अवश्यं भगवन्तो मे माननीयास्तपस्विनः । भवन्तो मुनयः क्वापि न मिथ्यावादिनो भृशम्
सदाचाराः सुशान्ताश्च न विदुश्छलकारणम् । कृतवैरे शठे स्तब्धे कामुके च गतत्विषि
निर्लज्जे नैव कर्तव्यं सख्यं मतिमता सदा । निर्लज्जोऽयं दुराचारो ब्रह्महा लम्पटः शठः
न विश्वासस्तु कर्तव्यः सर्वथैवेदृशे जने । भवन्तो निपुणाः सर्वे न द्रोहमतयः सदा
अनभिज्ञास्तु शान्तत्वाच्चित्तानामतिवादिनाम् । मुनय ऊचुः जन्तुः कृतस्य भोक्ता वै शुभस्य त्वशुभस्य च
द्रोहं कृत्वा कुतः शान्तिमाप्नुयान्नष्टचेतनः । विश्वासघातकर्तारो नरकं यान्ति निश्चयम्
दुःखं च समवाप्नोति नूनं विश्वासघातकः । निष्कृतिर्ब्रह्महन्तॄणां सुरापानां च निष्कृतिः
विश्वासघातिनां नैव मित्रद्रोहकृतामपि । समयं ब्रूहि सर्वज्ञ यथा ते चेतसि ध्रुवम्
तेनैव समयेनाद्य सन्धिः स्यादुभयोः किल । वृत्र उवाच न शुष्केण न चार्द्रेण नाश्मना न च दारुणा
न वज्रेण महाभाग न दिवा निशि नैव च । वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः
एवं मे रोचते सन्धिः शक्रेण सह नान्यथा । व्यास उवाच ऋषयस्तं तदा प्राहुर्बाढमित्येव चादृताः
समयं श्रावयामासुस्तत्रानीय सुरेश्वरम् । इन्द्रोऽपि शपथांस्तत्र चकार विगतज्वरः
साक्षिणं पावकं कृत्वा मुनीनां सन्निधौ किल । वृत्रस्तु वचनैस्तस्य विश्वासमगमत्तदा
बभूव मित्रवच्छक्रे सहचर्यापरायणः । कदाचिन्नन्दने चोभौ कदाचिद्गन्धमादने
कदाचिदुदधेस्तीरे मोदमानौ विचेरतुः । एवं कृते च सन्धाने वृत्रः प्रमुदितोऽभवत्
शक्रोऽपि वधकामस्तु तदुपायानचिन्तयत् । रन्ध्रान्वेषी समुद्विग्नस्तदासीन्मघवा भृशम्
एवं चिन्तयतस्तस्य कालः समभिवर्तत । विश्वासं परमं प्राप वृत्रः शक्रेऽतिदारुणे
एवं कतिचिदब्दानि गतानि समये कृते । वृत्रस्य मरणोपायान्मनसीन्द्रोऽप्यचिन्तयत्
त्वष्टैकदा सुतं प्राह विश्वस्तं पाकशासने । पुत्र वृत्र महाभाग शृणु मे वचनं हितम्
न विश्वासस्तु कर्तव्यः कृतवैरे कथञ्चन । मघवा कृतवैरस्ते सदासूयापरः परैः
लोभान्मत्तो द्वेषरतः परदुःखोत्सवान्वितः । परदारलम्पटः स पापबुद्धिः प्रतारकः
रन्ध्रान्वेषी द्रोहपरो मायावी मदगर्वितः । यः प्रविश्योदरे मातुर्गर्भच्छेदं चकार ह
सप्तकृत्वः सप्तकृत्वः क्रन्दमानमनातुरः । तस्मात्पुत्र न कर्तव्यो विश्वासस्तु कथञ्चन
कृतपापस्य का लज्जा पुनः पुत्र प्रकुर्वतः । व्यास उवाच एवं प्रबोधितः पित्रा वचनैर्हेतुसंयुतैः
न बुबोध तदा वृत्र आसन्नमरणः किल । स कदाचित्समुद्रान्ते तमपश्यन्महासुरम्
सन्ध्याकाल उपावृत्ते मुहूर्तेऽतीव दारुणे । ततः सञ्चिन्त्य मघवा वरदानं महात्मनाम्
सन्ध्येयं वर्तते रौद्रा न रात्रिर्दिवसो न च । हन्तव्योऽयं मया चाद्य बलेनैव न संशयः
एकाकी विजने चात्र सम्प्राप्तः समयोचितः । एवं विचार्य मनसा सस्मार हरिमव्ययम्
तत्राजगाम भगवानदृश्यः पुरुषोत्तमः । वज्रमध्ये प्रविश्यासौ संस्थितो भगवान्हरिः
इन्द्रो बुद्धिं चकाराशु तदा वृत्रवधं प्रति । इति सञ्चिन्त्य मनसा कथं हन्यां रिपुं रणे