पर्वते देवतायुक्तो वाचस्पतिपुरःसरः । तत्राभूद्दारुणं युद्धं वृत्रवासवयोस्तदा
गदासिपरिघैः पाशैर्बाणैः शक्तिपरश्वधैः । मानुषेण प्रमाणेन संग्रामः शरदां शतम्
बभूव भयदो नॄणामृषीणां भावितात्मनाम् । वरुणः प्रथमं भग्नस्ततो वायुगणः किल
यमो विभावसुः शक्रः सर्वे ते निर्गता रणात् । पलायनपरान् दृष्ट्वा देवानिन्द्रपुरोगमान्
वृत्रोऽपि पितरं प्रागादाश्रमस्थं मुदान्वितम् । प्रणम्य प्राह त्वष्टारं पितः कार्यं मया कृतम्
देवा विनिर्जिताः सर्वे सेन्द्राः समरसंस्थिताः । विद्रुतास्ते गताः स्थानं यथा सिंहान्मृगा गजाः
इन्द्रः पदातिरगमन्मयानीतो गजोत्तमः । ऐरावतोऽयं भगवन् गृहाण द्विरदोत्तमम्
न हतास्ते मया यस्मादयुक्तं भीतमारणम् । आज्ञापय पुनस्तात किं करोमि तवेप्सितम्
निर्जरा निर्गताः सर्वे भयभीता श्रमातुराः । इन्द्रोऽप्यैरावतं त्यक्त्वा भयभीतः पलायितः
व्यास उवाच इति पुत्रवचः श्रुत्वा त्वष्टा प्राह मुदान्वितः । पुत्रवानद्य जातोऽस्मि सफलं मम जीवितम्
त्वयाहं पावितः पुत्र गतो मे मानसो ज्वरः । निश्चलं मे मनो जातं दृष्ट्वा वीर्यं तवाद्भुतम्
शृणु वक्ष्याम्यहं पुत्र हितं तेऽद्य निशामय । तपः कुरु महाभाग सावधानः स्थिरासनः
विश्वासो नैव कर्तव्यः केषाञ्चित्पाकशासनः । शत्रुस्ते छलकर्तास्ति नानाभेदविशारदः
तपसा प्राप्यते लक्ष्मीस्तपसा राज्यमुत्तमम् । तपसा बलवृद्धिः स्यात्संग्रामे विजयस्तथा
आराध्य द्रुहिणं देवं लब्ध्वा वरमनुत्तमम् । जहि शक्रं दुराचारं ब्रह्महत्यासमावृतम्
सावधानः स्थिरो भूत्वा दातारं भज शङ्करम् । वाञ्छितं स वरं दद्यात्सन्तुष्टश्चतुराननः
तोषयित्वा विश्वयोनिं ब्रह्माणममितौजसम् । अविनाशित्वमासाद्य जहि शक्रं कृतागसम्
वैरं मनसि मे पुत्र वर्तते सुतघातजम् । न शान्तिमनुगच्छामि न स्वपामि सुखेन ह
तापसो मे हतः पुत्रो निरागाः पाप्मना यतः । न विन्दामि सुखं वृत्र त्वं मामुद्धर दुःखितम्
व्यास उवाच तदाकर्ण्य पितुर्वाक्यं वृत्रः क्रोधयुतस्तदा । आज्ञामादाय च पितुर्जगाम तपसे मुदा
गन्धमादनमासाद्य पुण्यां देवधुनीं शुभाम् । स्नात्वा कुशासनं कृत्वा संस्थितश्च स्थिरासनः
त्यक्त्वान्नं वारिपानं च योगाभ्यासपरायणः । ध्यायन्विश्वसृजं चित्ते सोपविष्टः स्थिरासने
मघवा तं तपस्यन्तं ज्ञात्वा चिन्तातुरो ह्यभूत् । गन्धर्वान्प्रेषयामास विघ्नार्थं पाकशासनः
यक्षांश्च पन्नगान्सर्पान्किन्नरानमितौजसः । विद्याधरानप्सरसो देवदूताननेकशः
उपायास्तैः कृताः सम्यक् तपोविघ्नाय मायिभिः । न चचाल ततो ध्यानात्त्वाष्ट्रः परमतापसः
ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम् व्यास उवाच निर्गतास्ते परावृत्तास्तपोविघ्नकराः सुराः । निराशाः कार्यसंसिद्ध्यै तं दृष्ट्वा दृढचेतसम्
जाते वर्षशते पूर्णे ब्रह्मा लोकपितामहः । तत्राजगाम तरसा हंसारूढश्चतुर्मुखः
आगत्य तमुवाचेदं त्वष्ट्टपुत्र सुखी भव । त्यक्त्वा ध्यानं वरं ब्रूहि ददामि तव वाञ्छितम्
तपसा तेऽद्य तुष्टोऽस्मि त्वां दृष्ट्वा चातिकर्शितम् । वरं वरय भद्रं ते मनोऽभिलषितं तव
व्यास उवाच वृत्रस्तदातिविशदां पुरतो निशम्य वाचं सुधासमरसां जगदेककर्तुः । सन्त्यज्य योगकलनां सहसोदतिष्ठ- त्सञ्जातहर्षनयनाश्रुकलाकलापः