बाहुयुद्धं तयोरासीन्मल्लयोरिव मत्तयोः । श्रान्ते मधौ कैटभस्तु संग्राममकरोत्तदा
पुनर्मधुः कैटभश्च युयुधाते पुनः पुनः । बाहुयुद्धेन रागान्धौ विष्णुना प्रभविष्णुना
प्रेक्षकस्तु तदा ब्रह्मा देवी चैवान्तरिक्षगा । न मम्लतुस्तदा तौ तु विष्णुस्तु ग्लानिमाप्तवान्
पञ्चवर्षसहस्राणि यदा जातानि युद्ध्यता । हरिणा चिन्तितं तत्र कारणं मरणे तयोः
पञ्चवर्षसहस्राणि मया युद्धं कृतं किल । न श्रान्तौ दानवौ घोरौ श्रान्तोऽहं चैतदद्भुतम्
क्व गतं मे बलं शौर्यं कस्माच्चेमावनामयौ । किमत्र कारणं चिन्त्यं विचार्य मनसा त्विह
इति चिन्तापरं दृष्ट्वा हरिं हर्षपरावुभौ । ऊचतुस्तौ मदोन्मत्तौ मेघमम्भीरनिःस्वनौ
तव नोचेद्बलं विष्णो यदि श्रान्तोऽसि युद्धतः । ब्रूहि दासोऽस्मि वां नूनं कृत्वा शिरसि चाञ्जलिम्
न चेद्युद्धं कुरुष्वाद्य समर्थोऽसि महामते । हत्वा त्वां निहनिष्यावः पुरुषं च चतुर्मुखम्
सूत उवाच श्रुत्वा तद्भाषितं विष्णुस्तयोस्तस्मिन्महोदधौ । उवाच वचनं श्लक्ष्णं सामपूर्वं महामनाः
हरिरुवाच श्रान्ते भीते त्यक्तशस्त्रे पतिते बालके तथा । प्रहरन्ति न वीरास्ते धर्म एष सनातनः
पञ्चवर्षसहस्राणि कृतं युद्धं मया त्विह । एकोऽहं भ्रातरौ वां च बलिनौ सदृशौ तथा
कृतं विश्रमणं मध्ये युवाभ्यां च पुनः पुनः । तथा विश्रमणं कृत्वा युध्येऽहं नात्र संशयः
तिष्ठतं हि युवां तावद्बलवन्तौ मदोत्कटौ । विश्रम्याहं करिष्यामि युद्धं वा न्यायमार्गतः
सूत उवाच इति श्रुत्वा वचस्तस्य विश्रब्धौ दानवोत्तमौ । संस्थितौ दूरतस्तत्र संग्रामे कृतनिश्चयौ
अतिदूरे च तौ दृष्ट्वा वासुदेवश्चतुर्भुजः । दध्यौ च मनसा तत्र कारणं मरणे तयोः
चिन्तनाज्ज्ञानमुत्पन्नं देवीदत्तवरावुभौ । कामं वाञ्छितमरणौ न मम्लतुरतस्त्विमौ
वृथा मया कृतं युद्धं श्रमोऽयं मे वृथा गतः । करोमि च कथं युद्धमेवं ज्ञात्वा विनिश्चयम्
अकृते च तथा युद्धे कथमेतौ गमिष्यतः । विनाशं दुःखदौ नित्यं दानवौ वरदर्पितौ
भगवत्या वरो दत्तस्तया सोऽपि च दुर्घटः । मरणं चेच्छया कामं दुःखितोऽपि न वाञ्छति
रोगग्रस्तोऽपि दीनोऽपि न मुमूर्षति कश्चन । कथं चेमौ मदोन्मत्तौ मर्तुकामौ भविष्यतः
नन्वद्य शरणं यामि विद्यां शक्तिं सुकामदाम् । विना तया न सिध्यन्ति कामाः सम्यक्प्रसन्नया
एवं सञ्चिन्त्यमानस्तु गगने संस्थितां शिवाम् । अपश्यद्भगवान्विष्णुर्योगनिद्रां मनोहराम्
कृताज्जलिरमेयात्मा तां च तुष्टाव योगवित् । विनाशार्थं तयोस्तत्र वरदां भुवनेश्वरीम्
विष्णुरुवाच नमो देवि महामाये सृष्टिसंहारकारिणि । अनादिनिधने चण्डि भुक्तिमुक्तिप्रदे शिवे
न ते रूपं विजानामि सगुणं निर्गुणं तथा । चरित्राणि कुतो देवि संख्यातीतानि यानि ते
अनुभूतो मया तेऽद्य प्रभावश्चातिदुर्घटः । यदहं निद्रया लीनः सञ्जातोऽस्मि विचेतनः
ब्रह्मणा चातियत्नेन बोधितोऽपि पुनः पुनः । न प्रबुद्धः सर्वथाहं सङ्कोचितषडिन्द्रियः
अचेतनत्वं सम्प्राप्तः प्रभावात्तव चाम्बिके । त्वया मुक्तः प्रबुद्धोऽहं युद्धं च बहुधा कृतम्
श्रान्तोऽहं न च तौ श्रान्तौ त्वया दत्तवरौ वरौ । ब्रह्माणं हन्तुमायातौ दानवौ मदगर्वितौ