वदनात्तव सम्प्राप्य देवीमन्त्रं नवाक्षरम् । स्मरणं च करिष्यावो निराहारौ धृतव्रतौ
व्यास उवाच। इति सञ्चोदितस्ताभ्यां सुमेधा मुनिसत्तमः । ददौ मंत्रं शुभं ताभ्यां ध्यानबीजपुरःसरम्
तौ च प्राप्य मुनेर्मंत्रं सम्मन्त्र्य गुरुदैवतौ । जग्मतुर्वैश्यराजानौ नदीतीरमनुत्तमम्
एकांते विजने स्थाने कृत्वासनपरिग्रहम् । उपविष्टौ स्थिरप्रज्ञौ तावतीव कृशोदरौ
मन्त्रजाप्यरतौ शान्तौ चरित्रत्रयपाठकौ । निन्यतुर्मासमेकं तु तत्र ध्यानपरायणौ
तयोर्मासव्रतेनैव जाता प्रीतिरनुत्तमा । पदाम्बुजे भवान्यास्तु स्थिरा बुद्धिस्तथाप्यलम्
कदाचित्पादयोर्गत्वा मुनेस्तस्य महात्मनः । कृतप्रणामावागत्य तस्थतुश्च कुशासने
नान्यकार्य परौ क्वापि बभूवतुः कदाचन । देवीध्यानपरौ नित्यं जपमन्त्ररतौ सदा
एवं जाते तदा पूर्णे तत्र संवत्सरे नृप । बभूवतुः फलाहारं त्यक्त्वा पर्णाशनौ नृप
वर्षमेकं तपस्तत्र चक्रतुर्वैश्यपार्थिवौ । शुष्कपर्णाशनौ दान्तौ जपध्यानपरायणौ
पूर्णे वर्षद्वये जाते कदाचिद्दर्शनं च तौ । प्रापतुः स्वप्नमध्ये तु भगवत्या मनोहरम्
रक्ताम्बरधरां देवीं चारुभूषणभूषिताम् । कदाचिन्नृपतिः स्वप्नेऽप्यपश्यज्जगदम्बिकाम्
वीक्ष्य स्वप्ने च तौ देवीं प्रीतियुक्तौ बभूवतुः । जलाहारैस्तृतीये तु स्थितौ संवत्सरे तु तौ
एवं वर्षत्रयं कृत्वा ततस्तौ वैश्यपार्थिवौ । चक्रतुस्तौ तदा चिंतां चित्ते दर्शनलालसौ
प्रत्यक्षदर्शनं देव्या न प्राप्तं शांतिदं नृणाम् । देहत्यागं करिष्यावो दुःखितौ भृशमातुरौ
इति संचिन्त्य मनसा राजा कुण्डं चकार ह । त्रिकोणं सुस्थिरं सौम्यं हस्तमात्रप्रमाणतः
संस्थाप्य पावकं राजा तथा वैश्योऽतिभक्तिमान् । गुहावासो निजं मांसं छित्त्वा छित्त्वा पुनःपुनः
तथा वैश्योऽपि दीप्तेऽग्नौ स्वमांसं प्रापक्षिपत्तदा । रुधिरेण बलिं चास्यै ददतुस्तौ कृतोद्यमौ
तदा भगवती दत्त्वा प्रत्यक्षं दर्शनं तयोः । प्राह प्रीतिभरोद्भ्रांतौ दृष्ट्वा तौ दुःखितौ भृशम् ॥ श्रीदेव्युवाच। वरं वरय भो राजन् यत्ते मनसि वांछितम् । तुष्टाऽहं तपसा तेऽद्य भक्तोऽसि त्वं मतो मम
वैश्यं प्राह तदा देवी प्रसन्नाऽहं महामते । किं तेऽभीष्टं ददाम्यद्य प्रार्थयाशु मनोगतम्
व्यास उवाच। तच्छ्रुत्वा वचनं राजा तामुवाच मुदान्वितः । देहि मेऽद्य निजं राज्यं हतशत्रुबलं बलात्
तमुवाच तदा देवी गच्छ राजन्निजं गृहम् । शत्रवः क्षीणसत्त्वास्ते गमिष्यंति पराजिताः
मंत्रिणस्तु समागत्य ते पतिष्यंति पादयोः । कुरु राज्यं महाभाग नगरे स्वं यथासुखम्
कृत्वा राज्यं सुविपुलं वर्षाणामयुतं नृप । देहान्ते जन्म संप्राप्य सूर्याच्च भविता मनुः
व्यास उवाच। वैश्यस्तामप्युवाचेदं कृतांजलिपुट: शुचिः । न मे गृहेण कार्यं वै न पुत्रेण धनेन वा
सर्वं बंधकरं मातः स्वप्नवन्नश्वरं स्फुटम् । ज्ञानं मे देहि विशदं मोक्षदं बंधनाशनम्
असारेऽस्मिंश्च संसारे मूढा मज्जंति पामराः । पंडिता: संतरंतीह तस्मान्नेच्छन्ति संसृतिम्
व्यास उवाच। तदाकर्ण्य महामाया वैश्यं प्राह पुरःस्थितम् । वैश्ववर्य तव ज्ञानं भविष्यति न संशयः
इति दत्त्वा वरं ताभ्यां तत्रैवांतरधीयत । अदर्शनं गतायां तु राजा तं मुनिसत्तमम्
प्रणम्य हयमारुह्य गमनाय मनो दधे । तदैव तस्य सचिवास्तत्रागत्य नृपं प्रजाः