गन्धमादनमासाद्य पुण्यां देवधुनीं शुभाम् । स्नात्वा कुशासनं कृत्वा संस्थितश्च स्थिरासनः
त्यक्त्वान्नं वारिपानं च योगाभ्यासपरायणः । ध्यायन्विश्वसृजं चित्ते सोपविष्टः स्थिरासने
मघवा तं तपस्यन्तं ज्ञात्वा चिन्तातुरो ह्यभूत् । गन्धर्वान्प्रेषयामास विघ्नार्थं पाकशासनः
यक्षांश्च पन्नगान्सर्पान्किन्नरानमितौजसः । विद्याधरानप्सरसो देवदूताननेकशः
उपायास्तैः कृताः सम्यक् तपोविघ्नाय मायिभिः । न चचाल ततो ध्यानात्त्वाष्ट्रः परमतापसः
ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् व्यास उवाच निर्गतास्ते परावृत्तास्तपोविघ्नकराः सुराः । निराशाः कार्यसंसिद्ध्यै तं दृष्ट्वा दृढचेतसम्
जाते वर्षशते पूर्णे ब्रह्मा लोकपितामहः । तत्राजगाम तरसा हंसारूढश्चतुर्मुखः
आगत्य तमुवाचेदं त्वष्ट्टपुत्र सुखी भव । त्यक्त्वा ध्यानं वरं ब्रूहि ददामि तव वाञ्छितम्
तपसा तेऽद्य तुष्टोऽस्मि त्वां दृष्ट्वा चातिकर्शितम् । वरं वरय भद्रं ते मनोऽभिलषितं तव
व्यास उवाच वृत्रस्तदातिविशदां पुरतो निशम्य वाचं सुधासमरसां जगदेककर्तुः । सन्त्यज्य योगकलनां सहसोदतिष्ठ- त्सञ्जातहर्षनयनाश्रुकलाकलापः
पादौ प्रणम्य शिरसा प्रणयाद्विधातु- र्बद्धाञ्जलिः पुरत एव समाससाद । प्रोवाच तं सुवरदं तपसा प्रसन्नं प्रेम्णातिगद्गदगिरा विनयेन नम्रः
प्राप्तं मया सकलदेवपदं प्रभोऽद्य यद्दर्शनं तव सुदुर्लभमाशु जातम् । वाञ्छास्ति नाथ मनसि प्रवणे दुरापा तां प्रब्रवीमि कमलासन वेत्सि भावम्
मृत्युश्च मा भवतु मे किल लोहकाष्ठ- शुष्कार्द्रवंशनिचयैरपरैश्च शस्त्रैः । वृद्धि प्रयातु मम वीर्यमतीव युद्धे यस्माद्भवामि सबलैरमरैरजेयः
व्यास उवाच इत्थं सम्प्रार्थितो ब्रह्मा तमाह प्रहसन्निव । उत्तिष्ठ गच्छ भद्रं ते वाञ्छितं सफलं सदा
न शुष्केण न चार्द्रेण न पाषाणेन दारुणा । भविष्यति च ते मृत्युरिति सत्यं ब्रवीम्यहम्
इति दत्त्वा वरं ब्रह्मा जगाम भुवनं परम् । वृत्रस्तु तं वरं लब्धा मुदितः स्वगृहं ययौ
शशंस पितुरग्रे तद्वरदानं महामतिः । त्वष्टा तु मुदितः प्राप्तं पुत्रं प्राप्तवरं तदा
स्वस्ति तेऽस्तु महाभाग जहि शक्रं रिपुं मम । हत्वागच्छ त्रिशिरसो हन्तारं पापसंयुतम्
भव त्वं त्रिदशाधीशः सम्प्राप्य विजयं रणे । ममाधिं छिन्धि विपुलं पुत्रनाशसमुद्भवम्
जीवतो वाक्यकरणात्क्षयाहे भूरिभोजनात् । गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता
तस्मात्पुत्र ममात्यर्थं दुःखं नाशितुमर्हसि । त्रिशिरा मम चित्तात्तु नापसर्पति कर्हिचित्
सुशीलः सत्यवादी च तापसो वेदवित्तमः । अपराधं विना तेन निहतः पापबुद्धिना
व्यास उवाच इति तस्य वचः श्रुत्वा वृत्रः परमदुर्जयः । रथमारुह्य तरसा निर्जगाम पितुर्गृहात्
रणदुन्दुभिनिर्घोषं शङ्खनादं महाबलम् । कारयित्वा प्रयाणं स चकार मदगर्वितः
निर्ययौ नयसंयुक्तः सेवकानिति संवदन् । हत्वा शक्रं ग्रहीष्यामि सुरराज्यमकण्टकम्
इत्युक्त्वा निर्जगामाशु स्वसैन्यपरिवारितः । महता सैन्यनादेन भीषयन्नमरावतीम्
तमागच्छन्तमाज्ञाय तुराषाडपि सत्वरः । सेनोद्योगं भयत्रस्तः कारयामास भारत
सर्वानाहूय तरसा लोकपालानरिन्दमः । युद्धार्थं प्रेरयन्सर्वान्व्यरोचत महाद्युतिः
गृध्रन्व्यूहं ततः कृत्वा संस्थितः पाकशासनः । तत्राजगाम वेगात्तु वृत्रः परबलार्दनः
देवदानवयोस्तावत्संग्रामस्तुमुलोऽभवत् । वृत्रवासवयोः संख्ये मनसा विजयैषिणोः