कुर्यात्प्राणप्रतिष्ठां तु संभारं प्रोक्ष्य मंत्रतः । कालज्ञानं ततः कृत्वा न्यासं कुर्याद्यथाविधि
शुभे ताम्रमये पात्रे चंदनेन सितेन च । षट्कोणं विलिखेद्यंत्रं चाष्टकोणं ततो बहिः
नवाक्षरस्य मंत्रस्य बीजानि विलिखेत्ततः । कृत्वा यंत्रप्रतिष्ठां च वेदोक्तां संविधाय च
अर्चां वा धातवीं कुर्यात्पूजामंत्रैः शिवोदितैः । पूजनं पृथिवीपाल भगवत्याः प्रयत्नतः
कृत्वा वा विधिवत्पूजामागमोक्तां समाहितः । जपेन्नवाक्षरं मंत्रं सततं ध्यानपूर्वकम्
होमं दशांशतः कुर्याद्दशांशेन च तर्पणम् । भोजनं ब्राह्मणानां च तद्दशांशेन कारयेत्
चरित्रत्रयपाठं च नित्यं कुर्याद्विसर्जयेत् । नवरात्रव्रतं चैव विधेयं विधिपूर्वकम्
आश्विने च तथा चैत्रे शुक्ले पक्षे नराधिप । नवरात्रो(त्रा)पवासो वै कर्तव्यः शुभमिच्छता
होमः सुविपुल: कार्यो जप्यमंत्रैः सुपायसैः । शर्कराघृतमिश्रैश्च मधुयुक्तैः सुसंस्कृतैः
छागमांसेन वा कार्यों बिल्वपत्रैस्तथा शुभैः । हयारिकुसुमै रक्तैस्तिलैर्वा शर्करायुतैः
अष्टम्यां च चतुर्दश्यां नवम्यां च विशेषतः । कर्तव्यं पूजनं देव्या ब्राह्मणानां च भोजनम्
निर्धनो धनमाप्नोति रोगी रोगात्प्रमुच्यते । अपुत्रो लभते पुत्राञ्छुभांश्च वशवर्तिनः
राज्यभ्रष्टो नृपो राज्यं प्राप्नोति सार्वभौमिकम् । शत्रुभिः पीडितो हंति रिपुं मायाप्रसादतः
विद्यार्थी पूजनं यस्तु करोति नियतेंद्रियः । अनवद्यां शुभां विद्यां विंदते नात्र संशयः
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भक्तिसंयुतः । पूजयेज्जगतां धात्रीं स सर्वसुखभाग्भवेत्
नवरात्रव्रतं कुर्यान्नरनारीगणश्च यः । वांछितं फलमाप्नोति सर्वदा भक्तितत्परः
आश्विने शुक्लपक्षे तु नवरात्रव्रतं शुभम् । करोति भावसंयुक्तः सर्वान्कामानवाप्नुयात्
विधिवन्मंडलं कृत्वा पूजास्थानं प्रकल्पयेत् । कलशं स्थापयेत्तत्र वेदमंत्रविधानतः
यंत्रं सुरुचिरं कृत्वा स्थापयेत्कलशोपरि । वापयित्वा यवांश्चारून्पार्श्वतः परिवर्तितान्
कृत्वोपरि वितानं च पुष्पमालासमावृतम् । धूपदीपसुसंयुक्तं कर्तव्यं चण्डिकागृहम्
त्रिकालं तत्र कर्तव्या पूजा शक्त्यनुसारतः । वित्तशाठ्यं न कर्तव्यं चण्डिकायाश्च पूजने
धूपैर्दीपैः सुनैवेद्यैः फलपुष्पैरनेकशः । गीतवाद्यैः स्तोत्रपाठैर्वेदपारायणैस्तथा
उत्सवस्तत्र कर्तव्यो नानावादित्रसंयुतैः । कन्यकानां पूजनं च विधेयं विधिपूर्वकम्
चन्दनैर्भूषणैर्वस्त्रैर्भक्ष्यैश्च विविधैस्तथा । सुगन्धतैलमाल्यैश्च मनसो रुचिकारकैः
एवं सम्पूजनं कृत्वा होमं मन्त्रविधानतः । अष्टम्यां वा नवम्यां वा कारयेद्विधिपूर्वकम्
ब्राह्मणान्भोजयेत्पश्चात्पारणं दशमीदिने । कर्तव्यं शक्तितो दानं देयं भक्तिपरैर्नृपैः
एवं यः कुरुते भक्त्या नवरात्रव्रतं नरः । नारी वा सधवा भक्त्या विधवा वा पतिव्रता
इह लोके सुखं भोगान्प्राप्नोति मनसेप्सितान् । देहान्ते परमं स्थानं प्राप्नोति व्रततत्परः
जन्मान्तरेऽम्बिकाभक्तिर्भवत्यव्यभिचारिणी। जन्मोत्तमकुले प्राप्य सदाचारो भवेद्धि सः
नवरात्रव्रतं प्रोक्तं व्रतानामुत्तमं व्रतम् । आराधनं शिवायास्तु सर्वसौख्यकरं परम्