असृजन्त महासत्त्वां जृम्भिकां रिपुनाशिनीम् । ततो विजृम्भमाणः स व्यावृतास्यो बभूव ह
विजृम्भमाणस्य ततो वृत्रस्यास्यादवापतत् । स्वान्यङ्गान्यपि संक्षिप्य निष्क्रान्तो बलसूदनः
ततः प्रभृति लोकेषु जृम्भिका प्राणिसंस्थिता । जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिर्गतम्
ततः प्रववृते युद्धं तयोर्लोकभयप्रदम् । वर्षाणामयुतं यावद्दारुणं लोमहर्षणम्
एकतश्च सुराः सर्वे युद्धाय समुपस्थिताः । एकतो बलवांस्त्वाष्ट्रः संग्रामे समवर्तत
यदा व्यवर्धत रणे वृत्रो वरमदावृतः । पराजितस्तदा शक्रस्तेजसा तस्य धर्षितः
विव्यथे मघवा युद्धे ततः प्राप्य पराजयम् । विषादमगमन्देवा दृष्ट्वा शक्रं पराजितम्
जग्मुस्त्यक्त्वा रणं सर्वे देवा इन्द्रपुरोगमाः । गृहीतं देवसदनं वृत्रेणागत्य रंहसा
देवोद्यानानिसर्वाणि भुङ्क्तेऽसौ दानवो बलात् । ऐरावतोऽपि दैत्येन गृहीतोऽसौ गजोत्तमः
विमानानि च सर्वाणि गृहीतानि विशाम्पते । उच्चैःश्रवा हयवरो जातस्तस्य वशे तदा
कामधेनुः पारिजातो गणश्चाप्सरसां तथा । गृहीतं रत्नमात्रं तु तेन त्वष्ट्टसुतेन ह
स्थानभ्रष्टाः सुराः सर्वे गिरिदुर्गेषु संस्थिताः । दुःखमापुः परिभ्रष्टा यज्ञभागात्सुरालयात्
वृत्रः सुरपदं प्राप्य बभूव मदगर्वितः । त्वष्टातीव सुखं प्राप्य मुमोद सुतसंयुतः
अमन्त्रयन्हितं देवा मुनिभिः सह भारत । किं कर्तव्यमिति प्राप्ते विचिन्त्य भयमोहिताः
जग्मुः कैलासमचलं सुराः शक्रसमन्विताः । महादेवं प्रणम्योचुः प्रह्वाः प्राञ्जलयो भृशम्
देवदेव महादेव कृपासिन्धो महेश्वर । रक्षास्मान्भयभीतांस्तु वृत्रेणातिपराजितान्
गृहीतं देवसदनं तेन देव बलीयसा । किं कर्तव्यमतः शम्भो ब्रूहि सत्यं शिवाद्य नः
किं कुर्मः क्व च गच्छामः स्थानभ्रष्टा महेश्वर । दुःखस्य नाधिगच्छामो विनाशोपायमीश्वर
साहाय्यं कुरु भूतेश व्यथिताः स्म कृपानिधे । वृत्रं जहि मदोत्सिक्तं वरदानबलाद्विभो
शिव उवाच ब्रह्माणं पुरतः कृत्वा वयं सर्वे हरेः क्षयम् । गत्वा समेत्य तं विष्णुं चिन्तयामो वधोद्यमम्
स शक्तश्च छलज्ञश्च बलवान्बुद्धिमत्तरः । शरण्यश्च दयाब्धिश्च वासुदेवो जनार्दनः
विना तं देवदेवेशं नार्थसिद्धिर्भविष्यति । तस्मात्तत्र च गन्तव्यं सर्वकार्यार्थसिद्धये
व्यास उवाच इति सञ्चिन्त्य ते सर्वे ब्रह्मा शक्रः सशङ्करः । जग्मुर्विष्णोः क्षयं देवाः शरण्यं भक्तवत्सलम्
गत्वा विष्णुपदं देवास्तुष्टुवुः परमेश्वरम् । हरिं पुरुषसूक्तेन वेदोक्तेन जगद्गुरुम्
प्रत्यक्षोऽभूज्जगन्नाथस्तेषां स कमलापतिः । सम्मान्य च सुरान्सर्वानित्युवाच पुरःस्थितः
किमागताः स्म लोकेशा हरब्रह्मसमन्विताः । कारणं कथयध्वं वः सर्वेषां सुरसत्तमाः
व्यास उवाच इति श्रुत्वा हरेर्वाक्यं नोचुर्देवा रमापतिम् । चिन्ताविष्टाः स्थिताः प्रायः सर्वेप्राञ्जलयस्तथा
देवीसमाराधनाय देवकृतस्तुतिवर्णनम् व्यास उवाच तथा चिन्तातुरान्वीक्ष्य सर्वान्मर्वार्थतत्त्ववित् । प्राह प्रेमभरोद्भ्रान्तान्माधवो मेदिनीपते
विष्णुरुवाच किं मौनमाश्रिता यूयं ब्रुवन्तु कारणं सुराः । सदसद्वापि यच्छ्रुत्वा यतिष्ये तन्निवारणे
देवा ऊचुः किमज्ञातं तव विभो त्रिषु लोकेषु वर्तते । सर्वं वेद भवान्कार्यं किं पृच्छसि पुनः पुनः