सर्वज्ञे देवकार्यांशे का वार्ताऽन्यस्य भूपते । ज्ञानिनामपि चेतांसि परमा प्रकृतिः किल
बलादाकृष्य मोहाय प्रयच्छति महीपते । यया व्याप्तमिदं सर्वं भगवत्या चराचरम्
मोहदा ज्ञानदा सैव बन्धमोक्षप्रदा सदा । राजोवाच। भगवन्ब्रूहि मे तस्याः स्वरूपं बलमुत्तमम्
उत्पत्तिकारणं चापि स्थानं परमकं च यत् । ऋषिरुवाच। न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन
नित्यैव सा परा देवी कारणानां च कारणम् । वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप
शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा । चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि
आविर्भावतिरोभावौ देवानां कार्यसिद्धये । यदा स्तुवंति तां देवा मनुजाश्च विशांपते
प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका । नानारूपधरा देवी नानाशक्तिसमन्विता
आविर्भवति कार्यार्थं स्वेच्छया परमेश्वरी । दैवाधीना न सा देवी यथा सर्वे सुरा नृप
न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी । अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत्
दृश्यस्य जननी सैव देवी सदसदात्मिका । पुरुषं रंजयत्येका कृत्वा ब्रह्माण्डनाटकम्
रंजिते पुरुषे सर्वं संहरत्यतिरंहसा । तया निमित्तभूतास्ते ब्रह्मविष्णुमहेश्वराः
कल्पिताः स्वस्वकार्येषु प्रेरिता लीलया त्वमी । स्वांशं तेषु समारोप्य कृतास्ते बलवत्तराः
दत्ताश्व शक्तयस्तेभ्यो गीर्लक्ष्मीर्गिरिजा तथा । ते तां ध्यायंति देवेशाः पूजयंति परां मुदा
ज्ञात्वा सर्वेश्वरीं शक्तिं सृष्टिस्थितिविनाशिनीम् । एतत्ते सर्वमाख्यातं देवीमाहात्म्यमुत्तमम्
अथ चतुस्त्रिंशोऽध्यायः राजोवाच। भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम् । पूजाविधिं च मन्त्रांश्च तथा होमविधिं वद
ऋषिरुवाच। शृणु राजन्प्रवक्ष्यामि तस्याः पूजाविधिं शुभम् । कामदं मोक्षदं नॄणां ज्ञानदं दुःखनाशनम्
आदौ स्नानविधिं कृत्वा शुचिः शुक्लांबरो नरः । आचम्य प्रयतः कृत्वा शुभमायतनं निजम्
ततोऽवलिप्तभूम्यां तु संस्थाप्यासनमुत्तमम् । तत्रोपविश्य विधिवत्त्रिराचम्य मुदान्वितः
पूजाद्रव्यं सुसंस्थाप्य यथाशक्त्यनुसारतः । प्राणायामं ततः कृत्वा भूतशुद्धिं विधाय च
कुर्यात्प्राणप्रतिष्ठां तु संभारं प्रोक्ष्य मंत्रतः । कालज्ञानं ततः कृत्वा न्यासं कुर्याद्यथाविधि
शुभे ताम्रमये पात्रे चंदनेन सितेन च । षट्कोणं विलिखेद्यंत्रं चाष्टकोणं ततो बहिः
नवाक्षरस्य मंत्रस्य बीजानि विलिखेत्ततः । कृत्वा यंत्रप्रतिष्ठां च वेदोक्तां संविधाय च
अर्चां वा धातवीं कुर्यात्पूजामंत्रैः शिवोदितैः । पूजनं पृथिवीपाल भगवत्याः प्रयत्नतः
कृत्वा वा विधिवत्पूजामागमोक्तां समाहितः । जपेन्नवाक्षरं मंत्रं सततं ध्यानपूर्वकम्
होमं दशांशतः कुर्याद्दशांशेन च तर्पणम् । भोजनं ब्राह्मणानां च तद्दशांशेन कारयेत्
चरित्रत्रयपाठं च नित्यं कुर्याद्विसर्जयेत् । नवरात्रव्रतं चैव विधेयं विधिपूर्वकम्
आश्विने च तथा चैत्रे शुक्ले पक्षे नराधिप । नवरात्रो(त्रा)पवासो वै कर्तव्यः शुभमिच्छता
होमः सुविपुल: कार्यो जप्यमंत्रैः सुपायसैः । शर्कराघृतमिश्रैश्च मधुयुक्तैः सुसंस्कृतैः
छागमांसेन वा कार्यों बिल्वपत्रैस्तथा शुभैः । हयारिकुसुमै रक्तैस्तिलैर्वा शर्करायुतैः