व्यास उवाच धन्योऽसि राजंस्तव बुद्धिरीदृशी जाता पुराणश्रवणेऽतिसादरा । पीत्वामृतं देववरास्तु सर्वथा पाने वितृष्णाः प्रभवन्ति वै पुनः
दिने दिने तेऽधिकभक्तिभावः कथासु राजन् महनीयकीर्तेः । श्रोता यदैकप्रवणः शृणोति वक्ता तदा प्रीतमना ब्रवीति
युद्धं पुरा वासववृत्रयोर्यद् वेदे प्रसिद्धं च तथा पुराणे । दुःखं सुरेन्द्रेण तथैव लब्धं हत्वा रिपुं त्वाष्ट्रमपापमेव
चित्रं किमत्र नृपते हरिवज्रभृद्भ्यां यच्छद्मना विनिहतस्त्रिशिरोऽथ वृत्रः । मायाबलेन मुनयोऽपि विमोहितास्ते चक्रुश्च निन्द्यमनिशं किल पापभीताः
विष्णुः सदैव कपटेन जघान दैत्यान् सत्त्वात्ममूर्तिरपि मोहमवाप्य कामम् । कोऽन्योऽस्ति तां भगवतीं मनसापि जेतुं शक्तः समस्तजनमोहकरीं भवानीम्
मत्स्यादियोनिषु सहस्रयुगेषु सद्यः साक्षाद्भवत्यपि यया विनियोजितोऽत्र । नारायणो नरसखो भगवाननन्तः कार्यं करोति विहिताविहितं कदाचित्
देहं धनं गृहमिदं स्वजना मदीयं पुत्राः कलत्रमिति मोहमुपेत्य सर्वः । पुण्यं करोत्यथ च पापचयं करोति मायागुणैरतिबलैर्विकलीकृतो यत्
न जातु मोहं क्षपितुं नरः क्षमः कश्चिद्भवेद्भूप परावरार्थवित् । विमोहितस्तैस्त्रिभिरेव मूलतो वशीकृतात्मा जगतीतले भृशम्
अथ तौ मायया विष्णुवासवौ मोहितौ भृशम् । जघ्नतुश्छद्मना वृत्रं स्वार्थसाधनतत्परौ
तदहं सम्प्रवक्ष्यामि वृत्तान्तमवनीपते । कारणं पूर्ववैरस्य वृत्रवासवयोर्मिथः
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः । देवानां कार्यकर्ता च निपुणो ब्राह्मणप्रियः
स पुत्रं वै त्रिशिरसमिन्द्रद्वेषात्किलासृजत् । विश्वरूपेति विख्यातं नाम्ना रूपेण मोहनम्
त्रिभिः स वदनैः श्रेष्ठैर्व्यरोचत मनोहरैः । त्रिभिर्भिन्नानि कार्याणि मुखैः समकरोन्मुनिः
वेदानेकेन सोऽधीते सुरां चैकेन सोऽपिबत् । तृतीयेन दिशः सर्वा युगपच्च निरीक्षते
त्रिशिरा भोगमुत्सृज्य तपश्चक्रे सुदुष्करम् । तपस्वी स मृदुर्दान्तो धर्ममेव समाश्रितः
पञ्चाग्निसाधनं काले पादपाग्रे निवेशनम् । जलमध्ये निवासं च हेमन्ते शिशिरे तथा
निराहारो जितात्मासौ त्यक्तसर्वपरिग्रहः । तपश्चचार मेधावी दुष्करं मन्दबुद्धिभिः
तं च दृष्ट्वा तपस्यन्तं खेदमाप शचीपतिः । विषादमगमत्तत्र शक्रोऽयं मास्मभूदिति
दृष्ट्वा तस्य तपो वीर्यं सत्यं चामिततेजसः । चिन्तां च महतीं प्राप ह्यनिशं पाकशासनः
विवर्धमानस्त्रिशिरा मामयं शातयिष्यति । नोपेक्ष्यः सर्वथा शत्रुर्वर्धमानबलो बुधैः
तस्मादुपायः कर्तव्यस्तपोनाशाय साम्प्रतम् । कामस्तु तपसां शत्रुः कामान्नश्यति वै तपः
तथैवाद्य प्रकर्तव्यं भोगासक्तो भवेद्यथा । इति सञ्चिन्त्य मनसा बुद्धिमान्बलमर्दनः
आज्ञापयत्सोऽप्सरसस्त्वाष्ट्रपुत्रप्रलोभने । उर्वशीं मेनकां रम्भां घृताचीं च तिलोत्तमाम्
समाहूयाब्रवीच्छक्रस्तास्तदा रूपगर्विताः । प्रियं कुरुध्वं मे सर्वाः कार्येऽद्य समुपस्थिते
यत्तो मेऽद्य महाञ्छत्रुस्तपस्तपति दुर्जयः । कार्यं कुरुत गच्छध्वं प्रलोभयत माचिरम्
शृङ्गारवेषैर्विविधैर्हावैर्देहसमुद्भवैः । प्रलोभयत भद्रं वः शमयध्वं ज्वरं मम
अस्वस्थोऽहं महाभागास्तस्य ज्ञात्वा तपोबलम् । बलवानासनं मेऽद्य ग्रहीष्यत्यविलम्बितः
भयं मे समुपायातं क्षिप्रं नाशयताबलाः । उपकुर्वन्तु सहिताः कार्येऽद्य समुपस्थिते
तच्छ्रुत्वा वचनं नार्य ऊचुस्तं प्रणताः पुरः । मा भयं कुरु देवेश यतिष्यामः प्रलोभने
यथा न स्याद्भयं तस्मात्तथा कार्यं महाद्युते । नृत्यगीतविहारैश्च मुनेस्तस्य प्रलोभने