सर्वे देवा मनुष्याश्च गन्धर्वोरगराक्षसाः । वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षिणः
मायाधीनाश्च ते सर्वे भाजनं बंधमोक्षयोः । तया सृष्टमिदं सर्वं जगत्स्थावरजंगमम्
तद्वशे वर्तते नूनं मोहजालेन यंत्रितम् । त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाऽऽविलः
ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा । ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः
तेऽपि रागवशाल्लोके भ्रमति परिमोहिताः । पुरा सत्ययुगे राजन्विष्णुर्नारायणः स्वयम्
श्वेतद्वीपं समासाद्य चकार विपुलं तपः । वर्षाणामयुतं यावद् ब्रह्मविद्याप्रसक्तये
अनश्वरसुखायासी चिंतयानस्ततः परम् । एकस्मिन्निर्जने देशे ब्रह्माऽपि परमाद्भुते
स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये । कदाचिद्वासुदेवोऽसौ स्थलांतरमतिर्हरिः
तस्माद्देशात्समुत्थाय जगामान्यद्दिदृक्षया । चतुर्मुखोऽपि राजेन्द्र तथैव निःसृतः स्थलात्
मिलितौ मार्गमध्ये तु चतुर्मुखचतुर्भुजौ । अन्योन्यं पृष्टवंतौ तौ कस्त्वं कस्त्वमिति स्म ह
ब्रह्मा प्रोवाच तं देवं कर्ताऽहं जगतः किल । विष्णुस्तमाह भो मूर्ख जगत्कर्ताऽहमच्युतः
त्वं कियान्बलहीनोऽसि रजोगुणसमाश्रितः । सत्त्वाश्रितं हि मां विद्धि वासुदेवं सनातनम्
मया त्वं रक्षितोऽद्यैव कृत्वा युद्धं सुदारुणम् । शरणं मे समायातो दानवाभ्यां प्रपीडितः
मया तौ निहतौ कामं दानवौ मधुकैटभौ । कथं गर्वायसे मंद मोहोऽयं त्यज सांप्रतम्
न मत्तोऽप्यधिकः कश्चित्संसारेऽस्मिन्प्रसारिते । ऋषिरुवाच। एवं प्रवदमानौ तौ ब्रह्मविष्णू परस्परम्
स्फुरदोष्ठौ वेपमानौ लोहिताक्षौ बभूवतुः । प्रादुर्बभूव सहसा तयोर्विवदमानयोः
मध्ये लिंगं सुधाश्वेतं विपुलं दीर्घमद्भुतम् । आकाशे तरसा तत्र वागुवाचाशरीरिणी
तौ संबोध्य महाभागौ विवदन्तौ परस्परम् । ब्रह्मन्विष्णो विवादं मा कुरुतां वां परस्परम्
लिंगस्यास्य परं पारमधस्तादुपरि ध्रुवम् । यो याति युवयोर्मध्ये स श्रेष्ठो वां सदैव हि
एक: प्रयातु पातालमाकाशमपरोऽधुना । प्रमाणं मे वचः कार्यं त्यक्त्वा वादं निरर्थकम्
मध्यस्थः सर्वदा कार्यो विवादेऽस्मिन्द्वयोरिह । ऋषिरुवाच। तच्छ्रुत्वा वचनं दिव्यं सज्जीभूतौ कृतोद्यमौ
जग्मतुर्मातुमग्रस्थं लिङ्गमद्भुतदर्शनम् । पातालमगमद्विष्णुर्ब्रह्माऽप्याकाशमेव च
परिमातुं महालिङ्गं स्वमहत्त्वविवृद्धये । विष्णुर्गत्वा कियद्देशं श्रान्तः सर्वात्मना यतः
न प्रापांतं स लिंगस्य परिवृत्य ययौ स्थलम् । ब्रह्माऽगच्छत्ततश्चोर्ध्वं पतितं केतकीदलम्
शिवस्य मस्तकात्प्राप्य परावृत्तो मुदावृतः । आगत्य तरसा ब्रह्मा विष्णवे केतकीदलम
दर्शयित्वा च वितथमुवाच मदमोहितः । लिङ्गस्य मस्तकादेतद्गृहीतं केतकीदलम्
अभिज्ञानाय चानीतं तव चित्तप्रशान्तये । श्रुत्वा तद्ब्रह्मणो वाक्यं दृष्ट्वा च केतकीदलम्
हरिस्तं प्रत्युवाचेदं साक्षी क: कथयाधुना । यथार्थवादी मेधावी सदाचारः शुचिः समः
साक्षी भवति सर्वत्र विवादे समुपस्थिते । ब्रह्मोवाच। दूरदेशात्समायाति साक्षी कः समयेऽधुना
यत्सत्यं तद्वचः सेयं केतकी कथयिष्यति । इत्युक्त्वा प्रेरिता तत्र ब्रह्मणा केतकी स्फुटम्