त्वया पूर्वं बलिर्बद्धः शक्रो देवाधिपः कृतः । वामनं वपुरास्थाय क्रान्तं त्रिभुवनं पदैः
अमृतं त्वाहृतं विष्णो दैत्याश्च विनिपातिताः । त्वं प्रभुः सर्वदेवानां सर्वापद्विनिवारणे
विष्णुरुवाच न भेतव्यं सुरवरा वेद्म्युपायं सुसम्मतम् । तद्वधाय प्रवक्ष्यामि येन सौख्यं भविष्यति
अवश्यं करणीयं मे भवतां हितमात्मना । बुद्ध्या बलेन चार्थेन येन केनच्छलेन वा
उपायाः खलु चत्वारः कथितास्तत्त्वदर्शिभिः । सामादयः सुहृत्स्वेव दुर्हृदेषु विशेषतः
ब्रह्मणास्य वरो दत्तस्तपसाऽऽराधितेन च । दुर्जयत्वं च सम्प्राप्तं वरदानप्रभावतः
अजेयः सर्वभूतानां त्वष्ट्रा समुपपादितः । ततो बलेन वृद्धिं स प्राप्तः परपुरञ्जयः
दुःसाध्योऽसौ सुराः शत्रुर्विना सामप्रतारणम् । प्रलोभ्य वशमानेयो हन्तव्यस्तु ततः परम्
गच्छध्वं सर्वगन्धर्वा यत्रास्ति बलवत्तरः । साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ
सङ्गम्य शपथात्कृत्वा विश्वास्य समयेन हि । मित्रत्वं च समाधाय हन्तव्यः प्रबलो रिपुः
अदृश्यः सम्प्रवेक्ष्यामि वज्रमस्य वरायुधम् । साहाय्यं च करिष्यामि शक्रस्याहं सुरोत्तमाः
समयं च प्रतीक्षध्वं सर्वथैवायुषः क्षये । मरणं विबुधास्तस्य नान्यथा सम्भविष्यति
गच्छध्वमृषिभिः सार्धं गन्धर्वाः कपटावृताः । इन्द्रेण सह मित्रत्वं कुरुध्वं वाक्यदानतः
यथा स याति विश्वासं तथा कार्यं प्रतारणम् । गुप्तोऽहं सम्प्रवेक्ष्यामि पविं सञ्छादितं दृढम्
विश्वस्तं मघवा शत्रुं हनिष्यति न चान्यथा । विश्वासस्य कृते पापं कृत्वा शक्रस्तु पृष्ठतः
मत्सहायोऽथ वज्रेण शातयिष्यति पापिनम् । न दोषोऽत्र शठे शत्रौ शाठ्यमेव प्रकुर्वतः
नान्यथा बलवान्वध्यः शूरधर्मेण जायते । वामनं रूपमाधाय मयायं वञ्चितो बलिः
कृत्वा च मोहिनीवेषं दैत्याः सर्वेऽपिवञ्चिताः । भवन्तः सहिताः सर्वे देवीं भगवतीं शिवाम्
गच्छध्वं शरणं भावैः स्तोत्रमन्त्रैः सुरोत्तमाः । साहाय्यं सा योगमाया भवतां संविधास्यति
वन्दामहे सदा देवीं सात्त्विकीं प्रकृतिं पराम् । सिद्धिदां कामदां कामां दुरापामकृतात्मभिः
इन्द्रोऽपि तां समाराध्य हनिष्यति रिपुं रणे । मोहिनी सा महामाया मोहयिष्यति दानवम्
मोहितो मायया वृत्रः सुखसाध्यो भविष्यति । प्रसन्नायां पराम्बायां सर्वं साध्यं भविष्यति
नोचेन्मनोरथावाप्तिर्न कस्यापि भविष्यति । अन्तर्यामिस्वरूपा सा सर्वकारणकारणा
तस्मात्तां विश्वजननीं प्रकृतिं परमादृताः । भजध्वं सात्त्विकैर्भावैः शत्रुनाशाय सत्तमाः
पुरा मयापि संग्रामं कृत्वा परमदारुणम् । पञ्चवर्षसहस्राणि निहतौ मधुकैटभौ
स्तुता मया तदात्यर्थं प्रसन्ना प्रकृतिः परा । मोहितौ तौ तदा दैत्यौ छलेन च मया हतौ
विप्रलब्धौ महाबाहू दानवौ मदगर्वितौ । तथा कुरुध्वं प्रकृतेर्भजनं भावसंयुताः
सर्वथा कार्यसिद्धिं सा करिष्यति सुरोत्तमाः । एवं ते दत्तमतयो विष्णुना प्रभविष्णुना
जग्मुस्ते मेरुशिखरं मन्दारद्रुममण्डितम् । एकान्ते संस्थिता देवाः कृत्वा ध्यानं जपं तपः
तुष्टुवुर्जगतां धात्रीं सृष्टिसंहारकारिणीम् । भक्तकामदुघामम्बां संसारक्लेशनाशिनीम्