कुरु मे नामकं नाथ कार्यं कथय सुव्रत । चिन्तातुरोऽसि कस्मात्त्वं ब्रूहि मे शोककारणम्
नाशयाम्यद्य ते शोकमिति मे व्रतमाहितम् । तेन जातेन किं भूयः पिता भवति दुःखितः
पिबामि सागरं सद्यश्चूर्णयामि धराधरान् । उद्यन्तं वारयाम्यद्य तरणिं तिग्मतेजसम्
हन्मीन्द्रं ससुरं सद्यो यमं वा देवतान्तरम् । क्षिपामि सागरे सर्वान्समुत्पाट्य च मेदिनीम्
इत्याकर्ण्य वचस्तस्य त्वष्टा पुत्रस्य पेशलम् । प्रत्युवाचातिमुदितस्तं सुतं पर्वतोपमम्
वृजिनात्त्रातुमधुना यस्माच्छक्तोऽसि पुत्रक । तस्माद्वृत्र इति ख्यातं तव नाम भविष्यति
भ्राता तव महाभाग त्रिशिरा नाम तापसः । त्रीणि तस्य च शीर्षाणि ह्यभवन्वीर्यवन्ति च
वेदवेदाङ्गतत्त्वज्ञः सर्वविद्याविशारदः । संस्थितस्तपसि प्रायस्त्रिलोकीविस्मयप्रदे
शक्रेण तु हतः सोऽद्य वज्रघातेन साम्प्रतम् । विनापराधं सहसा छिन्नानि मस्तकानि च
तस्मात्त्वं पुरुषव्याघ्र जहि शक्रं कृतागसम् । ब्रह्महत्यायुतं पापं निस्त्रपं दुर्मतिं शठम्
इत्युक्त्वा च तदा त्वष्टा पुत्रशोकसमाकुलः । आयुधानि च दिव्यानि चकार विविधानि च
ददावस्मै सहस्राक्षवधाय प्रबलानि च । खड्गशूलगदाशक्तितोमरप्रमुखानि वै
शार्ङ्ग धनुस्तथा बाणं परिघं पट्टिशं तथा । चक्रं दिव्यं सहस्रारं सुदर्शनसमप्रभम्
तूणीरौ चाक्षयौ दिव्यौ कवचं चातिसुन्दरम् । रथं मेघप्रतीकाशं दृढं भारसहं जवम्
युद्धोपकरणं सर्वं कृत्वा पुत्राय पार्थिव । दत्त्वासौ प्रेरयामास त्वष्टा क्रोधसमन्वितः
ब्रह्मणः समाराधनाय त्वष्ट्रा वृत्रोपदेशवर्णनम् व्यास उवाच कृतस्वस्त्ययनो वृत्रो ब्राह्मणैर्वेदपारगैः । निर्जगाम रथारूढो हन्तुं शक्रं महाबलः
तदैव राक्षसाः क्रूराः पुरा देवपराजिताः । समाजग्मुश्च सेवार्थं वृत्रं ज्ञात्वा महाबलम्
इन्द्रदूतास्तु तं दृष्ट्वा युद्धाय तु समागतम् । वेगादागत्य वृत्तान्तं शशंसुस्तस्य चेष्टितम्
दूता ऊचुः स्वामिञ्छीघ्रमिहायाति वृत्रो नाम रिपुस्तव । बलवान्स्यन्दने रूढस्त्वष्ट्रा चोत्पादितः किल
अविचारेण नाशार्थं तव क्रोधान्वितेन वै । पुत्रघाताभितप्तेन दुःसहो राक्षसैर्युतः
यत्नं कुरु महाभाग शीघ्रमायाति साम्प्रतम् । मेरुमन्दरसंकाशो घोरशब्दोऽतिदारुणः
एतस्मिन्नन्तरे तत्र भीता देवगणा भृशम् । आगत्योचुः सुरपतिं शृण्वन्तं दूतभाषितम्
गणाः ऊचुः मघवन् दुर्निमित्तानि भवन्ति त्रिदशालये । बहूनि भयशंसीनि पक्षिणां विरुतानि च
काकगृध्रास्तथा श्येनाः कङ्काद्या दारुणाः खगाः । रुदन्ति विकृतैः शब्दैरुत्कारैर्भवनोपरि
चीचीकूचीति निनदान् कुर्वन्ति विहगा भृशम् । वाहनानां च नेत्रेभ्यो जलधाराः पतन्त्यधः
श्रूयतेऽतिमहाञ्छब्दो रुदतीनां निशासु च । राक्षसीनां महाभाग भवनोपरि दारुणः
प्रपतन्ति ध्वजास्तूर्णं विना वातेन मानद । प्रभवन्ति महोत्पाता दिवि भूम्यन्तरिक्षजाः
कृष्णाम्बरधरा नार्यो भ्रमन्ति च गृहे गृहे । यान्तु यान्तु गृहात्तूर्णं कुर्वन्त्यो विकृताननाः
रात्रौ स्वप्नेषु कान्तानां सुप्तानां निजमन्दिरे । केशाँल्लुनन्ति राक्षस्यो भीषयन्त्यो भृशातुराः
एवंविधानि देवेश भूकम्पोल्कादयस्तथा । गोमायवो रुदन्ति स्म निशायां भवनाङ्गणे