ययातिः पतितः किल
नृपः कर्कटतां प्राप्तो युगानष्टादशैव तु । भृगुपत्नीशिरश्छेदाद्भगवान्हरिरच्युतः
ब्रह्मशापात्पशोर्योनौ सञ्जातो मकरादिषु । विष्णुश्च वामनो भूत्वा याचनार्थं बलेर्गृहे
गतः किमपरं दुःखं प्राप्नोति दुष्कृती नरः । रामोऽपि वनवासेषु सीताविरहजं बहु
दुःखं च प्राप्तवान्घोरं भृगुशापेन भारत । तथेन्द्रोऽपि ब्रह्महत्याकृतं प्राप्य महद्भयम्
न स्वास्थ्यं प्राप गेहेऽसौ सर्वसिद्धिसमन्विते । पौलोमी तं सभाहीनं दृष्ट्वा प्रोवाच वासवम्
निःश्वसन्तं भयत्रस्तं नष्टसंज्ञं विचेतसम् । किं प्रभोऽद्य भयार्तोऽसि मृतस्ते दारुणो रिपुः
का चिन्ता वर्तते कान्त तव शत्रुनिषूदन । कस्माच्छोचसि लोकेश निःश्वसन्प्राकृतो यथा
नान्योऽस्ति बलवाञ्छत्रुर्येन चिन्तापरो भवान् । इन्द्र उवाच नारातिर्बलवान्मेऽस्ति न शान्तिर्न सुखं तथा
ब्रह्महत्याभयाद्राज्ञि बिभेमि सततं गृहे । न नन्दनं सुखकरं नामृतं न गृहं वनम्
गन्धर्वाणां तथा गेयं नृत्यमप्सरसां पुनः । न त्वं सुखकरा नारी नाना च सुरयोषितः
न तथा कामधेनुश्च देववृक्षः सुखप्रदः । किं करोमि क्व गच्छामि क्व शर्म मम जायते
इति चिन्तापरः कान्ते न लभे सुखमात्मनि । व्यास उवाच इत्युक्त्वा वचनं शक्रः प्रियां परमकातराम्
निर्जगाम गृहान्मन्दो मानसं सर उत्तमम् । पद्मनाले प्रविष्टोऽसौ भयार्तः शोककर्षितः