ते प्रापिताः सुरवनं विबुधारयो ये हत्वा रणेऽपि विशिखैः किल पावितास्ते । त्राता न किं निरयपातभयाद्दयार्द्रे यच्छत्रवोऽपि न हि किं विनिहंसि वृत्रम्
जानीमहे रिपुरसौ तव सेवको न प्रायेण पीडयति नः किल पापबुद्धिः । यस्तावकस्त्विह भवेदमरानसौ किं त्वत्पादपङ्कजरतान्ननु पीडयेद्वा
कुर्मः कथं जननि पूजनमद्य तेऽम्ब पुष्पादिकं तव विनिर्मितमेव यस्मात् । मन्त्रा वयं च सकलं परशक्तिरूपं तस्माद्भवानि चरणे प्रणताः स्म नूनम्
धन्यास्त एव मनुजा हि भजन्ति भक्त्या पादाम्बुजं तव भवाब्धिजलेषु पोतम् । यं योगिनोऽपि मनसा सततं स्मरन्ति मोक्षार्थिनो विगतरागविकारमोहाः
ये याज्ञिकाः सकलवेदविदोऽपि नूनं त्वां संस्मरन्ति सततं किल होमकाले । स्वाहां तु तृप्तिजननीममरेश्वराणां भूयः स्वधां पितृगणस्य च तृप्तिहेतुम्
मेधासि कान्तिरसि शान्तिरपि प्रसिद्धा बुद्धिस्त्वमेव विशदार्थकरी नराणाम् । सर्वं त्वमेव विभवं भुवनत्रयेऽस्मि- न्कृत्वा ददासि भजतां कृपया सदैव
व्यास उवाच एवं स्तुता सुरैर्देवी प्रत्यक्षा साभवत्तदा । चारुरूपधरा तन्वी सर्वाभरणभूषिता
पाशांकुशवराभीतिलसद्बाहुचतुष्टया । रणत्किङ्किणिकाजालरसनाबद्धसत्कटिः
कलकण्ठीरवा कान्ता क्वणत्कङ्कणनूपुरा । चन्द्रखण्डसमाबद्धरत्नमौलिविराजिता
मन्दस्मितारविन्दास्या नेत्रत्रयविभूषिता । पारिजातप्रसूनाच्छनालवर्णसमप्रभा
रक्ताम्बरपरीधाना रक्तचन्दनचर्चिता । प्रसादसुमुखी देवी करुणारससागरा
सर्वशृङ्गारवेषाढ्या सर्वद्वैतारणिः परा । सर्वज्ञा सर्वकर्त्री च सर्वाधिष्ठानरूपिणी
सर्ववेदान्तसंसिद्धा सच्चिदानन्दरूपिणी । प्रणेमुस्तां समालोक्य सुरा देवीं पुरःस्थिताम्
तानाह प्रणतानम्बा किं वः कार्यं ब्रुवन्तु माम् । देवा ऊचुः मोहयैनं रिपुं वृत्रं देवानामतिदुःखदम्
यथा विश्वसते देवांस्तथा कुरु विमोहितम् । आयुधे च बलं देहि हतः स्याद्येन वा रिपुः
व्यास उवाच तथेत्युक्त्वा भगवती तत्रैवान्तरधीयत । स्वानि स्वानि निकेतानि जग्मुर्देवा मुदान्विताः
छद्मेनेन्द्रेण फेनद्वारा पराशक्तिस्मरणपूर्वकं वृत्रहननवर्णनम् व्यास उवाच एवं प्राप्तवरा देवा ऋषयश्च तपोधनाः । (जग्मुः सर्वे च सम्मन्त्र्य वृत्रस्याश्रममुत्तमम् ।) ददृशुस्तत्र तं वृत्रं ज्वलन्तमिव तेजसा
धक्ष्यन्तमिव लोकांस्त्रीन्ग्रसन्तमिव चामरान् । ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः
देवकार्यार्थसिद्ध्यर्थं सामयुक्तं रसात्मकम् । ऋषय ऊचुः वृत्र वृत्र महाभाग सर्वलोकभयङ्कर
व्याप्तं त्वयैतत्सकलं ब्रह्माण्डमखिलं किल । शक्रेण तव वैरं यत्तत्तु सौख्यविघातकम्
युवयोर्दुःखदं कामं चिन्तावृद्धिकरं परम् । न त्वं स्वपिषि सन्तुष्टो न चापि मघवा तथा
सुखं स्वपिति चिन्तार्तो द्वयोर्यद्वैरिजं भयम् । युवयोर्युध्यतोः कालो व्यतीतस्तु महानिह
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः । संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः
न सुखं कृतवैरस्य भवतीति विनिर्णयः । संग्रामरसिकाः शूराः प्रशंसन्ति न पण्डिताः
युद्धं शृङ्गारचतुरा इन्द्रियार्थविघातकम् । पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः
युद्धे विजयसन्देहो निश्चयं बाणताडनम् । दैवाधीनमिदं विश्वं तथा जयपराजयौ
दैवाधीनाविति ज्ञात्वा न योद्धव्यं कदाचन । कालेऽथ भोजनं स्नानं शय्यायां शयनं तथा
परिचर्यापरा भार्या संसारे सुखसाधनम् । किं सुखं युध्यतः संख्ये बाणवृष्टिभयङ्करे
खड्गपातातिरौद्रे च तथारातिसुखप्रदे । संग्रामे मरणात्स्वर्गसुखप्राप्तिरिति स्फुटम्
प्रलोभनपरं वाक्यं नोदनार्थं निरर्थकम् । छित्त्वा देहं व्यथां प्राप्य शृगालकरटादिभिः