त्रिकालं तत्र कर्तव्या पूजा शक्त्यनुसारतः । वित्तशाठ्यं न कर्तव्यं चण्डिकायाश्च पूजने
धूपैर्दीपैः सुनैवेद्यैः फलपुष्पैरनेकशः । गीतवाद्यैः स्तोत्रपाठैर्वेदपारायणैस्तथा
उत्सवस्तत्र कर्तव्यो नानावादित्रसंयुतैः । कन्यकानां पूजनं च विधेयं विधिपूर्वकम्
चन्दनैर्भूषणैर्वस्त्रैर्भक्ष्यैश्च विविधैस्तथा । सुगन्धतैलमाल्यैश्च मनसो रुचिकारकैः
एवं सम्पूजनं कृत्वा होमं मन्त्रविधानतः । अष्टम्यां वा नवम्यां वा कारयेद्विधिपूर्वकम्
ब्राह्मणान्भोजयेत्पश्चात्पारणं दशमीदिने । कर्तव्यं शक्तितो दानं देयं भक्तिपरैर्नृपैः
एवं यः कुरुते भक्त्या नवरात्रव्रतं नरः । नारी वा सधवा भक्त्या विधवा वा पतिव्रता
इह लोके सुखं भोगान्प्राप्नोति मनसेप्सितान् । देहान्ते परमं स्थानं प्राप्नोति व्रततत्परः
जन्मान्तरेऽम्बिकाभक्तिर्भवत्यव्यभिचारिणी। जन्मोत्तमकुले प्राप्य सदाचारो भवेद्धि सः
नवरात्रव्रतं प्रोक्तं व्रतानामुत्तमं व्रतम् । आराधनं शिवायास्तु सर्वसौख्यकरं परम्
अनेन विधिना राजन्समाराधय चण्डिकाम् । जित्वा रिपूनस्खलितं राज्यं प्राप्स्यत्यनुत्तमम्
सुखं च परमं भूप देहेऽस्मिन्स्वगृहे पुनः । पुत्रदारान्समासाद्य लप्स्यसे नात्र संशयः
वैश्योत्तम त्वमेवाद्य समाराधय कामदाम् । देवीं विश्वेश्वरीं मायां सृष्टिसंहारकारिणीम्
स्वजनानां च मान्यस्त्वं भविष्यसि गृहे गतः । सुखं सांसारिकं प्राप्य यथाभिलषितं पुनः
देवीलोके शुभे वासो भविता ते न संशयः । नाराधिता भगवती यैस्ते नरकभागिनः
इह लोकेऽतिदुःखार्ता नानारोगैः प्रपीडिताः । भवंति मानवा राजञ्छत्रुभिश्च पराजिताः
निष्कलत्रा ह्यपुत्राश्च तृष्णार्ताः स्तब्धबुद्धयः । बिल्बीदलैः करवीरैः शतपत्रैश्च चम्पकैः
अर्चिता जगतां धात्री यैस्तेऽतीव विलासिनः । भवंति कृतपुण्यास्ते शक्तिभक्तिपरायणाः
धनविभवसुखाढ्या मानवा मानवंतः सकलगुणगणानां भाजनं भारतीशाः । निगमपठितमन्त्रैः पूजिता यैर्भवानी नृपतितिलकमुख्यास्ते भवंतीह लोके
अथ पञ्चत्रिंशोऽध्यायः महिष उवाच। इति तस्य वचः श्रुत्वा दुःखितौ वैश्यपार्थिवौ । प्रणिपत्य मुनिं प्रीत्या प्रश्रयावनतौ भृशम्
हर्षेणोत्फुल्लनयनावूचतुर्वाक्यकोविदौ । कृताञ्जलिपुटौ शान्तौ भक्तिप्रवणचेतसौ
भगवन्पावितावद्य शान्तौ दीनौ शुचान्वितौ । तव सूक्तसरस्वत्या गङ्गयेव भगीरथः
साधवः सम्भवन्तीह परोपकृतितत्पराः । अकृत्रिमगुणारामाः सुखदाः सर्वदेहिनाम्
पूर्वपुण्यप्रसङ्गेन प्राप्तोऽयमाश्रयः शुभः । तवावाभ्यां महाभाग महादुःखविनाशकः
भवन्ति मानवा भूमौ बहवः स्वार्थतत्पराः । परार्थसाधने दक्षाः केचित्क्वापि भवादृशाः
दुःखितोऽहं मुनिश्रेष्ठ वैश्योऽयं चातिदुःखितः । उभौ संसारसंतप्तौ तवाश्रमपदे मुदा
दर्शनादेव हे विद्वन्गतं दुःखमिहावयोः । देहजं मानसं वाक्यश्रवणादेव साम्प्रतम्
धन्यावावां कृतकृत्यौ जातौ सूक्तिसुधारसात् । पावितौ भवता ब्रह्मन्कृपया करुणार्णव
गृहाणास्मत्करौ साधो नय पारं भवार्णवात् । मग्नौ श्रांताविति ज्ञात्वा मंत्रदानेन सांप्रतम्
तपः कृत्वाऽतिविपुलं समाराध्य सुखप्रदाम् । संप्राप्य दर्शनं भूयो यास्यावो निजमंदिरम्