मध्यस्थः सर्वदा कार्यो विवादेऽस्मिन्द्वयोरिह । ऋषिरुवाच। तच्छ्रुत्वा वचनं दिव्यं सज्जीभूतौ कृतोद्यमौ
जग्मतुर्मातुमग्रस्थं लिङ्गमद्भुतदर्शनम् । पातालमगमद्विष्णुर्ब्रह्माऽप्याकाशमेव च
परिमातुं महालिङ्गं स्वमहत्त्वविवृद्धये । विष्णुर्गत्वा कियद्देशं श्रान्तः सर्वात्मना यतः
न प्रापांतं स लिंगस्य परिवृत्य ययौ स्थलम् । ब्रह्माऽगच्छत्ततश्चोर्ध्वं पतितं केतकीदलम्
शिवस्य मस्तकात्प्राप्य परावृत्तो मुदावृतः । आगत्य तरसा ब्रह्मा विष्णवे केतकीदलम
दर्शयित्वा च वितथमुवाच मदमोहितः । लिङ्गस्य मस्तकादेतद्गृहीतं केतकीदलम्
अभिज्ञानाय चानीतं तव चित्तप्रशान्तये । श्रुत्वा तद्ब्रह्मणो वाक्यं दृष्ट्वा च केतकीदलम्
हरिस्तं प्रत्युवाचेदं साक्षी क: कथयाधुना । यथार्थवादी मेधावी सदाचारः शुचिः समः
साक्षी भवति सर्वत्र विवादे समुपस्थिते । ब्रह्मोवाच। दूरदेशात्समायाति साक्षी कः समयेऽधुना
यत्सत्यं तद्वचः सेयं केतकी कथयिष्यति । इत्युक्त्वा प्रेरिता तत्र ब्रह्मणा केतकी स्फुटम्
वचनं प्राह तरसा शार्ङ्गिणं प्रत्यबोधयत् । शिवमूर्ध्नि स्थितां ब्रह्मा गृहीत्वा मां समागतः
सन्देहोऽत्र न कर्तव्यस्त्वया विष्णो कदाचन । मम वाक्यं प्रमाणं हि ब्रह्मा पारङ्गतोऽस्य ह
गृहीत्वा मां समायातः शिवभक्तैः समर्पिताम् । केतक्या वचनं श्रुत्वा हरिराह स्मयनिव
महादेवः प्रमाणं मे यद्यसौ वचनं वदेत् । ऋषिरुवाच। तदाकर्ण्य हरेर्वाक्यं महादेव: सनातनः
कुपितः केतकीं प्राह मिथ्यावादिनि मा वद । गच्छतो मध्यतः प्राप्ता पतिता मस्तकान्मम
मिथ्याभिभाषिणी त्यक्ता मया त्वं सर्वदेव हि । ब्रह्मा लज्जापरो भूत्वा ननाम मधुसूदनम्
शिवेन केतकी त्यक्ता तद्दिनात्कुसुमेषु वै । एवं मायाबलं विद्धि ज्ञानिनामपि मोहदम्
अन्येषां प्राणिनां राजन्का वार्ता विभ्रमं प्रति । देवानां कार्यसिद्ध्यर्थं सर्वदेव रमापतिः
दैत्यान्वञ्चयते चाशु त्यक्त्वा पापभयं हरिः । अवतारकरो देवो नानायोनिषु माधवः
त्यक्त्वाऽऽनन्दसुखं दैत्यैर्युद्धं चैवाकरोद्विभुः । नूनं मायाबलं चैतन्माधवेऽपि जगद्गुरौ
सर्वज्ञे देवकार्यांशे का वार्ताऽन्यस्य भूपते । ज्ञानिनामपि चेतांसि परमा प्रकृतिः किल
बलादाकृष्य मोहाय प्रयच्छति महीपते । यया व्याप्तमिदं सर्वं भगवत्या चराचरम्
मोहदा ज्ञानदा सैव बन्धमोक्षप्रदा सदा । राजोवाच। भगवन्ब्रूहि मे तस्याः स्वरूपं बलमुत्तमम्
उत्पत्तिकारणं चापि स्थानं परमकं च यत् । ऋषिरुवाच। न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन
नित्यैव सा परा देवी कारणानां च कारणम् । वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप
शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा । चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि
आविर्भावतिरोभावौ देवानां कार्यसिद्धये । यदा स्तुवंति तां देवा मनुजाश्च विशांपते
प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका । नानारूपधरा देवी नानाशक्तिसमन्विता
आविर्भवति कार्यार्थं स्वेच्छया परमेश्वरी । दैवाधीना न सा देवी यथा सर्वे सुरा नृप
न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी । अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत्