प्रणेमुर्विनयोपेतास्तमूचुः प्रांजलिस्थिताः । राजंस्ते शत्रवः सर्वे पापाच्च निहता रणे
राज्यं निष्कंटकं भूप कुरुष्व पुरमास्थितः । तच्छ्रुत्वा वचनं राजा नत्वा तं मुनिसत्तमम्
आपृच्छ्य निर्ययौ तत्र मंत्रिभिः परिवारितः । संप्राप्य च निजं राज्यं दारान्स्वजनबांधवान्
बुभुजे पृथिवीं सर्वां ततः सागरमेखलाम् । वैश्योऽपि ज्ञानमासाद्य मुक्तसंगः समंततः
कालातिवाहनं तत्र मुक्तबंधश्चकार ह। तीर्थेषु विचरन्गायन्भगवत्या गुणानथ
एतत्ते कथितं देव्याश्चरितं परमाद्भुतम् । आराधनफलप्राप्तिर्यथावद्भूपवैश्ययोः
दैत्यानां हननं प्रोक्तं प्रादुर्भावस्तथा शुभः । एवंप्रभावा सा देवी भक्तानामभयप्रदा
यः शृणोति नरो नित्यमेतदाख्यानमुत्तमम् । संप्राप्नोति नरः सत्यं संसारसुखमद्भुतम्
ज्ञानदं मोक्षदं चैव कीर्तिदं सुखदं तथा । पावनं श्रवणान्नूनमेतदाख्यानमद्भुतम्
अखिलार्थप्रदं नॄणां सर्वधर्मसमावृतम् । धर्मार्थकाममोक्षाणां कारणं परमं मतम्
सूत उवाच। जनमेजयेन राज्ञाऽसौ पृष्टः सत्यवतीसुतः । उवाच संहितां दिव्यां व्यासः सर्वार्थतत्त्ववित्
चरितं चंडिकायास्तु शुम्भदैत्यवधाश्रितम् । कथयामास भगवान्कृष्णः कारुणिको मुनिः
त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ऋषय ऊचुः सूत सूत महाभाग मिष्टं ते वचनामृतम् । न तृप्ताः स्मो वयं पीत्वा द्वैपायनकृतं शुभम्
पुनस्त्वां प्रष्टुमिच्छामः कथां पौराणिकीं शुभाम् । वेदेऽपि कथितां रम्यां प्रसिद्धां पापनाशिनीम्
वृत्रासुर इति ख्यातो वीर्यवांस्त्वष्टुरात्मजः । स कथं निहतः संख्ये वासवेन महात्मना
त्वष्टा वै सुरपक्षीयस्तत्पुत्रो बलवत्तरः । शक्रेण घातितः कस्माद्ब्रह्मयोनिर्महाबलः
देवाः सत्त्वगुणोत्पना मानुषा राजसाः स्मृताः । तिर्यञ्चस्तामसाः प्रोक्ताः पुराणागमवादिभिः
विरोधोऽत्र महान् भाति नूनं शतमखेन ह । छलेन बलवान् वृत्रः शक्रेण विनिपातितः
विष्णुः प्रेरयिता तत्र स तु सत्त्वधरः परः । प्रविष्टः पविमध्ये स छद्मना भगवान् प्रभुः
सन्धिं विधाय स ह्येवं मन्त्रितोऽसौ महाबलः । हरिभ्यां सत्यमुत्सृज्य जलफेनेन शातितः
कृतमिन्द्रेण हरिणा किमेतत्सूत साहसम् । महान्तोऽपि च मोहेन वञ्चिताः पापबुद्धयः
अन्यायवर्तिनोऽत्यर्थं भवन्ति सुरसत्तमाः । सदाचारेण युक्तेन देवाः शिष्टत्वमागताः
एवं विशिष्टधर्मेण शिष्टत्वं कीदृशं पुनः । हत्वा वृत्रं तु विश्वस्तं शक्रेण छद्मना पुनः
प्राप्तं पापफलं नो वा ब्रह्महत्यासमुद्भवम् । किं च त्वया पुरा प्रोक्तं वृत्रासुरवधः कृतः
श्रीदेव्या इति तच्चापि चित्तं मोहयतीह नः । सूत उवाच शृण्वन्तु मुनयो वृत्तं वृत्रासुरवधाश्रयम्
यथेन्द्रेण च सम्प्राप्तं दुःखं हत्यासमुद्भवम् । एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः
पारीक्षितेन राज्ञापि स यदाह च तद्ब्रुवे । जनमेजय उवाच कथं वृत्रासुरः पूर्वं हतो मघवता मुने
सहायं विष्णुमासाद्य छद्मना सात्त्विकेन ह । कथं च देव्या निहतो दैत्योऽसौ केन हेतुना
कथमेकवधो द्वाभ्यां कृतः स्यान्मुनिपुङ्गव । तदेतच्छ्रोतुमिच्छामि परं कौतूहलं हि मे
महतां चरितं शृण्वन् को विरज्येत मानवः । कथयाम्बावैभवं त्वं वृत्रासुरवधाश्रितम्