शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् । इच्छया संहरत्येषा जगदेतच्चराचरम्
न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः । न सूर्यो वरुणः शक्तः स्वे स्वे कार्ये कथञ्चन
तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः । सैव कारणकार्येषु प्रत्यक्षेणावगम्यते
सगुणा निर्गुणा सा तु द्विधा प्रोक्ता मनीषिभिः । सगुणा रागिभिः सेव्या निर्गुणा तु विरागिभिः
धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला । ददाति वाच्छितान्कामान्पूजिता विधिपूर्वकम्
न जानन्ति जना मूढास्तां सदा माययावृताः । जानन्तोऽपि नराः केचिन्मोहयन्ति परानपि
पण्डिताः स्वोदरार्थं वै पाखण्डानि पूथक्पृथक् । प्रवर्तयन्ति कलिना प्रेरिता मन्दचेतसः
कलावस्मिन्महाभागा नानाभेदसमुत्थिताः । नान्ये युगे तथा धर्मा वेदबाह्याः कथञ्चन
विष्णुश्चरत्यसावुग्र तपो वर्षाण्यनेकशः । ब्रह्मा हरस्त्रयो देवा ध्यायन्तः कमपि धुवम्
कामयानाः सदा कामं ते त्रयः सर्वदैव हि । यजन्ति यज्ञान्विविधान्ब्रह्मविष्णुमहेश्वराः
ते वै शक्तिं परां देवीं ब्रह्माख्यां परमात्मिकाम् । ध्यायन्ति मनसा नित्यं नित्यां मत्वा सनातनीम्
तस्माच्छक्तिः सदा सेव्या विद्वद्भिः कृतनिश्चयैः । निश्चयः सर्वशास्त्राणां ज्ञातव्यो मुनिसत्तमाः
कृष्णाच्छ्रुतं मया चैतत्तेन ज्ञातं तु नारदात् । पितुः सकाशात्तेनापि ब्रह्मणा विष्णुवाक्यतः
न श्रोतव्यं न मन्तव्यमन्येषां वचनं बुधैः । शक्तिरेव सदा सेव्या विद्वद्भिः कृतनिश्चयैः
प्रत्यक्षमपि द्रष्टव्यमशक्तस्य विचेष्टितम् । अतः सर्वेषु भूतेषु ज्ञातव्या शक्तिरेव हि
हरिकृतमधुकैटभवधवर्णनम् सूत उवाच यदा विनिर्गता निद्रा देहात्तस्य जगद्गुरोः । नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः
निःसृत्य गगने तस्थौ तामसी शक्तिरुत्तमा । उदतिष्ठज्जगन्नाथो जृम्भमाणः पुनः पुनः
तदापश्यत् स्थितं तत्र भयत्रस्तं प्रजापतिम् । उवाच च महातेजा मेघगम्भीरया गिरा
विष्णुरुवाच किमागतोऽसि भगवंस्तपस्त्यक्त्वात्र पद्मज । कस्माच्चिन्तातुरोऽसि त्वं भयाकुलितमानसः
ब्रह्मोवाच त्वत्कर्णमलजौ देव दैत्यौ च मधुकैटभौ । हन्तुं मां समुपायातौ घोररूपौ महाबलौ
भयात्तयोः समायातस्त्वत्समीपं जगत्पते । त्राहि मां वासुदेवाद्य भयत्रस्तं विचेतनम्
विष्णुरुवाच तिष्ठाद्य निर्भयो जातस्तौ हनिष्याम्यहं किल । युद्धायाजग्मतुर्मूढौ मत्समीपं गतायुषौ
सूत उवाच एवं वदति देवेशे दानवौ तौ महाबलौ । विचिन्वानावजं चोभौ संप्राप्तौ मदगर्वितौ
निराधारौ जले तत्र संस्थितौ विगतज्वरौ । तावूचतुर्मदोन्मत्तौ ब्रह्माणं मुनिसत्तमाः
पलायित्वा समायातः सन्निधावस्य किं ततः । युद्धं कुरु हनिष्यावः पश्यतोऽस्यैव सन्निधौ
पश्चादेनं हनिष्यावः सर्पभोगोपरिस्थितम् । त्वमद्य कुरु संग्रामं दासोऽस्मीति च वा वद
सूत उवाच तच्छ्रुत्वा वचनं विष्णुस्तावुवाच जनार्दनः । कुरुतं समरं कामं मया दानवपुङ्गवौ
हरिष्यामि मदं चाहं युवयोर्मत्तयोः किल । आगच्छतं महाभागौ श्रद्धा चेद्वां महाबलौ
सूत उवाच श्रुत्वा तद्वचनं चोभौ क्रोधव्याकुललोचनौ । निराधारौ जलस्थौ च युद्धोद्युक्तौ बभूवतुः
मधुश्च कुपितस्तत्र हरिणा सह संयुगम् । कर्तुं प्रचलितस्तूर्णं कैटभस्तु तथा स्थितः