तं विनाहं कथं पापं करोमि वद मे विभो । इन्द्र उवाच मखेषु खलु भागं ते करिष्यामि सदैव हि
शिरः पशोस्तु ते भागं यज्ञे दास्यन्ति मानवाः । शुल्केनानेन छिन्धि त्वं शिरांस्यस्य कुरु प्रियम्
व्यास उवाच एतच्छ्रुत्वा महेन्द्रस्य वचस्तक्षा मुदान्वितः । कुठारेण शिरांस्यस्य चकर्त सुदृढेन हि
छिन्नानि त्रीणि शीर्षाणि पतितानि यदा भुवि । तेभ्यस्तु पक्षिणः क्षिप्रं विनिष्पेतुः सहस्रशः
कलविङ्कास्तित्तिरयस्तथैव च कपिञ्जलाः । पृथक्पृथग्विनिष्पेतुर्मुखतस्तरसा तदा
येन वेदानधीते स्म सोमं च पिबते तथा । तस्माद्वक्त्रात्किलोत्पेतुः सद्य एव कपिञ्जलाः
येन सर्वा दिशः कामं पिबन्निव निरीक्षते । तस्मात्तु तित्तिरास्तत्र निःसृतास्तिग्मतेजसः
यत्सुरापं तु तद्वक्त्रं तस्मात्तु चटकाः किल । विनिष्पेतुस्त्रिशिरस एवं ते विहगा नृप
एवंविनिःसृतान्दृष्ट्वा तेभ्यः शक्रस्तदाण्डजान् । मुमोद मनसा राजन् जगाम त्रिदिवं पुनः
गते शक्रे तु तक्षापि स्वगृहं तरसा ययौ । यज्ञभागं परं लब्ध्वा मुदमाप महीपते
इन्द्रोऽथ स्वगृहं गत्वा हत्वा शत्रुं महाबलम् । मेने कृतार्थमात्मानं ब्रह्महत्यामचिन्तयन्
तं श्रुत्वा निहतं त्वष्टा पुत्रं परमधार्मिकम् । चुकोपातीव मनसा वचनं चेदमब्रवीत्
अनागसं मुनिं यस्मात्पुत्रं निहतवान्मम । तस्मादुत्पादयिष्यामि तद्वधार्थं सुतं पुनः
सुराः पश्यन्तु मे वीर्यं तपसश्च बलं तथा । जानातु सर्वं पापात्मा स्वकृतस्य फलं महत्
इत्युक्त्वाग्निं जुहावाथ मन्त्रैराथर्वणोदितैः । पुत्रस्योत्पादनार्थाय त्वष्टा क्रोधसमाकुलः
कृते होमेऽष्टरात्रं तु सन्दीप्ताच्च विभावसोः । प्रादुर्बभूव तरसा पुरुषः पावकोपमः
तं दृष्ट्वाग्रे सुतं त्वष्टा तेजोबलसमन्वितम् । वेगात्प्रकटितं वह्नेर्दीप्यमानमिवानलम्
उवाच वचनं त्वष्टा सुतं वीक्ष्य पुरःस्थितम् । इन्द्रशत्रो विवर्धस्व प्रतापात्तपसो मम
इत्युक्ते वचने त्वष्ट्रा क्रोधप्रज्वलितेन च । सोऽवर्धत दिवं स्तब्ध्वा वैश्वानरसमद्युतिः
जातः स पर्वताकारः कालमृत्युसमः स्वराट् । किं करोमीति तं प्राह पितरं परमातुरम्
कुरु मे नामकं नाथ कार्यं कथय सुव्रत । चिन्तातुरोऽसि कस्मात्त्वं ब्रूहि मे शोककारणम्
नाशयाम्यद्य ते शोकमिति मे व्रतमाहितम् । तेन जातेन किं भूयः पिता भवति दुःखितः
पिबामि सागरं सद्यश्चूर्णयामि धराधरान् । उद्यन्तं वारयाम्यद्य तरणिं तिग्मतेजसम्
हन्मीन्द्रं ससुरं सद्यो यमं वा देवतान्तरम् । क्षिपामि सागरे सर्वान्समुत्पाट्य च मेदिनीम्
इत्याकर्ण्य वचस्तस्य त्वष्टा पुत्रस्य पेशलम् । प्रत्युवाचातिमुदितस्तं सुतं पर्वतोपमम्
वृजिनात्त्रातुमधुना यस्माच्छक्तोऽसि पुत्रक । तस्माद्वृत्र इति ख्यातं तव नाम भविष्यति
भ्राता तव महाभाग त्रिशिरा नाम तापसः । त्रीणि तस्य च शीर्षाणि ह्यभवन्वीर्यवन्ति च
वेदवेदाङ्गतत्त्वज्ञः सर्वविद्याविशारदः । संस्थितस्तपसि प्रायस्त्रिलोकीविस्मयप्रदे
शक्रेण तु हतः सोऽद्य वज्रघातेन साम्प्रतम् । विनापराधं सहसा छिन्नानि मस्तकानि च
तस्मात्त्वं पुरुषव्याघ्र जहि शक्रं कृतागसम् । ब्रह्महत्यायुतं पापं निस्त्रपं दुर्मतिं शठम्