यत्नं कुरु महाभाग शीघ्रमायाति साम्प्रतम् । मेरुमन्दरसंकाशो घोरशब्दोऽतिदारुणः
एतस्मिन्नन्तरे तत्र भीता देवगणा भृशम् । आगत्योचुः सुरपतिं शृण्वन्तं दूतभाषितम्
गणाः ऊचुः मघवन् दुर्निमित्तानि भवन्ति त्रिदशालये । बहूनि भयशंसीनि पक्षिणां विरुतानि च
काकगृध्रास्तथा श्येनाः कङ्काद्या दारुणाः खगाः । रुदन्ति विकृतैः शब्दैरुत्कारैर्भवनोपरि
चीचीकूचीति निनदान् कुर्वन्ति विहगा भृशम् । वाहनानां च नेत्रेभ्यो जलधाराः पतन्त्यधः
श्रूयतेऽतिमहाञ्छब्दो रुदतीनां निशासु च । राक्षसीनां महाभाग भवनोपरि दारुणः
प्रपतन्ति ध्वजास्तूर्णं विना वातेन मानद । प्रभवन्ति महोत्पाता दिवि भूम्यन्तरिक्षजाः
कृष्णाम्बरधरा नार्यो भ्रमन्ति च गृहे गृहे । यान्तु यान्तु गृहात्तूर्णं कुर्वन्त्यो विकृताननाः
रात्रौ स्वप्नेषु कान्तानां सुप्तानां निजमन्दिरे । केशाँल्लुनन्ति राक्षस्यो भीषयन्त्यो भृशातुराः
एवंविधानि देवेश भूकम्पोल्कादयस्तथा । गोमायवो रुदन्ति स्म निशायां भवनाङ्गणे
सरटानां च जालानि प्रभवन्ति गृहे गृहे । अङ्गप्रस्फुरणादीनि दुर्निमित्तानि सर्वशः
व्यास उवाच इति तेषां वचः श्रुत्वा चिन्तामाप सुरेश्वरः । बृहस्पतिं समाहूय पप्रच्छ च मनोगतम्
इन्द्र उवाच ब्रह्मन् किमुत घोराणि निमित्तानि भवन्ति वै । वाताश्च दारुणा वान्ति प्रपतन्त्युलकाः खतः
सर्वज्ञोऽसि महाभाग समर्थो विघ्ननाशने । बुद्धिमाञ्छास्त्रतत्त्वज्ञो देवतानां गुरुस्तथा
कुरु शान्तिं विधानज्ञ शत्रुक्षयविधायिनीम् । यथा मे न भवेद्दुःखं तथा कार्यं विधीयताम्
बृहस्पतिरुवाच किं करोमि सहस्राक्ष त्वयाद्य दुष्कृतं कृतम् । अनागसं मुनिं हत्वा किं फलं समुपार्जितम्
अत्युग्रं पुण्यपापानां फलं भवति सत्वरम् । विचार्य खलु कर्तव्यं कार्यं तद्भूतिमिच्छता
परोपतापनं कर्म न कर्तव्यं कदाचन । न सुखं विन्दते प्राणी परपीडापरायणः
मोहाल्लोभाद्ब्रह्महत्या कृता शक्र त्वयाधुना । तस्य पापस्य सहसा फलमेतदुपागतम्
अवध्यः सर्वदेवानां जातोऽसौ वृत्रसंज्ञकः । हन्तुं त्वां स समायाति दानवैर्बहुभिर्वृतः
आयुधानि च सर्वाणि वज्रतुल्यानि वासव । त्वष्ट्रा दत्तानि दिव्यानि गृहीत्वा समुपस्थितः
समागच्छति दुर्धर्षो रथारूढः प्रतापवान् । देवेन्द्र प्रलयं कुर्वन्नास्य मृत्युर्भविष्यति
कोलाहलस्तदा जातस्तथा ब्रुवति वाक्पतौ । गन्धर्वाः किन्नरा यक्षा मुनयश्च तपोधनाः
सदनानि विहायैवामराः सर्वे पलायिताः । तद्दृष्ट्वा महदाश्चर्यं शक्रश्चिन्तापरायणः
आज्ञापयामास तदा सेनोद्योगाय सेवकान् । आनयध्वं वसून् रुद्रानश्विनौ च दिवाकरान्
पूषणं च भगं वायुं कुबेरं वरुणं यमम् । विमानेषु समारुह्य सायुधाः सुरसत्तमाः
समागच्छन्तु तरसा शत्रुरायाति साम्प्रतम् । इत्याज्ञाप्य सुरपतिः समारुह्य गजोत्तमम्
बृहस्पतिं पुरोधाय निर्गतो निजमन्दिरात् । तथैव त्रिदशाः सर्वे स्वं स्वं वाहनमास्थिताः
युद्धाय कृतसंकल्पा निर्ययुः शस्त्रपाणयः । वृत्रोऽथ दानवैर्युक्तः सम्प्राप्तो मानसोत्तरम्
पर्वतं देवतावासं रम्यं पादपशोभितम् । इन्द्रोऽप्यागत्य संग्रामं चकार मानसोत्तरे