पादौ प्रणम्य शिरसा प्रणयाद्विधातु- र्बद्धाञ्जलिः पुरत एव समाससाद । प्रोवाच तं सुवरदं तपसा प्रसन्नं प्रेम्णातिगद्गदगिरा विनयेन नम्रः
प्राप्तं मया सकलदेवपदं प्रभोऽद्य यद्दर्शनं तव सुदुर्लभमाशु जातम् । वाञ्छास्ति नाथ मनसि प्रवणे दुरापा तां प्रब्रवीमि कमलासन वेत्सि भावम्
मृत्युश्च मा भवतु मे किल लोहकाष्ठ- शुष्कार्द्रवंशनिचयैरपरैश्च शस्त्रैः । वृद्धि प्रयातु मम वीर्यमतीव युद्धे यस्माद्भवामि सबलैरमरैरजेयः
व्यास उवाच इत्थं सम्प्रार्थितो ब्रह्मा तमाह प्रहसन्निव । उत्तिष्ठ गच्छ भद्रं ते वाञ्छितं सफलं सदा
न शुष्केण न चार्द्रेण न पाषाणेन दारुणा । भविष्यति च ते मृत्युरिति सत्यं ब्रवीम्यहम्
इति दत्त्वा वरं ब्रह्मा जगाम भुवनं परम् । वृत्रस्तु तं वरं लब्धा मुदितः स्वगृहं ययौ
शशंस पितुरग्रे तद्वरदानं महामतिः । त्वष्टा तु मुदितः प्राप्तं पुत्रं प्राप्तवरं तदा
स्वस्ति तेऽस्तु महाभाग जहि शक्रं रिपुं मम । हत्वागच्छ त्रिशिरसो हन्तारं पापसंयुतम्
भव त्वं त्रिदशाधीशः सम्प्राप्य विजयं रणे । ममाधिं छिन्धि विपुलं पुत्रनाशसमुद्भवम्
जीवतो वाक्यकरणात्क्षयाहे भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता
तस्मात्पुत्र ममात्यर्थं दुःखं नाशितुमर्हसि । त्रिशिरा मम चित्तात्तु नापसर्पति कर्हिचित्
सुशीलः सत्यवादी च तापसो वेदवित्तमः । अपराधं विना तेन निहतः पापबुद्धिना
व्यास उवाच इति तस्य वचः श्रुत्वा वृत्रः परमदुर्जयः । रथमारुह्य तरसा निर्जगाम पितुर्गृहात्
रणदुन्दुभिनिर्घोषं शङ्खनादं महाबलम् । कारयित्वा प्रयाणं स चकार मदगर्वितः
निर्ययौ नयसंयुक्तः सेवकानिति संवदन् । हत्वा शक्रं ग्रहीष्यामि सुरराज्यमकण्टकम्
इत्युक्त्वा निर्जगामाशु स्वसैन्यपरिवारितः । महता सैन्यनादेन भीषयन्नमरावतीम्
तमागच्छन्तमाज्ञाय तुराषाडपि सत्वरः । सेनोद्योगं भयत्रस्तः कारयामास भारत
सर्वानाहूय तरसा लोकपालानरिन्दमः । युद्धार्थं प्रेरयन्सर्वान्व्यरोचत महाद्युतिः
गृध्रन्व्यूहं ततः कृत्वा संस्थितः पाकशासनः । तत्राजगाम वेगात्तु वृत्रः परबलार्दनः
देवदानवयोस्तावत्संग्रामस्तुमुलोऽभवत् । वृत्रवासवयोः संख्ये मनसा विजयैषिणोः
एवं परस्परं युद्धे सन्दीप्ते भयदे भृशम् । आकूतं देवताः प्रापुर्दैत्याश्च परमां मुदम्
तोमरैर्भिन्दिपालैश्च खड्गैः परशुपट्टिशैः । जघ्नुः परस्परं देवदैत्या स्वस्ववरायुधैः
एवं युद्धे वर्तमाने दारुणे लोमहर्षणे । शक्रं जग्राह सहसा वृत्रः क्रोधसमन्वितः
अपावृत्य मुखे क्षिप्त्वा स्थितो वृत्रः शतक्रतुम् । मुदितोऽभून्महाराज पूर्ववैरमनुस्मरन्
शक्रे ग्रस्तेऽथ वृत्रेण संभ्रान्ता निर्जरास्तदा । चुक्रुशः परमार्तास्ते हा शक्रेति मुहुर्मुहुः
अपावृतं मुखे शक्रं ज्ञात्वा सर्वे दिवौकसः । बृहस्पतिं प्रणम्योचुर्दीना व्यथितचेतसः
किं कर्तव्यं द्विजश्रेष्ठ त्वमस्माकं गुरुः परः । शक्रो ग्रस्तस्तु वृत्रेण रक्षितो देवतान्तरैः
विना शक्रेण किं कुर्मः सर्वे हीनपराक्रमाः । अभिचारं कुरु विभो सत्वरः शक्रमुक्तये
बृहस्पतिरुवाच किं कर्तव्यं सुराः क्षिप्तो मुखमध्येऽस्ति वासवः । वृत्रेणोत्सादितो जीवन्नस्ति कोष्ठान्तरे रिपोः
व्यास उवाच देवाश्चिन्तातुराः सर्वे तुरासाहं तथाकृतम् । दृष्ट्वा विमृश्य तरसा चक्रुर्यत्नं विमुक्तये