विसृज्याप्सरसः शक्रश्चिन्तयामास मन्दधीः । तस्यैव च वधोपायं पापबुद्धिरसाम्प्रतम्
विसृज्य लोकलज्जां स तथा पापभयं भृशम् । चकार पापबुद्धिं तु तद्वधाय महीपते
त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् व्यास उवाच अथ स लोभमुपेत्य सुराधिपः समधिगम्य गजासनसंस्थितः । त्रिशिरसं प्रति दुष्टमतिस्तदा मुनिमपश्यदमेयपराक्रमम्
तमभिवीक्ष्य दृढासनसंस्थितं जितगिरं सुसमाधिवशं गतम् । रविविभावसुसन्निभमोजसा सुरपतिः परमापदमभ्यगात्
कथमसौ विनिहन्तुमहो मया मुनिरपापमतिः किल सम्मतः । रिपुरयं सुसमिद्धतपोबलः कथमुपेक्ष्य इहासनकामुकः
इति विचिन्त्य पविं परमायुधं प्रति मुमोच मुनिं तपसि स्थितम् । शशिदिवाकरसन्निभमाशुगं त्रिशिरसं सुरसङ्घपतिः स्वयम्
तदभिघातहतः स धरातले किल पपात ममार च तापसः । शिखरिणः शिखरं कुलिशार्दितं निपतितं भुवि चाद्भुतदर्शनम्
तं निहत्य मुदमाप सुरेश- श्चुक्रुशुश्च मुनयस्तु संस्थिताः । हा हतेति भृशमार्तनिःस्वनाः किं कृतं शतमखेन पापिना
विनापराधं तपसां निधिर्हतः शचीपतिः पापमतिर्दुरात्मा । फलं किलायं तरसा कृतस्य प्राप्नोतु पापी हननोद्भवस्य
तं निहत्य तरसा सुरराजो निर्जगाम निजमन्दिरमाशु । स हतोऽपि विरराज महात्मा जीवमान इव तेजसां निधिः
तं दृष्ट्वा पतितं भूमौ जीवन्तमिव वृत्रहा । चिन्तामापातिखिन्नाङ्गः किं वा जीवेदयं पुनः
विमृश्य मनसातीव तक्षाणं पुरतः स्थितम् । मघवा वीक्ष्य तं प्राह स्वकार्यसदृशं वचः
तक्षंश्छिन्धि शिरांस्यस्य कुरुष्व वचनं मम । मा जीवतु महातेजा भाति जीवन्निव स्वयम्
इत्याकर्ण्य वचस्तस्य तक्षोवाच विगर्हयन् । तक्षोवाच महास्कन्धो भृशं भाति परशुर्न तरिष्यति
ततो नाहं करिष्यामि कार्यमेतद्विगर्हितम् । त्वया वै निन्दितं कर्म कृतं सद्भिर्विगर्हितम्
अहं बिभेमि पापाद्वै मृतस्यैव च मारणे । मृतोऽयं मुनिरस्त्येव शिरसः कृन्तनेन किम्
भयं किं तेऽत्र सञ्जातं पाकशासन कथ्यताम् । इन्द्र उवाच सजीव इव देहोऽयमाभाति विशदाकृतिः
तस्माद्बिभेमि मा जीवेन्मुनिः शत्रुरयं मम । तक्षोवाच नात्र किं त्रपसे विद्वन् क्रूरेणानेन कर्मणा
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न किम् । इन्द्र उवाच प्रायश्चित्तं करिष्यामि पश्चात्पापक्षयाय वै
शत्रुस्तु सर्वथा वध्यश्छलेनापि महामते । तक्षोवाच त्वं लोभाभिहतः पापं करोषि मघवन्निह
तं विनाहं कथं पापं करोमि वद मे विभो । इन्द्र उवाच मखेषु खलु भागं ते करिष्यामि सदैव हि
शिरः पशोस्तु ते भागं यज्ञे दास्यन्ति मानवाः । शुल्केनानेन छिन्धि त्वं शिरांस्यस्य कुरु प्रियम्
व्यास उवाच एतच्छ्रुत्वा महेन्द्रस्य वचस्तक्षा मुदान्वितः । कुठारेण शिरांस्यस्य चकर्त सुदृढेन हि
छिन्नानि त्रीणि शीर्षाणि पतितानि यदा भुवि । तेभ्यस्तु पक्षिणः क्षिप्रं विनिष्पेतुः सहस्रशः
कलविङ्कास्तित्तिरयस्तथैव च कपिञ्जलाः । पृथक्पृथग्विनिष्पेतुर्मुखतस्तरसा तदा
येन वेदानधीते स्म सोमं च पिबते तथा । तस्माद्वक्त्रात्किलोत्पेतुः सद्य एव कपिञ्जलाः
येन सर्वा दिशः कामं पिबन्निव निरीक्षते । तस्मात्तु तित्तिरास्तत्र निःसृतास्तिग्मतेजसः
यत्सुरापं तु तद्वक्त्रं तस्मात्तु चटकाः किल । विनिष्पेतुस्त्रिशिरस एवं ते विहगा नृप
एवंविनिःसृतान्दृष्ट्वा तेभ्यः शक्रस्तदाण्डजान् । मुमोद मनसा राजन् जगाम त्रिदिवं पुनः
गते शक्रे तु तक्षापि स्वगृहं तरसा ययौ । यज्ञभागं परं लब्ध्वा मुदमाप महीपते