लोभान्मत्तो द्वेषरतः परदुःखोत्सवान्वितः । परदारलम्पटः स पापबुद्धिः प्रतारकः
रन्ध्रान्वेषी द्रोहपरो मायावी मदगर्वितः । यः प्रविश्योदरे मातुर्गर्भच्छेदं चकार ह
सप्तकृत्वः सप्तकृत्वः क्रन्दमानमनातुरः । तस्मात्पुत्र न कर्तव्यो विश्वासस्तु कथञ्चन
कृतपापस्य का लज्जा पुनः पुत्र प्रकुर्वतः । व्यास उवाच एवं प्रबोधितः पित्रा वचनैर्हेतुसंयुतैः
न बुबोध तदा वृत्र आसन्नमरणः किल । स कदाचित्समुद्रान्ते तमपश्यन्महासुरम्
सन्ध्याकाल उपावृत्ते मुहूर्तेऽतीव दारुणे । ततः सञ्चिन्त्य मघवा वरदानं महात्मनाम्
सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसो न च । हन्तव्योऽयं मया चाद्य बलेनैव न संशयः
एकाकी विजने चात्र सम्प्राप्तः समयोचितः । एवं विचार्य मनसा सस्मार हरिमव्ययम्
तत्राजगाम भगवानदृश्यः पुरुषोत्तमः । वज्रमध्ये प्रविश्यासौ संस्थितो भगवान्हरिः
इन्द्रो बुद्धिं चकाराशु तदा वृत्रवधं प्रति । इति सञ्चिन्त्य मनसा कथं हन्यां रिपुं रणे
अजेयं सर्वथा सर्वदेवैश्च दानवैस्तथा । यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महाबलम्
न श्रेयो मम नूनं स्यात्सर्वथा रिपुरक्षणात् । अपां फेनं तदापश्यत्समुद्रे पर्वतोपमम्
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा । अपां फेनं तदा शक्रो जग्राह किल लीलया
परां शक्तिं च सस्मार भक्त्या परमया युतः । स्मृतमात्रा तदा देवी स्वांशं फेने न्यधापयत्
वज्रं तदावृतं तत्र चकार हरिसंयुतम् । फेनावृतं पविं तत्र शक्रश्चिक्षेप तं प्रति
सहसा निपपाताशु वज्राहत इवाचलः । वासवस्तु प्रहृष्टात्मा बभूव निहते तदा
ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः । हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः
देवीं सम्पूजयामास यत्प्रसादाद्धतो रिपुः । प्रसादयामास तदा स्तोत्रैर्नानाविधैरपि
देवोद्याने पराशक्तेः प्रासादमकरोद्धरिः । पद्मरागमयीं मूर्तिं स्थापयामास वासवः
त्रिकालं महतीं पूजां चक्रुः सर्वेऽपि निर्जराः । तदाप्रभृति देवानां श्रीदेवी कुलदैवतम्
विष्णुं त्रिभुवनश्रेष्ठं पूजयामास वासवः । ततो हते महावीर्ये वृत्रे देवभयङ्करे
प्रववौ च शिवो वायुर्जहृषुर्देवतास्तथा । हते तस्मिन्सगन्धर्वा यक्षराक्षसकिन्नराः
इत्थं वृत्रः पराशक्तिप्रवेशयुतफेनतः । तया कृतविमोहाच्च शक्रेण सहसा हतः
ततो वृत्रनिहन्त्रीति देवी लोकेषु गीयते । शक्रेण निहतत्वाच्च शक्रेण हत उच्यते
इन्द्रस्य पद्मनालप्रवेशानन्तरं नहुषस्य देवेन्द्रपदेऽभिषेकवर्णनम् व्यास उवाच अथ तं पतितं दृष्ट्वा विष्णुर्विष्णुपुरीं ययौ । मनसा शङ्कमानस्तु तस्य हत्याकृतं भयम्
इन्द्रोऽपि भयसंत्रस्तो ययाविन्द्रपुरीं ततः । मुनयो भयसंविग्ना ह्यभवन्निहते रिपौ
किमस्माभिः कृतं पापं यदसौ वञ्चितः किल । मुनिशब्दो वृथा जातः सुरेशस्य च सङ्गमात्
अस्माकं वचनाद्वृत्रो विश्वासमगमत्किल । विश्वासघातिनः सङ्गाद्वयं विश्वासघातकाः
धिगियं ममता पापमूलमेवमनर्थकृत् । यदस्माभिश्छलं कृत्वा शपथैर्वञ्चितोऽसुरः
मन्त्रकृद्बुद्धिदाता च प्रेरकः पापकारिणाम् । पापभाक्स भवेन्नूनं पक्षकर्ता तथैव च