व्यास उवाच। तच्छ्रुत्वा वचनं राजा तामुवाच मुदान्वितः । देहि मेऽद्य निजं राज्यं हतशत्रुबलं बलात्
तमुवाच तदा देवी गच्छ राजन्निजं गृहम् । शत्रवः क्षीणसत्त्वास्ते गमिष्यंति पराजिताः
मंत्रिणस्तु समागत्य ते पतिष्यंति पादयोः । कुरु राज्यं महाभाग नगरे स्वं यथासुखम्
कृत्वा राज्यं सुविपुलं वर्षाणामयुतं नृप । देहान्ते जन्म संप्राप्य सूर्याच्च भविता मनुः
व्यास उवाच। वैश्यस्तामप्युवाचेदं कृतांजलिपुट: शुचिः । न मे गृहेण कार्यं वै न पुत्रेण धनेन वा
सर्वं बंधकरं मातः स्वप्नवन्नश्वरं स्फुटम् । ज्ञानं मे देहि विशदं मोक्षदं बंधनाशनम्
असारेऽस्मिंश्च संसारे मूढा मज्जंति पामराः । पंडिता: संतरंतीह तस्मान्नेच्छन्ति संसृतिम्
व्यास उवाच। तदाकर्ण्य महामाया वैश्यं प्राह पुरःस्थितम् । वैश्ववर्य तव ज्ञानं भविष्यति न संशयः
इति दत्त्वा वरं ताभ्यां तत्रैवांतरधीयत । अदर्शनं गतायां तु राजा तं मुनिसत्तमम्
प्रणम्य हयमारुह्य गमनाय मनो दधे । तदैव तस्य सचिवास्तत्रागत्य नृपं प्रजाः
प्रणेमुर्विनयोपेतास्तमूचुः प्रांजलिस्थिताः । राजंस्ते शत्रवः सर्वे पापाच्च निहता रणे
राज्यं निष्कंटकं भूप कुरुष्व पुरमास्थितः । तच्छ्रुत्वा वचनं राजा नत्वा तं मुनिसत्तमम्
आपृच्छ्य निर्ययौ तत्र मंत्रिभिः परिवारितः । संप्राप्य च निजं राज्यं दारान्स्वजनबांधवान्
बुभुजे पृथिवीं सर्वां ततः सागरमेखलाम् । वैश्योऽपि ज्ञानमासाद्य मुक्तसंगः समंततः
कालातिवाहनं तत्र मुक्तबंधश्चकार ह। तीर्थेषु विचरन्गायन्भगवत्या गुणानथ
एतत्ते कथितं देव्याश्चरितं परमाद्भुतम् । आराधनफलप्राप्तिर्यथावद्भूपवैश्ययोः
दैत्यानां हननं प्रोक्तं प्रादुर्भावस्तथा शुभः । एवंप्रभावा सा देवी भक्तानामभयप्रदा
यः शृणोति नरो नित्यमेतदाख्यानमुत्तमम् । संप्राप्नोति नरः सत्यं संसारसुखमद्भुतम्
ज्ञानदं मोक्षदं चैव कीर्तिदं सुखदं तथा । पावनं श्रवणान्नूनमेतदाख्यानमद्भुतम्
अखिलार्थप्रदं नॄणां सर्वधर्मसमावृतम् । धर्मार्थकाममोक्षाणां कारणं परमं मतम्
सूत उवाच। जनमेजयेन राज्ञाऽसौ पृष्टः सत्यवतीसुतः । उवाच संहितां दिव्यां व्यासः सर्वार्थतत्त्ववित्
चरितं चंडिकायास्तु शुम्भदैत्यवधाश्रितम् । कथयामास भगवान्कृष्णः कारुणिको मुनिः
त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम् ऋषय ऊचुः सूत सूत महाभाग मिष्टं ते वचनामृतम् । न तृप्ताः स्मो वयं पीत्वा द्वैपायनकृतं शुभम्
पुनस्त्वां प्रष्टुमिच्छामः कथां पौराणिकीं शुभाम् । वेदेऽपि कथितां रम्यां प्रसिद्धां पापनाशिनीम्
वृत्रासुर इति ख्यातो वीर्यवांस्त्वष्टुरात्मजः । स कथं निहतः संख्ये वासवेन महात्मना
त्वष्टा वै सुरपक्षीयस्तत्पुत्रो बलवत्तरः । शक्रेण घातितः कस्माद्ब्रह्मयोनिर्महाबलः
देवाः सत्त्वगुणोत्पना मानुषा राजसाः स्मृताः । तिर्यञ्चस्तामसाः प्रोक्ताः पुराणागमवादिभिः
विरोधोऽत्र महान् भाति नूनं शतमखेन ह । छलेन बलवान् वृत्रः शक्रेण विनिपातितः
विष्णुः प्रेरयिता तत्र स तु सत्त्वधरः परः । प्रविष्टः पविमध्ये स छद्मना भगवान् प्रभुः
सन्धिं विधाय स ह्येवं मन्त्रितोऽसौ महाबलः । हरिभ्यां सत्यमुत्सृज्य जलफेनेन शातितः