इन्द्रोऽपि तां समाराध्य हनिष्यति रिपुं रणे । मोहिनी सा महामाया मोहयिष्यति दानवम्
मोहितो मायया वृत्रः सुखसाध्यो भविष्यति । प्रसन्नायां पराम्बायां सर्वं साध्यं भविष्यति
नोचेन्मनोरथावाप्तिर्न कस्यापि भविष्यति । अन्तर्यामिस्वरूपा सा सर्वकारणकारणा
तस्मात्तां विश्वजननीं प्रकृतिं परमादृताः । भजध्वं सात्त्विकैर्भावैः शत्रुनाशाय सत्तमाः
पुरा मयापि संग्रामं कृत्वा परमदारुणम् । पञ्चवर्षसहस्राणि निहतौ मधुकैटभौ
स्तुता मया तदात्यर्थं प्रसन्ना प्रकृतिः परा । मोहितौ तौ तदा दैत्यौ छलेन च मया हतौ
विप्रलब्धौ महाबाहू दानवौ मदगर्वितौ । तथा कुरुध्वं प्रकृतेर्भजनं भावसंयुताः
सर्वथा कार्यसिद्धिं सा करिष्यति सुरोत्तमाः । एवं ते दत्तमतयो विष्णुना प्रभविष्णुना
जग्मुस्ते मेरुशिखरं मन्दारद्रुममण्डितम् । एकान्ते संस्थिता देवाः कृत्वा ध्यानं जपं तपः
तुष्टुवुर्जगतां धात्रीं सृष्टिसंहारकारिणीम् । भक्तकामदुघामम्बां संसारक्लेशनाशिनीम्
देवा ऊचुः देवि प्रसीद परिपाहि सुरान्प्रतप्तान् वृत्रासुरेण समरे परिपीडितांश्च । दीनार्तिनाशनपरे परमार्थतत्त्वे प्राप्तांस्त्वदङ्घ्रिकमलं शरणं सदैव
त्वं सर्वविश्वजननी परिपालयास्मान् पुत्रानिवातिपतितान् रिपुसङ्कटेऽस्मिन् । मातर्न तेऽस्त्यविदितं भुवनत्रयेऽपि कस्मादुपेक्षसि सुरानसुरप्रतप्तान्
त्रैलोक्यमेतदखिलं विहितं त्वयैव ब्रह्मा हरिः पशुपतिस्तव वासनोत्थाः । कुर्वन्ति कार्यमखिलं स्ववशा न ते ते भ्रूभङ्गचालनवशाद्विहरन्ति कामम्
माता सुतान्परिभवात्परिपाति दीनान् रीतिस्त्वयैव रचिता प्रकटापराधान् । कस्मान्न पालयसि देवि विनापराधा- नस्मांस्त्वदङ्घ्रिशरणान्करुणारसाब्धे
नूनं मदङ्घ्रिभजनाप्तपदाः किलैते भक्तिं विहाय विभवे सुखभोगलुब्धाः । नेमे कटाक्षविषया इति चेन्न चैषा रीतिः सुते जननकर्तरि चापि दृष्टा
दोषो न नोऽत्र जननि प्रतिभाति चित्ते यत्ते विहाय भजनं विभवे निमग्नाः । मोहस्त्वया विरचितः प्रभवत्यसौ न- स्तस्मात्स्वभावकरुणे दयसे कथं न
पूर्वं त्वया जननि दैत्यपतिर्बलिष्ठो व्यापादितो महिषरूपधरः किलाजौ । अस्मत्कृते सकललोकभयावहोऽसौ वृत्रं कथं न भयदं विधुनोषि मातः
शुम्भस्तथातिबलवाननुजो निशुम्भ- स्तौ भ्रातरौ तदनुगा निहता हतौ च । वृत्रं तथा जहि खलं प्रबलं दयार्द्रे मत्तं विमोहय तथा न भवेद्यथासौ
त्वं पालयाद्य विबुधानसुरेण मातः सन्तापितानतितरां भयविह्वलांश्च । नान्योऽस्ति कोऽपि भुवनेषु सुरार्तिहन्ता यः क्लेशजालमखिलं निदहेत्स्वशक्त्या
वृत्रे दया तव यदि प्रथिता तथापि जह्येनमाशु जनदुःखकरं खलं च । पापात्समुद्धर भवानि शरैः पुनाना नोचेत्प्रयास्यति तमो ननु दुष्टबुद्धिः
ते प्रापिताः सुरवनं विबुधारयो ये हत्वा रणेऽपि विशिखैः किल पावितास्ते । त्राता न किं निरयपातभयाद्दयार्द्रे यच्छत्रवोऽपि न हि किं विनिहंसि वृत्रम्
जानीमहे रिपुरसौ तव सेवको न प्रायेण पीडयति नः किल पापबुद्धिः । यस्तावकस्त्विह भवेदमरानसौ किं त्वत्पादपङ्कजरतान्ननु पीडयेद्वा
कुर्मः कथं जननि पूजनमद्य तेऽम्ब पुष्पादिकं तव विनिर्मितमेव यस्मात् । मन्त्रा वयं च सकलं परशक्तिरूपं तस्माद्भवानि चरणे प्रणताः स्म नूनम्
धन्यास्त एव मनुजा हि भजन्ति भक्त्या पादाम्बुजं तव भवाब्धिजलेषु पोतम् । यं योगिनोऽपि मनसा सततं स्मरन्ति मोक्षार्थिनो विगतरागविकारमोहाः
ये याज्ञिकाः सकलवेदविदोऽपि नूनं त्वां संस्मरन्ति सततं किल होमकाले । स्वाहां तु तृप्तिजननीममरेश्वराणां भूयः स्वधां पितृगणस्य च तृप्तिहेतुम्
मेधासि कान्तिरसि शान्तिरपि प्रसिद्धा बुद्धिस्त्वमेव विशदार्थकरी नराणाम् । सर्वं त्वमेव विभवं भुवनत्रयेऽस्मि- न्कृत्वा ददासि भजतां कृपया सदैव
व्यास उवाच एवं स्तुता सुरैर्देवी प्रत्यक्षा साभवत्तदा । चारुरूपधरा तन्वी सर्वाभरणभूषिता
पाशांकुशवराभीतिलसद्बाहुचतुष्टया । रणत्किङ्किणिकाजालरसनाबद्धसत्कटिः
कलकण्ठीरवा कान्ता क्वणत्कङ्कणनूपुरा । चन्द्रखण्डसमाबद्धरत्नमौलिविराजिता
मन्दस्मितारविन्दास्या नेत्रत्रयविभूषिता । पारिजातप्रसूनाच्छनालवर्णसमप्रभा