कटाक्षैरङ्गभेदैश्च मोहयित्वा मुनिं विभो । लोलुपं वशमस्माकं करिष्यामो नियन्त्रितम्
व्यास उवाच इत्याभाष्य हरिं नार्यो ययुस्त्रिशिरसोऽन्तिकम् । कुर्वन्त्यो विविधान्भावान्कामशास्त्रोचितानपि
गायन्त्यस्तालभेदैस्ता नृत्यन्त्यः पुरतो मुनेः । तं प्रलोभयितुं चक्रुर्नानाभावान्वराङ्गनाः
नापश्यत्स तपोराशिरङ्गनानां विडम्बनम् । इन्द्रियाणि वशे कृत्वा मूकान्धबधिरः स्थितः
दिनानि कतिचित्तस्थुर्नार्यस्तस्याश्रमे वरे । कुर्वन्त्यो गाननृत्यादिप्रपञ्चानतिमोहदान्
न चचाल यदा कामं ध्यानाच्च त्रिशिरा मुनिः । परावृत्य तदा देव्यः पुनः शक्रमुपस्थिताः
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् । श्रान्ता दीना भयत्रस्ता विवर्णवदना भृशम्
देवदेव महाराज यत्नश्च परमः कृतः । न स शक्यो दुराधर्षो धैर्याच्चालयितुं विभो
उपायोऽन्यः प्रकर्तव्यः सर्वथा पाकशासन । नास्माकं बलमेतस्मिंस्तापसे विजितेन्द्रिये
दिष्ट्या वयं न शप्ताः स्म यदनेन महात्मना । मुनिना वह्नितुल्येन तपसा द्योतितेन हि
विसृज्याप्सरसः शक्रश्चिन्तयामास मन्दधीः । तस्यैव च वधोपायं पापबुद्धिरसाम्प्रतम्
विसृज्य लोकलज्जां स तथा पापभयं भृशम् । चकार पापबुद्धिं तु तद्वधाय महीपते
त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम् व्यास उवाच अथ स लोभमुपेत्य सुराधिपः समधिगम्य गजासनसंस्थितः । त्रिशिरसं प्रति दुष्टमतिस्तदा मुनिमपश्यदमेयपराक्रमम्
तमभिवीक्ष्य दृढासनसंस्थितं जितगिरं सुसमाधिवशं गतम् । रविविभावसुसन्निभमोजसा सुरपतिः परमापदमभ्यगात्
कथमसौ विनिहन्तुमहो मया मुनिरपापमतिः किल सम्मतः । रिपुरयं सुसमिद्धतपोबलः कथमुपेक्ष्य इहासनकामुकः
इति विचिन्त्य पविं परमायुधं प्रति मुमोच मुनिं तपसि स्थितम् । शशिदिवाकरसन्निभमाशुगं त्रिशिरसं सुरसङ्घपतिः स्वयम्
तदभिघातहतः स धरातले किल पपात ममार च तापसः । शिखरिणः शिखरं कुलिशार्दितं निपतितं भुवि चाद्भुतदर्शनम्
तं निहत्य मुदमाप सुरेश- श्चुक्रुशुश्च मुनयस्तु संस्थिताः । हा हतेति भृशमार्तनिःस्वनाः किं कृतं शतमखेन पापिना
विनापराधं तपसां निधिर्हतः शचीपतिः पापमतिर्दुरात्मा । फलं किलायं तरसा कृतस्य प्राप्नोतु पापी हननोद्भवस्य
तं निहत्य तरसा सुरराजो निर्जगाम निजमन्दिरमाशु । स हतोऽपि विरराज महात्मा जीवमान इव तेजसां निधिः
तं दृष्ट्वा पतितं भूमौ जीवन्तमिव वृत्रहा । चिन्तामापातिखिन्नाङ्गः किं वा जीवेदयं पुनः
विमृश्य मनसातीव तक्षाणं पुरतः स्थितम् । मघवा वीक्ष्य तं प्राह स्वकार्यसदृशं वचः
तक्षंश्छिन्धि शिरांस्यस्य कुरुष्व वचनं मम । मा जीवतु महातेजा भाति जीवन्निव स्वयम्
इत्याकर्ण्य वचस्तस्य तक्षोवाच विगर्हयन् । तक्षोवाच महास्कन्धो भृशं भाति परशुर्न तरिष्यति
ततो नाहं करिष्यामि कार्यमेतद्विगर्हितम् । त्वया वै निन्दितं कर्म कृतं सद्भिर्विगर्हितम्
अहं बिभेमि पापाद्वै मृतस्यैव च मारणे । मृतोऽयं मुनिरस्त्येव शिरसः कृन्तनेन किम्
भयं किं तेऽत्र सञ्जातं पाकशासन कथ्यताम् । इन्द्र उवाच सजीव इव देहोऽयमाभाति विशदाकृतिः
तस्माद्बिभेमि मा जीवेन्मुनिः शत्रुरयं मम । तक्षोवाच नात्र किं त्रपसे विद्वन् क्रूरेणानेन कर्मणा
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न किम् । इन्द्र उवाच प्रायश्चित्तं करिष्यामि पश्चात्पापक्षयाय वै
शत्रुस्तु सर्वथा वध्यश्छलेनापि महामते । तक्षोवाच त्वं लोभाभिहतः पापं करोषि मघवन्निह