हरिरुवाच श्रान्ते भीते त्यक्तशस्त्रे पतिते बालके तथा । प्रहरन्ति न वीरास्ते धर्म एष सनातनः
पञ्चवर्षसहस्राणि कृतं युद्धं मया त्विह । एकोऽहं भ्रातरौ वां च बलिनौ सदृशौ तथा
कृतं विश्रमणं मध्ये युवाभ्यां च पुनः पुनः । तथा विश्रमणं कृत्वा युध्येऽहं नात्र संशयः
तिष्ठतं हि युवां तावद्बलवन्तौ मदोत्कटौ । विश्रम्याहं करिष्यामि युद्धं वा न्यायमार्गतः
सूत उवाच इति श्रुत्वा वचस्तस्य विश्रब्धौ दानवोत्तमौ । संस्थितौ दूरतस्तत्र संग्रामे कृतनिश्चयौ
अतिदूरे च तौ दृष्ट्वा वासुदेवश्चतुर्भुजः । दध्यौ च मनसा तत्र कारणं मरणे तयोः
चिन्तनाज्ज्ञानमुत्पन्नं देवीदत्तवरावुभौ । कामं वाञ्छितमरणौ न मम्लतुरतस्त्विमौ
वृथा मया कृतं युद्धं श्रमोऽयं मे वृथा गतः । करोमि च कथं युद्धमेवं ज्ञात्वा विनिश्चयम्
अकृते च तथा युद्धे कथमेतौ गमिष्यतः । विनाशं दुःखदौ नित्यं दानवौ वरदर्पितौ
भगवत्या वरो दत्तस्तया सोऽपि च दुर्घटः । मरणं चेच्छया कामं दुःखितोऽपि न वाञ्छति
रोगग्रस्तोऽपि दीनोऽपि न मुमूर्षति कश्चन । कथं चेमौ मदोन्मत्तौ मर्तुकामौ भविष्यतः
नन्वद्य शरणं यामि विद्यां शक्तिं सुकामदाम् । विना तया न सिध्यन्ति कामाः सम्यक्प्रसन्नया
एवं सञ्चिन्त्यमानस्तु गगने संस्थितां शिवाम् । अपश्यद्भगवान्विष्णुर्योगनिद्रां मनोहराम्
कृताज्जलिरमेयात्मा तां च तुष्टाव योगवित् । विनाशार्थं तयोस्तत्र वरदां भुवनेश्वरीम्
विष्णुरुवाच नमो देवि महामाये सृष्टिसंहारकारिणि । अनादिनिधने चण्डि भुक्तिमुक्तिप्रदे शिवे
न ते रूपं विजानामि सगुणं निर्गुणं तथा । चरित्राणि कुतो देवि संख्यातीतानि यानि ते
अनुभूतो मया तेऽद्य प्रभावश्चातिदुर्घटः । यदहं निद्रया लीनः सञ्जातोऽस्मि विचेतनः
ब्रह्मणा चातियत्नेन बोधितोऽपि पुनः पुनः । न प्रबुद्धः सर्वथाहं सङ्कोचितषडिन्द्रियः
अचेतनत्वं सम्प्राप्तः प्रभावात्तव चाम्बिके । त्वया मुक्तः प्रबुद्धोऽहं युद्धं च बहुधा कृतम्
श्रान्तोऽहं न च तौ श्रान्तौ त्वया दत्तवरौ वरौ । ब्रह्माणं हन्तुमायातौ दानवौ मदगर्वितौ
आहूतौ च मया कामं द्वन्द्वयुद्धाय मानदे । कृतं युद्धं महाघोरं मया ताभ्यां महार्णवे
मरणे वरदानं ते ततो ज्ञातं महाद्भुतम् । ज्ञात्वाहं शरणं प्राप्तस्त्वामद्य शरणप्रदाम्
साहाय्यं कुरु मे मातः खिन्नोऽहं युद्धकर्मणा । दृप्तौ तौ वरदानेन तव देवार्तिनाशने
हन्तुं मामुद्यतौ पापौ किं करोमि क्व यामि च । इत्युक्ता सा तदा देवी स्मितपूर्वमुवाच ह
प्रणमन्तं जगन्नाथं वासुदेवं सनातनम् । देवदेव हरे विष्णो कुरु युद्धं पुनः स्वयम्
वञ्चयित्वा त्विमौ शूरौ हन्तव्यौ च विमोहितौ । मोहयिष्याम्यहं नूनं दानवौ वक्रया दृशा
जहि नारायणाशु त्वं मम मायाविमोहितौ । सूत उवाच तच्छ्रुत्वा वचनं विष्णुस्तस्याः प्रीतिरसान्वितम्
संग्रामस्थलमासाद्य तस्थौ तत्र महार्णवे । तदायातौ च तौ वीरौ युद्धकामौ महाबलौ
वीक्ष्य विष्णुं स्थितं तत्र हर्षयुक्तौ बभूवतुः । तिष्ठ तिष्ठ महाकाम कुरु युद्धं चतुर्भुज
दैवाधीनौ विदित्वाद्य नूनं जयपराजयौ । सबलो जयमाप्नोति दैवाज्जयति दुर्बलः