विष्णुनापि कृतं पापं यत्साहाय्यमवाप्तवान् । वज्रं प्रविश्य येनासौ पातितः सत्त्वमूर्तिना
नूनं स्वार्थपरः प्राणी न पापात्त्रासमश्नुते । हरिणा हरिसङ्गेन सर्वथा दुष्कृतं कृतम्
द्वावेव स्तः पदार्थानां द्वावेव निधनं गतौ । प्रथमश्च तुरीयश्च यौ त्रिलोक्यां तु दुर्लभौ
अर्थकामौ प्रशस्तौ द्वौ सर्वेषां सम्मतौ प्रियौ । धर्माधर्मेति वाग्वादो दम्भोऽयं महतामपि
मुनयोऽपि मनस्तापमेवं कृत्वा पुनः पुनः । जग्मुः स्वानाश्रमानेव विमनस्का हतोद्यमाः
त्वष्टा तु निहतं श्रुत्वा पुत्रमिन्द्रेण भारत । रुरोद दुःखसन्तप्तो निर्वेदमगमत्पुनः
यत्रासौ पतितस्तत्र गत्वा वीक्ष्य तथागतम् । संस्कारं कारयामास विधिवत्पारलौकिकम्
स्नात्वास्य सलिलं दत्त्वा कृत्वा चैवौर्ध्वदैहिकम् । शशापेन्द्रं स शोकार्तः पापिष्ठं मित्रघातकम्
यथा मे निहतः पुत्रः प्रलोभ्य शपथैर्भृशम् । तथेन्द्रोऽपि महद्दुःखं प्राप्नोतु विधिनिर्मितम्
इति शप्त्वा सुरेशानं त्वष्टा तापसमन्वितः । मेरोः शिखरमास्थाय तपस्तेपे सुदुष्करम्
जनमेजय उवाच हत्वा त्वाष्ट्रं सुरेशोऽथ कामवस्थामवाप्तवान् । सुखं वा दुःखमेवाग्रे तन्मे ब्रूहि पितामह
व्यास उवाच किं पृच्छसि महाभाग सन्देहः कीदृशस्तव । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्
बलिष्ठैर्दुर्बलैर्वापि स्वल्पं वा बहु वा कृतम् । सर्वथैव हि भोक्तव्यं सदेवासुरमानुषैः
शक्रायेत्थं मतिर्दत्ता हरिणा वृत्रघातिने । प्रविष्टोऽथ पविं विष्णुः सहायः प्रत्यपद्यत
न चापदि सहायोऽभूद्वासुदेवः कथञ्चन । समये स्वजनः सर्वः संसारेऽस्मिन्नराधिप
दैवे विमुखतां प्राप्ते न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या भ्राता वाथ सहोदरः
सेवको वापि मित्रं वा पुत्रश्चैव तथौरसः । प्रतिकूले गते दैवे न कोऽप्येति सहायताम्
भोक्ता पापस्य पुण्यस्य कर्ता भवति सर्वथा । वृत्रं हत्वा गताः सर्वे निस्तेजस्कः शचीपतिः
शेपुस्तं त्रिदशाः सर्वे ब्रह्महेत्यब्रुवञ्छनैः । को नाम शपथान्कृत्वा सत्यं दत्त्वा वचः पुनः
जिघांसति सुविश्वस्तं मुनिं मित्रत्वमागतम् । देवगोष्ठ्यां सुरोद्याने गन्धर्वाणां समागमे
सर्वत्रैव कथा तस्य विस्तारमगमत्किल । किं कृतं दुष्कृतं कर्म शक्रेणाद्य जिघांसता
वृत्रं छलेन विश्वस्तं मुनिभिश्च प्रतारितम् । वेदप्रमाणमुत्सृज्य स्वीकृतं सौगतं मतम्
यदयं निहतः शनुर्वञ्चयित्वातिसाहसात् । को नाम वचनं दत्त्वा विपरीतमथाचरेत्
विना शक्रं हरिं वापि यथायं विनिपातितः । एवंविधाः कथाश्चान्याः समाजेष्वभवन्भृशम्
शुश्रावेन्द्रोऽपि विविधाः स्वकीर्तेर्हानिकारकाः । यस्य कीर्तिर्हता लोके धिक्तस्यैव कुजीवितम्
यं दृष्ट्वा पथि गच्छन्तं शत्रुः स्मेरमुखो भवेत् । इन्द्रद्युम्नोऽपि राजर्षिः पतितः कीर्तिसंक्षयात्
स्वर्गादकृतपापोऽसौ पापकृत्किं न पात्यते । स्वल्पेऽपराधेऽपि नृपो ययातिः पतितः किल
नृपः कर्कटतां प्राप्तो युगानष्टादशैव तु । भृगुपत्नीशिरश्छेदाद्भगवान्हरिरच्युतः
ब्रह्मशापात्पशोर्योनौ सञ्जातो मकरादिषु । विष्णुश्च वामनो भूत्वा याचनार्थं बलेर्गृहे
गतः किमपरं दुःखं प्राप्नोति दुष्कृती नरः । रामोऽपि वनवासेषु सीताविरहजं बहु