युवयोर्दुःखदं कामं चिन्तावृद्धिकरं परम् । न त्वं स्वपिषि सन्तुष्टो न चापि मघवा तथा
सुखं स्वपिति चिन्तार्तो द्वयोर्यद्वैरिजं भयम् । युवयोर्युध्यतोः कालो व्यतीतस्तु महानिह
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः । संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः
न सुखं कृतवैरस्य भवतीति विनिर्णयः । संग्रामरसिकाः शूराः प्रशंसन्ति न पण्डिताः
युद्धं शृङ्गारचतुरा इन्द्रियार्थविघातकम् । पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः
युद्धे विजयसन्देहो निश्चयं बाणताडनम् । दैवाधीनमिदं विश्वं तथा जयपराजयौ
दैवाधीनाविति ज्ञात्वा न योद्धव्यं कदाचन । कालेऽथ भोजनं स्नानं शय्यायां शयनं तथा
परिचर्यापरा भार्या संसारे सुखसाधनम् । किं सुखं युध्यतः संख्ये बाणवृष्टिभयङ्करे
खड्गपातातिरौद्रे च तथारातिसुखप्रदे । संग्रामे मरणात्स्वर्गसुखप्राप्तिरिति स्फुटम्
प्रलोभनपरं वाक्यं नोदनार्थं निरर्थकम् । छित्त्वा देहं व्यथां प्राप्य शृगालकरटादिभिः
पश्चात्स्वर्गसुखावाप्तिं को वा वाञ्छति मन्दधीः । सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा
अवाप्स्यसि सुखं त्वं च शक्रश्चापि निरन्तरम् । वयं च तापसाः सर्वे गन्धर्वाश्च निजाश्रमे
सुखवासं गमिष्यामः शान्ते वैरेऽधुनैव वाम् । संग्रामे युवयोर्धीर वर्तमाने दिवानिशम्
पीड्यन्ते मुनयः सर्वे गन्धर्वाः किन्नरा नराः । सर्वेषां शान्तिकामानां सख्यमिच्छामहे वयम्
मुनयस्त्वं च शक्रश्च प्राप्नुवन्तु सुखं किल । मध्यस्थाश्च वयं वृत्र युवयोः सख्यकारणे
शपथं कारयित्वात्र योजयामो मिथः प्रियम् । शक्रस्तु शपथान्कृत्वा यथोक्तांश्च तवाग्रतः
चित्तं ते प्रीतिसंयुक्तं करिष्यति तु साम्प्रतम् । सत्याधारा धरा नूनं सत्येन च दिवाकरः
तपत्ययं यथाकालं वायुः सत्येन वात्यथ । उदन्वानपि मर्यादां सत्येनैव न मुञ्चति
तस्मात्सत्येन सख्यं वा भवत्वद्य यथासुखम् । एकत्र शयनं क्रीडा जलकेलिं सुखासनम्
युवाभ्यां सर्वथा कार्यं कर्तव्यं सख्यमेत्य च । व्यास उवाच महर्षिवचनं श्रुत्वा तानुवाच महामतिः
अवश्यं भगवन्तो मे माननीयास्तपस्विनः । भवन्तो मुनयः क्वापि न मिथ्यावादिनो भृशम्
सदाचाराः सुशान्ताश्च न विदुश्छलकारणम् । कृतवैरे शठे स्तब्धे कामुके च गतत्विषि
निर्लज्जे नैव कर्तव्यं सख्यं मतिमता सदा । निर्लज्जोऽयं दुराचारो ब्रह्महा लम्पटः शठः
न विश्वासस्तु कर्तव्यः सर्वथैवेदृशे जने । भवन्तो निपुणाः सर्वे न द्रोहमतयः सदा
अनभिज्ञास्तु शान्तत्वाच्चित्तानामतिवादिनाम् । मुनय ऊचुः जन्तुः कृतस्य भोक्ता वै शुभस्य त्वशुभस्य च
द्रोहं कृत्वा कुतः शान्तिमाप्नुयान्नष्टचेतनः । विश्वासघातकर्तारो नरकं यान्ति निश्चयम्
दुःखं च समवाप्नोति नूनं विश्वासघातकः । निष्कृतिर्ब्रह्महन्तॄणां सुरापानां च निष्कृतिः
विश्वासघातिनां नैव मित्रद्रोहकृतामपि । समयं ब्रूहि सर्वज्ञ यथा ते चेतसि ध्रुवम्
तेनैव समयेनाद्य सन्धिः स्यादुभयोः किल । वृत्र उवाच न शुष्केण न चार्द्रेण नाश्मना न च दारुणा
न वज्रेण महाभाग न दिवा निशि नैव च । वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः